________________
उद्देशक : १, मूलं - ४६, [ भा. ३०६६ ]
पञ्चविधः, तद्यथा-भण्डी - गन्त्री तदुपलक्षितः प्रथमः सार्थ । बहिलकाः करभी- वेसर- बलीवर्दप्रभृतयः तदुपलक्षितो द्वितीयः । भारवहाः - पोट्टलिकावाहकास्तेषां सार्थ तृतीयः । औदरिका नाम-यत्र गताः तत्र रूपकादिकं प्रक्षिप्य समुद्दिशन्ति, समुद्देशनानन्तरं भूयोऽप्यग्रतो गच्छन्ति, एष चतुर्थः । कार्पटिकाः- भिक्षाचरास्ते भिक्षां भ्रमन्तो व्रजन्ति तेषां सार्थ पञ्चमः ॥ अथैनामेव गाथां विवृणोति[भा. ३०६७ ] गंतव्वदेसरागी, असत्थ सत्थं पि कुणति जे दोसा । इअरो सत्थमसत्यं, करेइ अच्छंति जे दोसा ।।
२१९
वृ- यो गन्तव्ये देशे रागी स सार्थप्रत्युपेक्षकः कृतोऽसार्थमपि सार्थं करोति, ततः कुसार्थेन गच्छतां ये दोषास्तानापद्यन्ते, तन्निष्पन्नं प्रायश्चित्तं सूरयः प्राप्नुवन्तीति भावः । 'इतरो नाम' गन्तव्यदेशद्वेषवान् स सार्थमप्यसार्थं करोति, ततस्तत्राशिवादिषु सन्तिष्ठमानानां ये दोषास्तान् प्राप्नुवन्ति । तस्माद् राग-द्वेषविमुक्तः सार्थप्रत्युपेक्षकः सूरिभि प्रस्थापनीयः ।।
अथ सार्थपञ्चकेऽपि गमनक्रमं गुणागुणविभागं च दर्शयति
[भा. ३०६८ ] उप्परिवाडी गुरुगा, तिसु कंजियमादिसंभवो होज्जा । परिवहमं दोसु भवे, बालादी सल्ल गेलने ॥
वृ- 'उत्परिपाट्या' यथोक्तक्रममुल्लङ्घय यदि सार्थेन सह गच्छन्ति तदा चतुर्गुरुकाः । किमुक्तं भवति ? -भण्डीसार्थे विद्यमाने यदि बहिलकसार्थेन गच्छन्ति तदा चतुर्गुरुकाः, अथ भण्डीसार्थो न प्राप्यते ततो बहिलकसार्थेनापि गन्तव्यम्, तत्र विद्यमाने भारवहसार्थेन गच्छन्ति तदापि चतुर्गुरवः, एवं भारवहादिसार्थेष्वपि भावनीयम् । अत्र चाद्येषु त्रिषु' भण्डी - बहिलकभारवहसार्थेषु काञ्चिकादिपानकानां सम्भवो भवेत्, 'द्वयोस्त' भण्डी - बहिलकसार्थयोर्बालानाम् आदिशब्दाद् वृद्धानं दुर्बलानां शल्यविद्धानां ग्लानानां च परिवहनं भवेत् ॥ किं पुनः सार्थे प्रत्युपेक्षणीयम् ? इत्याह[भा. ३०६९ ] सत्यं च सत्यवाहं, सत्थविहाणं च आदियत्तं च ।
दव्वं खेत्तं कालं भावोमानं च पडिलेहे ॥
वृ-सार्थं सार्थवाहं सार्थविधानम् आतियात्रिकं द्रव्यं क्षेत्रं कालं भावम् अवमानं च प्रत्युपेक्षेत इति द्वारगाथासङ्क्षेपार्थं ॥ साम्प्रतमेनामेव विवृणोति
[भा. ३०७०]
सत्थि त्ति पंच भेया, सत्थाहा अट्ठ आइयत्तीया । सत्थस्स विहाणं पुन, गणिमाई चउव्विहं होइ ॥
वृ- सार्थ इति पदेन भण्डीसार्थादयः पूर्वोक्ताः पञ्च भेदा गृहीताः । सार्थवाहाः पुनरष्टौ, आतियात्रिका अप्यष्टी, उभयेऽप्युत्तरत्र वक्ष्यन्ते । सार्थविधानं पुनर्गणिमादिभेदाच्चतुर्विधं भवति । तत्र गणिमं-यदेकद्व्यादिसङ्घयया गणयित्वा दीयते, यथा - हरीतकी - पूगफलादि । धरिमं यत् तुलायां धृत्वा दीयते, यथा-खण्ड-शर्करादि । भेयं यत् पलादिना सेतिकादिना वा मीयते, यथाघृतादिकं तन्दुलादिकं वा । पारिच्छेद्यं नाम यच्चक्षुषा परीक्ष्यते, यथा- वस्त्र - रत्न मौक्तिकादि । एतच्चतुर्विधमपि द्रव्यं भण्डीसार्थादिषु प्रत्युपेक्षणीयम् । तथा द्रवय-क्षेत्रकाल - भावैरपि सार्थः प्रत्युपेक्षणीयः ॥ तत्र द्रव्यतः प्रत्युपेक्षणां तावदाह
[भा. ३०७१] अनुरंगाई जाणे, गुंठाई वाहणे अणुन्नवणा । धम्मुत्ति वा भई व बालादि अनिच्छे पडिकुट्ठा ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org