________________
उद्देश : १, मूलं- ४५, [ भा. ३०३६ ]
२१३
उत्तरउत्तर माडंबियाई जा पच्छिमो राया ॥।
- इह मूलपल्ली मुक्त्वा या अन्याः पल्लूयस्तासामधिपतयो मूलपल्लीपतिवशवर्त्तिनः स्पर्द्धकषतय उच्यन्ते। तेषामेकतरेण साधवो विविक्ताः, स च प्रकृत्यैव प्रान्तः, ततस्तस्मिन् प्रान्ते बहुशोऽपि मार्गिते उपकरणमप्रयच्छति मूलसेनापतिं 'भणन्ति' धर्मकथादिना परज्ञापयन्ति, स च प्रज्ञापितः सन् दापयति । अथ सोऽपि प्रान्तः ततो यः कोऽपि माडम्बिकः- छिन्नमडम्बाधिपति स प्रज्ञाप्यते । तत उत्तरोत्तरं तावन्नेतव्यं यावद् 'अपश्चिमः' सर्वान्तिमो राजा, तमपि प्रज्ञाप्योपकरणं ग्रहीतव्यमिति भावः । अथ प्रामादाद्युपहतो न मार्गयति न वा घौत-रक्तादिकमसंयतप्रायोग्यमिति कृत्वा गृह्णाति ततश्चतुर्लघवः ॥
[भा.३०३७] वसिमे वि विवित्ताणं, एमेव य वीसुकरणमादीया ।
वोसिरणे चउलहुगा, जं अहिगरणं च हानी जा ।।
वृ- न केवलमध्वनि विविक्तानां किन्तु 'वसिमेऽपि जनपदे विविक्तानामुपकरणविष्वक्करणादीनि कार्याण्येवमेव मन्तव्यानि । यस्तु स्वोपकरणं व्युत्सृजति, 'को नामात्मानमायासयिष्यति ?' इति कृत्वा न गवेषयतीति भावः, तस्य चत्वारो लघवः । यच्च 'अधिकरणम्' अप्कायप्रक्षालनादिकं या च तेनोपकरणेन विना सूत्रार्थयोः संयमयोगानांवा परिहाणिस्तन्निष्पन्नमपि प्रायश्चित्तम् । यत एवमतः सर्वप्रयत्नेन गवेषणीयम् ।।
मू. (४६) नो कप्पइ निग्गंधाण वा निग्गंधीण वा राओ वा वियाले वा अद्धाणगमणं एत्तए । वृ- अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह
[भा. ३०३८]
हरियाहहियट्ठाए, होज्ज विहेमाइयं न वारेमो । जं पुन रत्तिं गमणं, तदट्ठ अन्नट्ठ वा सुत्तं ॥
वृ-विहे-अध्वनि गच्छतां हताहतिकार्थम् 'एवमादिकं' पल्लीगमनप्रभृतिकं भवेद् न वयं तद् वारयामः । यत्पुना रात्रावध्वनि गमनं 'तदर्थं' हताहतिकानिमित्तम् अथवा 'अन्यार्थम्' अन्येषांज्ञानादिकारणानामर्थाय तत्र सूत्रमवतरति, तद् न कल्पत इति भावः ॥
[भा. ३०३९]
अहवा तत्थ अवाया, वच्चंते होज्ज रत्तिचारस्स ।
जइ ता विहं पि रत्तिं, वारेतऽ विहं किमंग पुणो ॥
वृ- अथवा 'तत्र' अध्वनि व्रजतां यो रात्रिचारी - रात्रौ गमनशीलस्तस्य संयमा-ऽऽत्मप्रवचनविषया बहवः प्रत्यपाया भवेयुरिति रात्रौ गमनं वार्ये । यदि च 'विहमपि' अध्वानमपि रात्रौ गन्तुं वारयति ततः किमङ्ग पुनः 'अविहम्' अनध्वानम् ? जनपदे सुतरां रात्रौ गन्तुं वारयति इति भावः ।। अनेन सम्बन्धेनायातस्यास्यव्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा रात्रौ वा विकाले वाऽध्वगमनं 'एतुं' गन्तुमिति सूत्रार्थ ॥ अथ भाष्यविस्तरः
[भा. ३०४०] इहरा विता न कप्पइ, अद्धाणं किं तु राइविसयम्मि । अत्थावत्ती संसइ, कप्पइ कज्जे दिया नूनं ॥
वृ- इतरथाऽपि तावन्न कल्पतेऽध्वानं गन्तुं 'किन्तु' किं पुना रात्रिविषये ? तत्र सुतरां न कल्पते । यतश्च सूत्रं रात्रिविषयं प्रतिषेधं विधत्ते अतः 'अर्थापत्ति' सामर्थ्यगम्यता सैव 'शंसति' कथयति-नूनं ज्ञायते दिवा 'कार्ये' ज्ञानादौ समुत्पन्नेऽध्वानमपि गन्तुं कल्पते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org