________________
३६१
उद्देशकः ३, मूलं-८१, [भा. ३७५२] कुर्वन्ति ततश्चतुर्गुरुकम् । तथाऽन्यत्रोद्यानादिषु श्वापद-स्तेनादिभयाद् दिवाऽपि तत्रैव तिष्ठन्तो यदि प्रचलायन्ते निद्रायन्ते त्वग्वर्त्तयन्ति वा अक्षिणी वा मलयन्ति तत्र चतुर्गुरुकम् । अथ गृही प्रचलादि विदधानं तं दृष्ट्वा शङ्कां करितो-किमेष स्वाध्यायजागरेण खिन्नः प्रचलायते ? उत सागारिकजागरेण? इत्यादि ततश्चतुर्गुरु । निशङ्किते मूलम् ।। [भा.३७५३] उच्चारं पासवणं, व अन्नहिं मत्तएसु व जयंति ।
अद्दिढ पविट्ठा वा, अदिट्ठ नितेधरा भयिता ।। वृ-उच्चारं प्रश्रवणं वा संयतीकायिकाभूमिं विमुच्यान्यत्र कुर्वन्ति, मात्रकेषु वा कृत्वा बहिः परिष्ठापनायां यतन्ते । तत्र च यदि गृहिभिरष्टाः प्रविष्टास्ततोऽष्टिा एव निर्गच्छन्ति, अथ दृष्टाः प्रविष्टास्ततः 'भक्ताः' विकल्पिताः, दृष्टा अष्टा वा निर्गच्छन्तीति भावः ।। [भा.३७५४] तत्थऽन्नत्थ व दिवसं, अच्छंता परिहरंति निद्दाई।
जयणाए व सुविंती, उभयं पि य मग्गए वसहिं ।। वृ-तत्र रजन्यामुषित्वा दिवसतः 'तत्र वा' संयतीवसतौ 'अन्यत्र वा' उद्यानादिषु तिष्ठन्तो निद्रा-प्रचलादिकंपरिहरन्ति, यवनिकान्तरिता वा यतनया स्वपन्ति यथा सागारिको न पश्यति। यदि तेतत्र कियन्तमपिकालं स्थातुकामास्ततः 'उभयमपि' साधवः साध्यश्चान्यांवसतिमार्गयन्ति। लब्धायां च तत्र साधवस्तिष्ठन्ति ।। गतं प्राघुणकद्वारम् । अथ गणधरद्वारमाह[भा.३७५५] अहिणा विसूइका वा, सहसा डाहो व होज सासो वा ।
जति आगाढं अजाण होइ गमनं गणहरस्स ॥ वृ- 'अहिना' सर्पण काचिदार्यिका दष्टा अतिमात्रे वा भुक्ते विशूचिका कस्याश्चिदजनिष्ट, सहसा पित्तेनाग्निना वा 'दाहः' दाहञ्चरो वाऽभवत्, श्वासो वा कस्याश्चिदकस्मादजनि, एवमादिकं यदि आगाढं कार्यमार्याणां भवति ततो दिवा रात्रौ वा गणधरस्य गमनमनुज्ञातम् ।। अथवा[भा.३७५६] पडिनीय मेच्छ मालव, गय गोणा महिस तेनगाई वा।
आसन्ने उवसग्गे, कप्पइ गमनं गणहरस्स ॥ कृ-प्रत्यनीक म्लेच्छ-मालवस्तेन-गज-गो-महिष-स्तेनकादयो वा संयतीनामुपसर्ग कर्तुमारब्धाः, यद्वा न तावत् ते उपसर्गयन्ति परं तेषामासन्न उपसर्गो वर्तते तत्क्षणादेव भावीत्यर्थः, ततः कल्पते गणधरस्यान्यस्य वा समर्थस्य तन्निवारणार्थं गमनम्।गतं गणधरद्वारम् । अथ महर्द्धिकद्वारमाह[भा.३७५७] रायाऽमच्चे सेट्ठी, पुरोहिए सत्थवाह पुत्ते य ।
गामउडे रट्ठउडे, जे य गणहरे महिड्डीए । वृ- 'राजा' पृथिवीपति । 'अमात्यः' मन्त्री । अष्टादशानां प्रकृतीनां महत्तरः श्रेष्ठी । पौरजनपदयुक्तस्य राज्ञो होमादिनाऽशिवायुपद्रवप्रशमनः पुरोहितः । यस्तु क्रयाणकजातं गृहीत्वा लाभार्थमन्यदेशं व्रजन् सार्थवाहयति-योग-क्षेमचिन्तया पालयति स सार्थवाहः । पुत्रशब्दः प्रत्येकमभिसम्बध्यते, यथा-राजा राजपुत्र इत्यादि । तथा 'ग्रामकूटः' ग्राममहत्तरः, ‘राजकूटः' राष्ट्रमहत्तरः, एते प्रव्रजिता इह गृह्यन्ते । यश्च गणधरो राजादिबहुमतो विद्यातिशयसम्पन्नो वा, एते सर्वेऽपि महर्द्धिका उच्यन्ते ।। एतेषां संयतीवसतिं गच्छताममी गुणा भवन्ति
[भा.३७५८] अजाण तेयजननं, दुजन सचमक्कारया य गोरवया । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org