________________
२१४
बृहत्कल्प-छेदसूत्रम् -२-१/४६
अथाध्यानमेव भेदतः पररूपयन्नाह[भा.३०४१] अद्धाणं पि य दुविहं, पंथो मग्गो य होइ नायव्यो ।
पंथम्मि नत्थि किंची, मग्गो सग्गामो गुरु आणा॥ वृ-“अद्धाणं"ति नपुंसकनिर्देशः प्राकृतत्वात्, ततो अध्वा द्विविधः, तद्यथा-पन्था मार्गश्च । पन्था नाम-यत्र ग्राम-नगर-पल्ली-वजिकानां किञ्चिद्' एकतरमपि नास्ति । यत्र पुनामानुग्रामपरम्परया वसिमं भवति स सग्रामो मार्ग उच्यते। द्वयोरपि रात्रौ गच्छतश्चत्वारो गुरुकाः; दिवा तु पथि चतुर्गुरवः, मार्गे चतुर्लघवः, आज्ञादयश्च दोषाः ।। [भा.३०४२] तुंपुन गम्भिज्ज दिवा, रत्तिं वा पंथ गमन मग्गे वा ।
रत्तिं आएसदुगं, दोसु विगुरुगाय आणादी । वृ-स पुनरध्वा दिवा गम्येत रात्रौ वा, तच्चोभयमपि गमनं पथि वा मार्गे वा स्यात् । तत्र रात्रिशब्दे आदेशद्वयम् । केचिदाचार्या ब्रुवते-सन्ध्या यतो राजते-शोभते तेन निरुक्तिशैल्या रात्रिरुच्यते, यस्तु सन्ध्याया अपगमः स विकालः । अन्ये तुब्रुवते-यतः सन्याया अपगमे चौरपारदारिकादयो रमन्ते ततोऽसौ रात्रिरिति परिभाष्यते, सन्ध्यायां तु यत एते विरमन्त ततः सा विकालः पन्थानंवामार्गवायदिरात्रौ विकाले वा गच्छतितदा द्वयोरपि चत्वारोगुरवः आज्ञादयश्च दोषाः। इयमन्याचार्यपरिपाट्या गाथा ततोनपौरुक्त्यम्॥तत्रमार्गेतावद्दोषानुपदिदर्शयिषुराह[भा.३०४३] मिच्छत्ते उड्डाहो, विराधना होइ संजमा-ऽऽयाए।
रीयाइ संजमम्मी, छक्काय अचक्खुविसयम्मि ।। वृ-रात्रौमार्गेगच्छतःसाधूनुद्दष्टवाकश्चिदभिनवधर्मा मिथ्यात्वं गच्छेत् । उड्डाहोवाप्रवचनस्य भवति । विराधना वासंयमा-ऽऽत्मविषया भवेत्। तत्रसंयमविराधनायामीर्यासमितिप्रभृतिकाः समितीनं शोधयति, रात्रौ वाऽचक्षुर्विषये षट्काया विराध्यन्ते । एष द्वारगाथासङ्ग्रेपार्थं ॥
साम्प्रतमेनामेव सविस्तरं विवृणोति[भा.३०४४] किं मन्ने निसि गमनं, जतीण सोहिंति वा कहं इरियं ।
जइवेसेन व तेना, अडंति गहणाइ उड्डाहो ॥ वृ-अमीषां परलोककार्योधतानां यतीनां किमर्थं निशि' रात्रौ गमनम् ? किं मन्ये दुष्टचित्ता अमी? कथंवा रात्रावटन्तोऽमी ईर्यांशोधयन्ति? यथा चैतदसत्यंतथासर्वमप्यमीषामसत्यमिति मिथ्यात्वं स्थिरीकृतमुत्पादितं वा भवति । तथा 'यतिवेषेण नूनममी स्तेनाः पर्यटन्ति' इति कृत्वा ग्रहणा-ऽऽकर्षणादिषुपदेषु विधीयमानेषु महान् प्रवचनस्योड्डाहो भवेत् ।। [भा.३०४५] संजमविराधनाए, महव्वया तत्थ पढमछक्काया।
बिइए अतेण तेनं, तइए अदिन्नं तु कंदाई। वृ-संयमविराधना द्विविधा-मूलगुणविषया उत्तरगुणविषया च । 'तत्र' मूलगुणविषयायां महाव्रतानि विराध्यन्ते । तत्र प्रथमे महाव्रते रात्रावचक्षुर्विषयतया 'षट्कायाः' पृथिव्यादयो विनाशमश्नुवते, द्वितीये रजन्यामस्तेनमपि स्तेनमिति भाषेत, तृतीये कन्दमूलादिकम् ‘अदत्तं' स्वामिना अवितीर्णं गृह्णीयात् ।। अथवा
[भा.३०४६] दियदिने वि सचित्ते, जिनतेनं किमुय सव्वरीविसए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org