________________
३६२
बृहत्कल्प-छेदसूत्रम् -२-३/८१
तम्हा समणुन्नायं, गणहर गमनं महिड्डीए ॥
वृ- आर्याणां 'तेजोजननं' महात्म्योत्पादनम् । दुर्जनानां च 'सचमत्कारता' साशङ्कता भवति, न किञ्चित् प्रत्यनीकत्वं कुर्वन्तीत्यर्थः । लोके च आर्याणां गौरवमुपजायते । तस्माद् गणधरस्य ‘महर्द्धिकस्य च’ राजप्रव्रजितादेर्गमनमार्यिकाप्रति श्रये समनुज्ञातम् । ताश्चार्यिकास्तान् राजादिदीक्षितान् दृष्ट्वा इत्थं चिन्तयन्ति
[भा. ३७५९] संतविभवा जइ तवं, करेंति अवइज्झिऊण इड्डीओ । सीयंतथिरीकरणं, तित्थविवड्डी य वन्नो य ।।
वृ- सद्विभवा अप्यमी यदि 'ऋद्धीः' राज्यादिसम्पदः 'अपोज्झ्य' परित्यज्य तपः कुर्वन्ति ततो वयमसती सम्पदं प्रार्थयमानाः किमेवं प्रमादमग्नास्तिष्ठामः इत्येवं सीदन्तीनामार्यिकाणां स्थिरीकरणं कृतं भवति । स्थिरीकरणे च क्रियमाणे तीर्थस्य विवृद्धि । तीर्थवृद्धौ च प्रवचनस्य 'वर्ण' यश-प्रवादः प्रभावितो भवति ।। गतं महर्द्धिकद्वारम् । अथ 'प्रच्छादना च शैक्षे' इति द्वारमाह[भा. ३७६०] वीसुंभिओ य राया, लक्खणजुत्तो न विज्जती कुमरो । पडिनीएहि व कहिए, आहावंती दवदवस्स ।।
वृ- कस्यापि नृपतेस्त्रयः पुत्राः सम्यग्दर्शनलब्धबुद्धयो दीक्षां कक्षीकृतवन्तः । कालान्तरेण च स राजा 'विश्वग्भूतः ' शरीरात् पृथग्भूतः, कालगत इत्यर्थः । ततोऽमात्यादयः 'वयमराजकाः सन्तोऽनाथाः' इति परिभाव्य राज्यलक्षणोपेतं कुमारं प्रयलेन गवेषितवन्तः, परं न विद्यते कोऽपि लक्षणयुक्तः कुमारः । ततः कथितं 'प्रत्यनीकैः' तच्चन्निकादिभि, यथा-येषां मध्येऽस्यैव नृपतेः पुत्राः प्रव्रजिताः सन्ति ते साधवो विहरमाणा इहैवोद्याने सम्प्राप्ताः । ततस्तेऽमात्यादयः सम्यग् ज्ञात्वा छत्र-चामर-खड्गादिकं राजार्हं वस्तु गृहीत्वा द्रुतद्रुतम् 'आधावन्ति' साधूनां समीपमागच्छन्ति ।। अथ प्रत्यनीकाः केन कारणेन कथयन्ति ? इत्युच्यते
[भा. ३७६१] अइ सिं जनम्मि वन्नो, य आयति इड्डिमंतपूया य । रायसुयदिक्खिणं, तित्थविवड्डी य लद्धी य ॥
वृ- अमुना राजसुतेन दीक्षितेन 'सिं' अमीषां श्रमणानाम् 'अति' अतीव 'जने' लोके 'वर्णः' यशः प्रवादो विजृम्भते, यथा- अहो ! अमीषामेव धर्म प्रतपति यत्रेध्शाः प्रव्रजन्ति । 'आयतिश्च' सन्ततिरमीषामनेनाव्यवच्छिन्ना भविष्यति । ऋद्धिमन्तश्च श्रेष्ठयादय एतत्प्रभावेणामीषांपूजां कुर्वन्ति । तथा 'राजसुतोऽत्र प्रव्रजितः' इति कृत्वाऽन्येऽपि बहव इभ्यपुत्रादयः प्रव्रजन्तीति तीर्थवृद्धिः । लब्धिश्चाहार - वस्त्रादीनां प्रचुरा भवति । उत्प्रव्रजितेन पुनरमुना वर्णादयो न भविष्यन्तीति बुध्या प्रत्यनीकाः कथयन्ति ।। ततस्तानमात्यादीनुप्रव्राजनार्थमागच्छतः श्रुत्वा ते राजपुतराः किं कुर्वन्ति ? इत्याह
[भा. ३७६२]
दवण य राइडिं, परीसहपराइतो तहिं कोइ ।
आपुच्छइ आयरिए, सम्मत्ते अप्पमाओ हु ।
वृ- तां राजसमृद्धिमागच्छन्तीं दृष्ट्वा तत्र कोऽपि राजपुत्रः परीषहपराजितः सन्नाचार्यानापृच्छतेभगवन् ! अशक्तोऽहं प्रव्रज्यामनुपालयितुम् । तत आचार्या भणन्ति-सौम्य ! सम्यक्त्वे भवता 'हुः' निश्चितमप्रमादः कर्त्तव्यः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org