________________
२२०
बृहत्कल्प-छेदसूत्रम् -२-१/४६
वृ-अनुरङ्गा नाम-धंसिकास्तदादीनि यानानिगवेषणीयानि, आदिशब्दात् शकटादिपरिग्रहः। वाहनानि ‘गुण्ठादीनि' गुण्ठो नाम-घोटको महिषो वा, आदिशब्दात् करभ-वृषभादिपरिग्रहः । एतेषांयानानां वाहनानांचानुज्ञापना कर्तव्या, यथा-अस्माकं कोऽपि बालो वृद्धो दुर्बलो ग्लानः शल्यविद्धो वा गन्तुं न शक्नुयात् स युष्माभिरनुरङ्गादौ वा तुरङ्गादौ वा आरोहयितव्यः । यदि "एवम्, धर्म' इति कृत्वाऽनुजानन्ति ततः सुन्दरम् । अथ नानुजानन्ति ततः 'भृत्या' मूल्येनापि यथाऽऽरोहयन्ति तथा प्रज्ञापयितव्याः । अथ मूल्येनापि बालादीनामारोहणं नेच्छन्ति ततः 'प्रतिक्रुष्टाः' प्रतिषिद्धाः, तैः सह न गन्तव्यमित्यर्थः । अपिच[भा.३०७२] दंतिक-गोर-तिल्ल-गुल-सप्पिएमादिभंडभरिएसु ।
____अंतरवाघातम्मिव, तं दितिहरा उ किं देति॥ वृ-मोदक-मण्डका-ऽशोकवतयादिकं यद् बहुविधं दन्तखाद्यकं तद् दन्तिकम्, “गोर"त्ति गोधूमाः, 'तैल-गुडौ' प्रतीतो, 'सर्पि' घृतम्, एवमादीनां भक्ष्यभाण्डानां यत्र शकटानि भृतानि प्राप्यन्ते स सार्थो द्रव्यतः शुद्धः । यत एवमादिभाण्डभृतेषु शकटादिषु सत्सु यद्यपि अन्तराअपान्तराले व्याघातः-वर्षा-नदीपूरादिक उत्पद्यते तथापि तद्'दन्तिकादिकं ते सार्थिकाः स्वयमपि भक्षयन्ति साधूनामपि च प्रयच्छन्ति । 'इतरथा' तेषामभावे किं ददति?, किमपीत्यर्थः॥
व्याघातकारणान्येव दर्शयति[भा.३०७३] वासेण नदीपूरेण वा वि तेनभय हस्थि रोधे य।
खोभे व जत्थ गम्मति, असिवं वेमादि वाघाता। कृ-सार्थस्यगच्छतोऽपान्तरालेआगाढवर्षेणवानदीपूरेणवाबहुतरदिवसान्व्याघात उपस्थितः, अग्रतो वा स्तेनानां भयमुत्पन्नम्, दुष्टहस्तिना वा मार्गो निरुद्धः, 'यत्र वा' नगरादौ 'गम्यते' गन्तुमिष्यते तत्र रोधको वा राज्यक्षोभो वा अशिवं वा उत्पन्नम्, एवमादयो गमनस्य व्याघाता भवन्ति। तेषूपस्थितेषु यद्यपान्तराले सार्थः सन्निवेशं कृत्वा तिष्ठतितथापिदन्तिक्कादिबहुविधखाद्यद्रव्यभृतासुगन्त्रीषु सुखेनैव साधवः संस्तरन्ति । अतस्तेन सह गन्तव्यम् ।। न पुनरीशेन[भा.३०७४] कुंकुम अगुरुंपत्तं, चोयं कत्थूरिया य हिंगुं च ।
संखग-लोणभरितेण, न तेन सत्थेण गंतव्वं ।। वृ-कुङ्कुमं अगुरु तगरपत्रं "चोयं"तित्वक् कस्तूरिका हिङ्गुरेवमादिकमखाद्यद्रव्यं यत्र भवति, यश्च शङ्खन लवणेन वा भृतः-पूर्ण, तत्रान्तरा व्याघाते समुत्पन्ने निष्ठितशम्बलाः सार्थिकाः किं प्रयच्छन्तु ? यत एवमतः तेन' ताद्दशेन सार्थेन सह न गन्तव्यम् ॥
गता द्रव्यतः प्रत्युपेक्षणा । अथ क्षेत्र-काल-भावैस्तामाह[भा.३०७५] खेत्तेजंबालादी, अपरिस्संता वयंति अद्धाणं ।
काले जो पुव्वण्हे, भावे सपक्खादणोमाणं ।। वृ-यावन्मात्रमध्वानं बाल-वृद्धादयऽपरिश्रान्ताः 'व्रजन्ति' गन्तुं शक्नुवन्ति तावन्मात्रं यदि सार्थो व्रजति तदास सार्थ क्षेत्रे' क्षेत्रतः शुद्धः । तथा यः सूर्योदयवेलायांप्रस्थितः पूर्वाह्ने तिष्ठति सकालतः शुद्धः । यत्र तु स्वपक्ष-परपक्षिभिक्षाचरैरनवमानं स भावतः शुद्धः ।।
[भा.३०७६] एक्किको सो दुविहो, सुद्धो ओमानपेल्लितो चेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org