________________
३१६
बृहत्कल्प-छेदसूत्रम् -२-२/६३
तच्च न युज्यते ।। कुतः ? इति चेद् उच्यते[भा.३५३७] अग्गहणं जेन निसिं, अनंतरेगंतरं दुहिं च ततो।
गहणं तु पोरिसीहिं, चोदग! एते अनादेसा ॥ वृ-'येन' हेतुना 'निशि' रजन्यामस्माकं भक्त-पानादेरग्रहणं ततो यत्किञ्चिदनन्तरमेकान्तरद्यन्तराभिर्वा पौरुषीभि शय्यातरपिण्डस्य ग्रहणमिच्छन्ति, हे नोदक! त एते सर्वेऽप्यनादेशाः। आदेशः पुनरयम्-सन्ध्यायां दिवा निर्गतानां रजन्याश्चतुरो यामान् शय्यातरः, ततः परं सूर्योद्धेऽशय्यातरः॥ एवं जधन्यत उक्तम् । उत्कर्षतः पुनरित्थम्[भा.३५३८] सूरत्थमणम्मि उ निग्गयाण दोण्ह रयणीण अट्ट भवे ।
देवसिय मज्झ चउ दिननिग्गति बितियम्मि सा वेला ॥ वृ-'सूर्यास्तमनसमये रात्रौ निर्गतानां तामेव रात्रिमपर चाहोरात्रं शय्यातरो भवति । ततो द्वयोरजन्योरष्टौ यामाः दैवसिकाश्च रजनीद्वयमध्यवर्तिनश्चत्वारोयामाः एवंद्वादशानांयामानामन्ते उत्कर्षतोऽशय्यातरो भवति, एष एक आदेशः । द्वितीयः पुनरयम्-"दिननिग्गए बिइयम्मि सा वेल" त्ति सूर्योदये दिवा यदि निर्गतास्तदा द्वितीये दिने तस्यामेव वेलायामशय्यातरः, एवमहोरात्रं वर्जितं भवति॥गतम् 'अशय्यातरोवा कदा?' इति द्वारम् । अथ शय्यातरः कस्य परिहर्तव्यः?' इति द्वारनिरुपणायाह[भा.३५३९] लिंगत्थस्स उ वजो, तं परिहरतो व भुंजतो वा वि।
- जुत्तस्स अजुत्तस्स व, रसावणो तत्थ दिटुंतो॥ वृ- 'लिङ्गस्थस्य' साधुलिङ्गधारिणः 'तं' शय्यातरपिण्डं परिहरतो वा भुञानस्य वा साधुगुणैर्युक्तस्य वां अयुक्तस्य वा शय्यातरः ‘वज्यः' वर्जनीयः । अत्र 'रसापणः' मधहट्ठो दृष्टान्तः । यथा-महाराष्टदेशे रसापणे मद्यं भवतु वा मा वा तथापितत्परिज्ञानार्थंतत्रध्वजो बध्यते, तं ध्वजं दृष्ट्वा सर्वे निक्षाचरादयः परिहरन्ति । एवमस्माकमपि साधुगुणैर्युक्तोऽयुक्तो वा भवतु परं रजोहरणध्वजो दृश्यते इति कत्वा लिङ्गस्थस्यापि शय्यातरः परिहियते ॥
अथ 'के दोषाः ?' इति द्वारमाह[भा.३५४०] तित्थंकरपडिकुट्ठो, आणा अन्नाय उग्गमो न सुज्झे ।
अविमुत्ति अलाघवता, दुल्लभ सेज्जा य वोच्छेदो ॥ वृ-तीर्थकरैः प्रतिक्रुष्टः-निषिद्धः शय्यातरपिण्डोऽतस्तं गृह्णता तेषामाज्ञा न कृता भवति । "अन्नाय" ति अज्ञातोञ्छम्' आसन्ननिवासवशाद् ज्ञातस्वरुपतया न शुध्यति । प्रत्यासन्नतया तत्रैव पुनः पुनः भैक्ष-पानादिनिमित्तं प्रविशत उद्गमोऽपि न शुध्यति । 'अविमुक्तिर्नाम' स्वाध्यायश्रवणादिना आवर्जितः शय्यातरो दुग्ध-दध्यादि प्रणीतद्रव्यं ददाति, तद्ग्रहणलोलुपतया तद्गृहं न विमुञ्चति । 'अलाघवता तु' विशिष्टाहारलाभेन उपचितगल-कपोलतया शरीरलाघवं प्रचुरवस्त्रादिलाभेन उपकरणलाघवं च न भवेत् । दुर्लभा च शय्या भवति, येन किल शय्या दत्ता तेनाहारद्यपि देयमिति भयाद् भूयः शय्यामगारिणो न प्रयच्छन्तीति भावः । 'व्यवच्छेदश्च' विनाशः शय्यायाः क्रियेत, अथवा भक्त-पानादिप्रतिषेध इह व्यवच्छेदशब्देनोच्यते । एष नियुक्तिगाथासमासार्थः ।। अथैनामेव प्रतिपदं विवृणोति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org