________________
३१४
बृहत्कल्प-छेदसूत्रम् -२-२/६३
गते १३ । अन्यः प्राह-एते सर्वेऽप्यनादेशाः । कुतः ? इत्याह- अनुज्ञापितावग्रहादिषु निक्षिप्तान्तेषु दिवसत एव व्याघातो भवेत्, व्याघाताच्चान्यां वसतिमन्यद्वा क्षेत्रं गताः ततः कस्यासौ शय्यातरो भवतु ? | आवश्यकादिषु च भवितुमर्हति ? । आदेशः पुनरयम्- 'निव्यार्घाते' व्याघाताभावे यद्यन्यां वसतिं न गताः तत्रैव रात्रावुषितास्ततो भजना कर्त्तव्या । स वा शय्यातरो भवेत् 'इतरो वा' अन्य उभयं वा ॥ इदमेव भावयति
[भा. ३५२९] जइ जग्गंति सुविहिया, करेंति आवासगं च अन्नत्थ । सेज्जातरो न होती, सुत्ते व कए व सो होती ॥
वृ- 'यदि' इत्यभ्युपगमे, रात्रेश्चतुरोऽपि प्रहारन् 'सुविहिताः' शोभनानुष्ठानाः साधवो यदि जाग्रति प्राभातिकं चावश्यकमन्यत्र गत्वा कुर्वन्ति तदा स मूलोपाश्रयस्वामी शय्यातरो न भवति, किन्तु 'सुप्ते वा' शयिते कृते सति कृते वा प्राभातिकावश्यके स शय्यातरो भवति । अथ शय्यातरगृहे रात्र सुप्त्वा प्राभातिकप्रतिक्रमणं तत्रैव कुर्वन्ति तदा परिस्फुटं स एव शय्यातर इति ॥ अन्नत्थ व सेऊणं, आवासग चरममन्नहिं तु करे । दोन्नि वि तरा भवंती, सत्यादिसु इधरधा भयणा ||
[ भा. ३५३०]
वृ- अन्यत्र स्थाने सुप्तवा 'चरमं' प्राभातिकमावश्यकमन्यंत्र कुर्वन्ति तदा यस्यावग्रहे रात्रौ सुप्ता यदवग्रहे च प्राभातिकप्रतिक्रमणं कृतं तौ द्वावपि शय्यातरौ भवतः । इदं प्रायः सार्थादिषु सम्भवति, आदिशब्दात् चौरावस्कन्दभयादिपरिग्रहः । ' इतरथा तु' ग्रामादिषु वसतां 'भजना' विकल्पना || तामेवाह
[भा. ३५३१] असइ वसहीय वीसुं वसमाणाणं तरा तु भयितव्व । तत्थऽन्नत्थ व वासे, छत्तच्छायं तु वज्रेति ॥
वृ- यत्र सङ्कीर्णायां वसतौ सर्वेऽपि साधवो न मान्ति तत्र 'विष्वग्' अन्यस्यां वसतौ वसतां साधूनां शय्यातरा भक्तव्याः । तत्र हि यदि साधवः पृथग्वसतावुष्त्वा द्वितीयदिने सूत्रपौरुर्षी कृत्वा समागच्छन्ति ततो द्वावपि शय्यातरौ । अथ मूलवसतिमागम्य सूत्रपौरुर्षी कुर्वन्ति तत एक एव मूलवसतिदाता शय्यातरः । लाटाचार्याभिप्रायः पुनरयम् - शेषाः साधवः 'तत्र वा' मूलवसतौ 'अन्यत्र वा' प्रतिवसतौ वसन्तु, न तेषां सम्बन्धिना सागारिकेणेहाधिकारः, किन्तु सकलगच्छस्य च्छत्रकल्पत्वात् छत्रः-आचार्यस्तस्य च्छायां वर्जयन्ति, मौलशय्यातरगृहमित्यर्थः इति विशेषचूर्णिःनिशीथचूण्योरभिप्रायः । मूलचूर्ण्यभिप्रायः पुनरयम् - विस्तीर्णाया वसतेरभावे विष्वग्वसतौ वसतां शय्यातरा भजनीयाः, यदि संस्तरति ततः सर्वेऽपि शय्यातराः परिहियन्ताम्, अथ न संस्तरति तत एकं शय्यातरकुलं निर्विशन्ति शेषणि परिहरन्ति । तथाऽष्यसंस्तरणे द्वित्र्यादिक्रमेण तावद् वक्तव्यं यावद् यस्य वसतावाचार्या स एको वर्जनीयः, शेषाः सर्वेऽप निर्वेशनीयाः । तथा “तत्थऽन्नत्थ व वासे” इत्यादि । किलैकस्याचार्यस्य बहव आचार्या श्रुतार्थमुपसम्पन्नाः, ते चैकस्यां वसतावमान्तः पृथक्पृथग्वसतिषु स्थिताः सन्तः 'तत्र' मूलाचार्यसमीपे 'अन्यत्र वा' आत्मीयासु वसतिषु वसन्तु सर्वेषामपि शय्यातराः परिहर्त्तव्याः । असंस्तरणे तु पूर्वोक्तक्रमेण तावद् वक्तव्यं यावत् छत्रच्छायां वर्जयन्ति, मौलाचार्य शय्यातरगृहमित्यर्थः ॥
गतं 'कदा सागारिकः ?' इति द्वारम् । अथ 'कतिविधः शय्यातरपिण्डः ?' इति द्वारमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org