________________
उद्देशक : १, मूलं-१०, [भा. २१७०]
२७
असमंजसो उ तम्हाऽगारिस्थिसमागमो जइणो ।। वृ. आगन्तुकद्रव्यैः-वस्त्रा-ऽऽभरणादिभिर्विभूषितम्-अलङ्कृतं चशब्दादुद्वर्त्तनस्नानादिपरिकर्मयुक्तंच यस्मादगारस्त्रीणामौदारिकंशरीरंतस्माद् ‘असमञ्जसः' विसशस्ताभिः सह 'यतेः' साधोर्मलीमसशरीरस्य समागमन (समागमः-) मीलकः॥ अपि च[भा.२१७१] अविभूसिओ तवस्सी, निक्कामोऽकिंचणो मयसमाणो ।
इयऽगारीसुं समणे, लज्जा भय संथवो न रहो।। वृ- ‘अविभूषितः' विभूषारहित एषः, तथा 'तपस्वी' तपःक्षीणदेहः, 'निष्कामः' शुभरसगन्धाद्यपभोगरहितः, 'अकिञ्चनः' निष्परिग्रहः, ततः 'मृतसमानः' शबकल्प एषः, 'इति' एवमगारीणांश्रमणेऽवज्ञाभवति। श्रमणस्य पुनरगारीभिः सह विपक्षतयायालज्जा यच्चागारिभ्यो भयं तेन ताभिसह न ‘संस्तवः' परिचयः न वा ‘रहः' एकान्त इति ॥स्वपक्षे तु कथम्? इत्याह[भा.२१७२] निब्भयया य सिनेहो, वीसत्थत्तं परोप्पर निरोहो ।
दानकरणं पि जुजइ, लग्गइ तत्तं च तत्तं च ।। वृ-संयतस्य संयत्या 'निर्भयता' न भयमुत्पद्यते, स्नेहश्चोभयोरपि भवति स्वपक्षत्वात्, 'विश्वस्तत्वं च विश्वासः परस्परगुह्यगोपनविषयः प्रत्ययइत्यर्थः, परस्परम्' उभयोरपि 'निरोधः' बस्तिनिग्रहात्मकः, तथा 'दानकरणमपि' वस्त्र-पात्रादिदानलणं संयती प्रति तस्य 'युज्यते' सम्भवतीत्यर्थः, ततो यथा तप्तं च तप्तं च लोहं 'लगति' सम्बध्यते तथा संयती-संयतौ द्वावपि निरोधसन्तप्तौ रहो लब्ध्वा लगत इति ॥ आह दृष्टास्तावत् स्वपक्षसमुत्था दोषाः, परमेते कुत्र सम्भवन्ति? इति निरूप्यताम्, उच्यते[भा.२१७३] वीयार-भिक्खचरिया-विहार-जइ-चेइवंदनादीसुं।
कज्जेसुं संपडिताण होंति दोसा इमे दिस्स। वृ- एकवगडे एकद्वारे च ग्रामादौ विचारभूमि-भिक्षाचर्या-विहारभूमि-यतिचैत्यवन्दनादिषु कार्येषुप्रतिश्रयान्निर्गतानां रथ्यादौ सम्पतितानां मिलितानामन्योऽन्यं दृष्ट्वा एते दोषा भवन्ति॥ [मा.२१७४] दूरम्मि दिट्टि लहुओ, अमुगो अमुगि त्ति चउलहू होति ।
किइकम्मम्मि य गुरुगा, मिच्छत्त पसज्जणा सेसे ॥ वृ-यदि दूरेऽपि संयतः संयत्या दृष्टः संयती वा संयतेन तदा लघुको मासः । प्रत्यासन्नप्रदेशे समायातं संयतं सम्यगुपलक्ष्य संयती यद्यमुकोऽयंज्येष्ठार्य इति ब्रूते, संयतो वा संयतीमुपलक्ष्य अमुका संयतीति ब्रवीति तदा चत्वारो लघवः । अथ सा 'कृतिकर्म वन्दनंकरोति तदा चत्वारो गुरुकाः । ये चाभिनवधर्माणस्ते तथा वन्दमानानुपलभ्य वक्ष्यमाणनीत्या मिथ्यात्वं गच्छेयुः । 'शेषे' भोजिका-घाटिकादौ शङ्कां कुर्वाणे सति प्रसजना' प्रायश्चित्तस्य वृद्धिद्रष्टव्या॥तामेवाह[भा.२१७५] दिढे संका भोइय, घाडिय नाई य गाम बहिया य ।
चत्तारिछच्च लहु गुरु, छेदो मूलं तह दुगंच॥ वृ-संयतस्य संयत्या कृतिकर्म क्रियमाणं केनचिद् दृष्टम्, दृष्टे सति तस्य 'शङ्का' वक्ष्यमाणा सआयतेततश्चत्वारो गुरवः । अथ भोजिकायाः' भार्यायाः कथयति ततश्चतुर्लघुकाः। घाटिकःमित्रंतस्याग्रतः कथने चतुर्गुरवः । 'ज्ञातीना' स्वजनानां कथने षड् लघवः । अज्ञातीनां कथयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org