________________
उद्देशक : १, मूलं-४५, [भा. ३०२६]
२११ यद्येवंततः स्वमानुषमस्माभि सह विसर्जयत । ततस्तदीयमानुषेण सह गच्छन्ति।तञ्च ब्रूते-'इह' अस्याभेव पल्लयां प्रतिपल्लीषु वा यद् यद् भवताभुपकरणं तत् तद् “रुसेह" त्ति देशीवचनत्वाद् . गवेषयत, अहं भवतां द्वितीयोऽस्मीति । ततो यद् यत्र पश्यन्ति तत् तत्र सेनानुशिष्टयादिभि प्रज्ञाप्य गृह्णन्ति ॥ [भा.३०२७] अम्हं ताव न जातो, जह एएसिं पि पावइ न हत्थं ।
तह कुणिमो मोसमिणं, छुभंति पावा अह इमेसु॥ वृ- अस्माकं तावदयं 'मोषः' मुषितवस्त्रादिलक्षणो न जातः, अतो यथैतेषामपि हस्तं न प्राप्नोतितथा वयमेनंमोषं कुर्महे इतिविचिन्त्य केचित् 'पापाः' स्तेनकाः अथ' इतिचिन्तानन्तरमेतेषु प्रक्षिपन्ति॥ तद्यथा[भा.३०२८] पुढवी आउक्काए, अगड-वणस्सइ-तसेसु साहरई।
सुत्तत्थजाणएणं, अप्पाबहुयं तु नायव्वं ।। वृ-पृथिवीकाये वा अप्कायेवाअगडे वा-गयामित्यर्थः वनस्पतिषुवात्रसेषुवा 'संहरन्ति' निक्षिपन्तीतियावत्, गाथायामेकवचननिर्देशःप्राकृतत्वात्, एतेषुनिक्षिप्तममीषांग्रहीतुंन कल्पत इति बुद्धा । अत्र व 'सूत्रार्थज्ञेन' गीतार्थेन 'पृथिव्यादिनिक्षिप्ते तत्रोपकरणे गृह्यमाणे स्वल्पतरमेवाधिकरणम्, अगृह्यमाणेतु बहुतरमसंतपरिभोगा-ऽप्कायप्रक्षालनादिकम् इति एवमल्पबहुत्वं ज्ञातव्यम्, ज्ञात्वा च ग्रहीतव्यं तद् वस्त्रम् । अथ न गृह्याति ततश्चतुर्लघुकाः, अनवस्था चैवं भवति, भूयोऽपि हृत्वा ते वा अन्ये वा एवमेम पृथिव्यादिषु निक्षिपन्तीति भावः॥
अथ “सा विय परिभुत्ता वा" इत्यादि सूत्रावयवं विवृणोति[भा.३०२९] हरियाहडिया सुविहिय!, पंचवन्ना वि कप्पई घेत्तुं।
परिभुत्तमपरिभुत्ता, अप्पाबहुगं वियाणिता॥ वृ-हे सुविहित ! हताहृतिका यद्यपि तैः स्तेनकैः पञ्चवर्णा कृता तथापि ग्रहीतुंकल्पते । तथा परिभुक्ता अपरिभुक्ता वा, उपलक्षणत्वाद्धौता घृष्टा मृष्टा सम्प्रधूमितावाभवतुपरंतथाप्यल्पबहुत्वं विज्ञाय स्वीकर्तव्यैव, न परिहर्त्तव्या ॥अत्रैव विशेषमाह[भा.३०३०] आधत्ते विक्कीए, परिभुत्ते तस्स चेव गहणंतु।
अन्नस्स गिण्हणं तस्स चेव जयणाए हिंडंति॥ वृ-स्तेनकैस्तद् वस्त्रं 'आधत्तं' ग्रहणके मुक्तं भवेद् विक्रीतं वा परिभुक्तं वा ततस्ते ब्रूयुःवयमन्यद्वस्त्रं प्रयच्छाम इति।ततोवक्तव्यम्-तदेवास्माकंप्रयच्छत नान्येन केनापिप्रयोजनमिति भणित्वा तदेव ग्रहीतव्यम् । यदि न लभ्यते ततोऽनवस्थाप्रसङ्गनिवारणार्थमन्यस्यापि ग्रहणं कुर्वन्ति।तञ्चयदि संस्तरति ततः परिष्ठापयितव्यम्, असंस्तरणेतुपरिभोक्तव्यम्।तथा तस्यैव' सेनापतेर्मानुषैः सह वस्त्रान्वेषणाय यतनया 'हिण्डन्ते' पर्यटन्ति ।। इदभेव भावयति[भा.३०३१] अन्नं च देइ उवहिं, सो वियनातो तहेव अत्रातो।
सुद्धस्स होइ गहणं, असुद्धि धेत्तुं परिट्ठवणा॥ वृ-अथासौ सेनापतिः ‘अन्यम्' अन्य साधुसम्बन्धिनमुपधिं ददातिततः सोऽपिच' उपधिः - 'ज्ञातोवास्यात्' संविग्नाऽ संविग्न सम्बन्धितयोपलक्षितः 'अज्ञातोवा' तद्विपरीतः तत्रयःशुद्धिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org