________________
२१२
बृहत्कल्प-छेदसूत्रम् -२-१/४५ विधिपरिकर्मितो यथोक्त प्रमाणोपेतश्च स संविग्न सम्बन्धी ते गृहीत्वा तेषामेव संविग्नानामपर्यन्ति । अथ ते देशान्दरं गतास्ततो यदि संस्तरति ततः परिष्ठापयन्ति । अथ न संस्तरति ततः परिभुञ्जतो यः पुनः ‘अशुद्धः' एतद् विपरीतः सोऽसंविग्नानां सम्बन्धी तमप्यन वस्थाऽधिकरण परिहरणार्थं गृहीत्वा पश्चात् परिष्ठापयन्ति ॥ इदमेव व्याचष्टे[भा.३०३२] तं सिव्वणीहि नाउं, पमाण हीनाहियं विरंगं वा ।
इत्तरोवहिं पि गिण्हइ, मा अहिगरणं पसंगो वा ।। 'तद्' उपकरणमविधिसीवनिकाभिः सीवितं प्रमाणतश्च हीनाधिकं तथा 'विरङ्ग' विचित्रवर्णकरक्तम् एवंविधं दृष्ट्वा ज्ञातव्यम्, यथा-एष इतरेषाम्-असंविग्नानामुपधि, तमपि ज्ञात्वा गृह्णात्येव । कृतः ? इत्याह-मा तस्मिन्नगृह्यमाणेऽधिकरणमसंयतपरिभोगादिना 'प्रसङ्गो वा' भूयोऽप्युपकरणहरणलक्षणो भवत्विति कृत्वा ।। [भा.३०३३] अनस्स व पल्लीए, जयणा गमनं तु गहण तह चेव ।
गामानुगामियम्मि य, गहिए गहणे य जं भणियं ।। वृ- अथान्यस्य सेनापतेः पल्ल्यां हृतोपकरणस्यार्द्ध नीतं भवेत ततस्तत्रापि यतनया गमनं ग्रहणं च 'तथैव' अनुशिष्टि-धर्मकथादिना विधेयम् । एवमध्वनि विविक्तानां विधिरुक्तः । अथानध्वनितमेवातिदिशति- “गामानुगामि" इत्यादि,ग्रामानुग्रामिकेऽपि विहारेमासकल्पविधि कुर्वन्तो यदा विविक्ता भवन्ति तदा ‘गृहीते' स्वहस्त चटिते “गहणे" ति गृह्यमाणे चोपकरणे उपधिपृथक्करणादिकं धर्मकथादिकं च यत् पूर्वं भणितं तदेवात्रापि द्रष्टव्यम् ॥
इदभेव व्याचिख्यासुराह[भा.३०३४] तत्थेव आणवावेइ तं तु पेसेइ वा जहिं भद्दो ।
सत्येण कप्पियारं, व देइ जो णं तहिं नेइ । वृ-यधुपकरणमन्यस्यांपल्लयांनीतंतदा यदि मूलपल्लीपतिर्भद्रकस्ततउपकरणं तत्रैव' आत्मनो मूले तत्पल्लीवास्तव्यमानुषैरानाययति ।अथवा 'तम्' इत्यात्मीयमनुष्यंतत्रप्रेषयति यत्रासावन्यस्य सेनापतेः पल्लयामुपधिर्वर्तते । अथासौ न समर्थ-स्वसमीपे आनाययितुंततः सार्थेन सह तस्यां पल्लयां गन्तव्यम्।अथ सार्थो न प्राप्यते ततो मूलपल्लीपतिर्मानुषं मार्गयितव्यः । सच कल्पितारं' मार्गदर्शयितारं स्वमनुष्यं ददाति यः 'तत्र' पल्ल्यां “ण" मिति तान् साधून नयति ।। [भा.३०३५] अनुसट्ठाई तत्थ वि, काउ सपल्लि इतरीसुवा घेत्तुं।
सत्थेणेव जनवयं, उविंति अह भद्दए जयणा ।। वृ- 'तत्रापि' पल्लयामनुशिष्टि-धर्मकथादिप्रयोगं कृत्वा गृहीत्वा च स्वकीयमुपकरणजातम्, यदि ततः सार्थो न लभ्यते ततस्तेनैव मनुष्येण सह स्वपल्लयामागच्छन्ति, मूलपल्लयामित्यर्थः । तत्र चागत्य सार्थेन सह जनपदमुपयान्ति । अथ तस्याः पल्लयाः सकाशादितरासांजनपदप्रत्यन्तपल्लीनां सार्थो लभ्यते तासु चोपकरणं नीतं भवेत्,ततस्तदर्थे तत्र गत्वा तच्च गृहीत्वा तत एव सार्थेन सार्द्ध जनपदमुपयान्ति । 'अथ' एषा भद्रकेऽन्यपल्लीपतौ यतना भनिता ॥
अथ प्रान्तविषयां तामेवाह[भा.३०३०] फड्डगपइए पंते, नंति सेनावई तहिं पंते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org