________________
२२१
उद्देशक : १, मूलं-४६, [भा. ३०७६]
मिच्छत्तपरिग्गहितो, गमनाऽऽदियणे य ठाणे अ॥ वृ- भण्डीसार्थ-बहिलकसार्थयोर्मध्यादेकैको द्विविधः-शुद्धोऽशुद्धश्च । शुद्धो नाम-यो नावमानप्रेरितः, अवमानप्रेरितोऽशुद्धः । तथा सार्थवाह आदियात्रिको वा योवा तत्र प्रधानःस यदि मिथ्याप्टिस्तदास सार्थो मिथ्यात्वपरिगृहीत इति कृत्वा नानुगन्तव्यः । “गमनाऽऽइयणे य ठाणेय"त्तिगमने यःसार्थमृदुगति अच्छिन्नेन वा पथाव्रजति, आदनं-भोजनं तवेलायांयस्तिष्ठति, 'स्थानेच' स्थण्डिले यो निवेशं करोति ईशः शुद्धः ।। अथ स्वपक्ष-परपक्षावमानं व्याख्यानयति[भा.३०७७] समणा समणि सपक्खो, परपक्खो लिंगिणो गिहत्था य।
आया-संजमदोसा, असईय सपक्खवजेण ॥ वृ-स्वपक्षःश्रमणाः श्रमण्यश्च द्रष्टव्याः।परपक्षो लिङ्गिनो गृहस्थाश्च । इह लिङ्गिनोऽन्यतीर्थिका द्रष्टव्याःईशेन भिक्षाचरवर्गेणाकीर्णेपर्याप्तमलभमानानामात्म-संयदोषाभवन्ति। तत्रात्मदोषाः परितापनादिना, संयमदोषास्तु कन्दादिग्रहणेनेति । अथानवमानं सर्वथैव न प्राप्यते ततोऽनवमानस्यासति ‘स्वपक्षवर्जेन' स्वपक्षावमानं वर्जयित्वा य परपक्षावमानं भवति तेन गन्तव्यम् । तत्र जनो भिक्षाग्रहणे विशेषं जानाति-इमे श्रमणाः, एते तु तच्चन्निकादय इति ॥
"गमनाऽऽदियणे य ठाणे य"त्ति पदत्रयं व्याचष्टे[भा.३०७८] गमनं जो जुत्तगती, वइगा-पल्लीहिं वा अछिन्नेनं ।
थंडिल्लं तत्थ भवे, भिक्खग्गहणे य वसही य। [भा.३०७९] आदियणे भोत्तूणं, न चलति अवरण्हे तेन गंतव्वं ।
तेन परं भयणा ऊ, ठाणे थंडिल्लठाई उ ।। वृ-गमनशुद्धो नाम यः सार्थ ‘युक्तगति' मन्दगमनः, न शीघ्रं गच्छतीत्यर्थः; यो वा व्रजिकापल्लीभिरच्छिन्नः पन्थास्तेन गच्छति, यतस्तत्राच्छिन्ने पथि स्थण्डिलं भवति,जिकादौ च सुखेनैव भिक्षाग्रहणं वसतिश्च प्राप्यते ।। आदनं-भोजनं तद्वेलायां यस्तिष्ठति, भुक्त्वा चापराह्णेन चलति तेन सह गन्तव्यम् । “तेन परं भयणा उत्ति प्राकृतत्वात् पञ्चम्यर्थे तृतीया, 'ततः परं भोजनादनन्तरमपराह्ने यश्चलति तत्र भजना कर्तव्या-यदि सर्वेऽपि साधवः समर्थास्तदानीं गन्तुं ततः शुद्धः, अथ न शक्नुवन्ति ततोऽशुद्ध इति । स्थानं नाम-गमनादुपरम्य निवेशं कृत्वा कचित् प्रदेशेऽवस्थानम्, तत्र यः स्थण्डिलस्थायी सशुद्धः, अस्थण्डिले तिष्ठन्त्रशुद्ध इति ॥अथयदुक्तम् 'अष्टौ सार्थवाहा आदियात्रिकाच' इति तदेतद् व्याख्यानयति[भा.३०८०] पुराण सावग सम्मद्दिछि अहाभद्द दानसड्ढे य ।
अनभिग्गहिए मिच्छे, अभिग्गहे अन्नतित्थी य ।। वृ-'पुराणः' पश्चात्कृतः १ श्रावकः' प्रतिपन्नाणुव्रतः २ ‘सम्यग्दृष्टिः' अविरतसम्यग्दर्शनी ३ 'यथाभद्रकः' सामान्यतः साधुदर्शनपक्षपाती ४ 'दानश्राद्धः' प्रकृत्यैव दानरुचिमान ५ अनभिगृहीतमिथ्याष्टिः ६ अभिगृहीतमिथ्याष्टिः ७अन्यतीर्थिकः ८ एते त्रयोऽपि प्रतीताः। एवमष्टौ सार्थाधिपतयः । आदियात्रिका अप्येवमेवाष्टौ भवन्ति ॥ साम्प्रतमध्वानं प्रतीत्य भङ्गानुपदर्शयति[भा.३०८१] सत्थपणए य सुद्धे, य पेल्लिओ कालऽकालगम-भोगी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org