________________
२१८
बृहत्कल्प-छेदसूत्रम् -२-१/४६ परिपुच्छिऊण गमनं, अछिन्ने पल्लीहि वइगाहिं । वृ-द्वितीयपदे अध्वनि गम्यमाने प्रथमं मार्गेण, मार्गस्यासति पथाऽपि यतनया गन्तव्यम् । तत्र च जनं परिपृच्छय यः पल्लीभिजिकाभिर्वा अच्छिनः पन्थास्तेन गमनं विधेयम् । तदभावे छिन्नेनापि ॥अथ यैः कारणैर्गन्तुंकल्पते तानि दर्शयति[भा.३०६२] असिवे ओमोदरिए, रायडुढे भये वआगाढे।
गेलन उत्तिमढे, नाणे तह दंसण चरित्ते ।। वृ-आगाढशब्दःप्रयेकमभिसम्बध्यते-आगाढेऽशिवेऽवमौदर्येराजद्विष्टेबोधिक-स्तेनादिभये वा; यद्वा आगाढं नाम-शैक्ष-सागारिकादिकमन्यतरकारणम्, तथा ग्लान उत्तमार्थप्रतिपन्नो वा क्वचिद्देशान्तरे श्रुतोऽपान्तराले चतत्र च्छिन्नः पन्था अतस्तप्रतिचरणार्थं गन्तव्यम्, उत्तमार्थं वा प्रतिपित्सुः संविग्नगीतार्थसमीपे छिनेनापि पथा गच्छति । 'ज्ञानम्' आचारादि 'दर्शन' दर्शनविशुद्धिकारकाणि शास्त्राणि तदथमध्वानं गच्छेत् । चारित्रार्थं नाम-यत्र देशे स्त्रीदोषा एषणादोषा वा भवन्ति तं परित्यज्य देशान्तरं गन्तव्यम् ।। [भा.३०५३] एएहि कारणेहिं, आगाढेहिं तु गम्ममाणेहिं ।
उवगरणपुवपडिलेहिएण सत्येण गंतव्वं ॥ वृ-'एतैः' अशिवादिभिः कारणैरागाढरेव 'गम्यमानैः' प्राप्यमाणैरुपकरणमध्वप्रायोग्यंगृहीत्वा पूर्व-गमनात् प्राक् प्रत्युपेक्षितः-सम्यक् शुद्धाशुद्धतया निरूपितो यः सार्थस्तेन सह गन्तव्यम् ॥ अथेदमेव स्पष्टयति[भा.३०६४] असिवे अगम्ममाणे, गुरुगा नियमा विराधना दुविहा ।
तम्हा खलु गंतव्वं, विहिणा जो वन्निओ हिट्ठा ।। वृ-अशिवे समुत्पन्ने सति यदिनगम्यते ततश्चत्वारो गुरवः । तत्रच तिष्ठतां नियमाद् 'द्विविधा' संयमा-ऽऽत्मनोः अथवाऽऽत्मनः परस्य चेति विराधना । यत एवं तस्मात् ‘खलु' निश्चितं विधिना गन्तव्यम् । कः पुनर्विधिः ? इत्याह-यः 'अधस्ताद्' ओघनिर्युक्ती- “संवच्छरबारसएण, होही असिवं ति ते तओ निति।" इत्यादिगाथाभिर्वर्णितः। शेषाण्यप्यवमौदर्यादीनि पदानि यथैवीधनियुक्तौ तथैव वक्तव्यानीति॥ [भा.३०६५] उवगरण पुव्वभणियं, अप्पडिलेहिंते चउगुरू आणा।
ओमाण पंत सत्थिय, अतियत्तिय अप्पपत्थयणो । वृ- उपकरणं 'पूर्वभणितं' रात्रिभक्तसूत्रोक्तं नन्दीभाजन- चर्मकरकादिकं तदगृह्णानस्य चतुर्गुरुकाः । सार्थं वा यदि न प्रत्युपेक्षन्ते तदापि चतुर्गुरवः आज्ञादयश्च दोषाः । तथा सार्थं कदाचिदवमानेन स्वपक्ष-परपक्षकृतेनातीवोद्वेजितो भवेत्, यद्वा सार्थिकाः ‘आतियात्रिका वा' सार्थचिन्तकाःप्रान्ता भवेयुः, ‘अल्पपथ्यदनोवा' स्वल्पशम्बलःससार्थ।।अत एतद्दोषपरिहारार्थं सार्थ प्रत्युपेक्षितव्यः । कथं पुनः? इति अत्रोच्यते[भा.३०६६] राग-द्दोसविमुक्को, सत्थं पडिलेहे सो उ पंचविहो ।
भंडी बहिलग भरवह, ओदरिया कप्पडिय सत्थो । वृ-'राग-द्वेषविमुक्तो नाम' यस्य गन्तव्ये न रागोन वा द्वेषः स सार्थं प्रत्युपेक्षते । स च सार्थः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org