________________
उद्देश : २, मूलं- ६३, [भा. ३५३२]
[भा. ३५३२]
दुविह चउब्विह, अट्ठविहो होति बारसविहो य । सेज्जातरस्स पिंडो, तव्विवरीओ अपिंडो उ ।।
३१५
वृ-द्विविधो वा चतुर्विधो वा षड्विधो वा अष्टविधो वा द्वादशविधो वा शय्यातरस्य पिण्डो भवति । तद्विपरीतः पुनः 'अपिण्डः' शय्यातरपिण्डो न भवति । अथैनामेव गाथां विवृणोति[भा. ३५३३] आहारोवहि दुविहो, बिदु अन्ने पान ओहुवग्गहिए । असनादिचउर ओहे, उवग्गहे छव्विहो एस ॥
वृ- द्विविधः शय्यातरपिण्डो भवति, तद्यथा आहार उपधिश्च । “बिदु" त्ति द्विगुणितौ द्वौ चत्वारो भवन्तीति कृत्वा चतुर्विधः शय्यातरपिण्डः पुनरयम्-अन्नं पानं औधिकोपकरणं औपग्रहिकोपकरणं चेति । तथा अशनादयश्चत्वार औधिकोपधि औपग्रहिकोपधिश्चेति षड्विधः ।। [भा. ३५३४] अन्ने पाने वत्थे, पादे सूयादिया य चउरट्ठ । असनादी वत्थादी, सूचादि चउक्कका तिनि ॥
वृ- अन्नं पानं वस्त्रं पात्रं 'शूच्यादयः' शूची -पिष्पलक -नखरदनिका कर्णशोधनरुपाश्चत्वार इत्यष्टविधः । तथाऽशनादीनि वस्त्रादीनि सूच्यादीनि चेति त्रीणि चतुष्कानि द्वादश भवन्ति । तद्यथा-अशनं १ पानं २ खादिमं ३ स्वादिमं ४ वस्त्रं ५ पात्रं ६ कम्बलं ७ पादप्रोञ्छनं ८ सूची ९ पिष्पलको १० नखच्छेदनकं ११ कर्णशोधनकं १२ चेति ॥
[ भा. ३५३५ ] तण- डगल-छार- मल्लग - सेज्जा-संथार-पीढ-लेवादी । सेजातरपिंडो सो, न होति सेहो य सोवहिओ ।।
वृ- तृण- डगल-क्षार-मल्लक- शय्या-संस्तारक- पीठ-लेपा आदिशब्दात् कुटमुखादिकं च एष शय्यातरपिण्डो न भवति । यदि च शय्यातरस्य पुत्रादि शैक्षो वस्त्र पात्रसहितः प्रव्रजितुमुपतिष्ठते तदा स सागारिकपिण्डो न भवति, अतः कल्पते सोपधिरप्यसौ प्रव्राजयितुम् । गतं 'कतिविधः सागारिकपिण्ड ?' इति द्वारम् । अथ ' (अ] शय्यातरः कदा भवति ? ' इति द्वारं निरुपयितुमाह[भा. ३५३६ ] आपुच्छिय उग्गाहिय, वसहीतो निग्गतोग्गहे एगे । पढमादि जाव दिवसं, वुत्थे वज्रेज्जऽहोरत्तं ॥
वृ - अत्र नैगमनयाश्रितानि बहूनि मतान्तराणि । तत्रैको ब्रूते सूरिभिः शय्यातरो यदा “उच्छू वोलिंति वई' इत्यादिवचोभिरापृष्टस्तदाऽसावशय्यातरो भवति । अपरः प्राह-यदा निर्गन्तुकामैः पात्राद्युपकरणमुद्वाहितं तदा अशय्यातरः । अन्यो ब्रूते यदा वसतेर्निर्गता भवन्ति । तदपरो भणतियदा सागारिकस्यावग्रहाद् निर्गताः । एको ब्रूते सूर्योद्गमे निर्गतानां प्रथमपौरुष्यामतीतायामशय्यातरः । अन्योऽभिधत्ते द्वितीयस्या पौरुष्यां गतायाम् । अपरो ब्रूते- तृतीयस्याम् । तदन्यः प्राह-‘यावद् दिवसं’ दिवससत्काश्चतस्त्रः पौरुष्यः तावतः कालादूर्ध्वमशय्यातरः । एते सर्वेऽप्यनादेशाः । सिद्धान्तः पुनरयम्-"वृत्थे वज्जेज्जऽ होरत्तं" ति यस्यां वसतावुषितास्ततो यस्यां वेलायां निर्गताः तत ऊर्ध्वमहोरात्रं यावत् तदगिं हेऽशनादिकं वर्जयेयुः, ततः परं तु कल्पते । आपृष्टादिषु तु सागारिकावग्रहनिर्गतान्तेष्वादेशेषु यदि कथमपि गमनविघ्नमुत्पन्नं ततो भूयोऽपि तस्यामेव वसतौ स्थितेषु कथमशय्यातरो भवितुमर्हति ? | ये पुनः प्रथमादिप्रहरविभागेना· शय्यातरमिच्छन्ति तेषां सूर्यास्तमननिर्गतानां रात्रौ प्रथमादिपौरुषीविभागेनाशय्यातरः प्राप्नोति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org