________________
उद्देशक : ३, मूलं - ९४ [भा. ४२६७ ]
४६३
रागन्तुकेषु तालाचरादिषु पूर्वं मार्गयन्ति । ततः क्षेत्रबहिरसंज्ञिषु पूर्वष्टम्, ततः संज्ञिषु पूर्वदृष्टं गृह्णन्ति ॥
अथेदमेव विभावयिषुरागन्तुकान् व्याख्याति[भा. ४२६८ ]
तालायरे य धारे, वाणिय खंधार सेण संवट्टे । लाउलिग वइग- सेवग जामाउग-पंथिगादीसुं ॥
वृ- 'तालाचराः' नट-नर्त्तक- चट्टादयः, “धारे” त्ति देवच्छत्रधारकाः, 'वणिजः' वालिञ्जुकाः, राजबिम्बसहितं स्वचक्रं परचक्रं वा स्कन्धावार उच्यते, राजबिम्बविरहिता सेना, चौरधाटीभयेन बहवो ग्रामा नायकाधिष्ठिता एकत्र स्थिताः संवर्त्तः, लाकुटिकाः - डङ्गराः, व्रजिकाः- गोकुलिकाः, सेवकाः-चारभट्टकाः, जामातृकाः प्रसिद्धाः, पथिकाः- ये बहुवस्त्र देशं प्रति प्रस्थिताः । एवमादिषु पूर्वं मार्गयन्ति ॥
कथम् ? इत्याह[भा. ४२६९]
आगंतुगेसु पुव्वं, गवेसती चारणादिसू बाहिं । पच्छा जे सग्गामं, तालायरमादिणो एंति ॥
वृ- ‘“बाहिं’” ति सक्रोशयोजनान्तर्वत्तिष्वन्तरपल्लिकासहितेषु बाह्यग्रामेषु ये 'आगन्तुकाः' चारणादयस्तेषु पूर्वं गवेषयन्ति । 'पश्चाद्' बाह्यग्रामेषु चारणादीनामभावे ये तालाचरादयःस्वग्राममायान्ति तेषु गवेषयितव्यम् ॥
कथमेतेषु वस्त्रसम्भवः ? इत्याह[भा. ४२७०]
बद्धूण नवे इतरे, समणाणं देख सेव-जामादी । चारण-धार-वणीणं, पडंति इयरे उ सड्डितगा ।।
वृ- सेवक - जामातृका नवानि वस्त्रणि लब्ध्वा 'इतराणि' पुराणानि श्रमणानां दद्युः । चारणानां “धार” त्ति देवच्छत्रधाराणां राजादयः प्रसादतो वस्त्रणि प्रयच्छन्ति तानि पुराणानि वा ते साधुनां दघु । "वणीणं" ति वालिञ्जुकवणिजां वलचे वस्त्रणि पतन्ति । 'इतरे तु' पथिकादयः 'श्राद्धाः ' श्रावका भवेयुः ॥
बहिर्ग्राम-स्वग्रामेषु चारणादीनामभावे विधिमाह[ भा. ४२७१]
बहिं- अंत-सन्निसु, जं दिट्टं तेसु चैव जमदिट्ठे । केयि दुहओ वऽसन्निसु, गहिते सन्नीसु दिट्ठितरे ॥
वृ- "बहिः” त्ति क्षेत्राभ्यन्तरे प्रतिवृषभग्रामेषु येऽसंज्ञिनस्तेषु पूर्वदृष्टं वस्त्रं मार्गयन्ति, तदभावे बहिर्ग्रामेष्वेव संज्ञिषु पूर्वदृष्टम्, तदप्राप्तौ बाह्यग्रामेष्वेवासंज्ञिषु पूर्वदृष्टम्, तदसत्त्वे मूलग्राम एव संज्ञिषु पूर्वदृष्टम्; तदभावे अन्तः - मूलग्रामेऽसंज्ञिषु पूर्वष्टम्, तदसत्त्वे मूलग्राम एव संज्ञिषु पूर्वदृष्टम्, तदसम्भवे मूलग्राम एवासंज्ञिषु यत् पूर्वमध्ष्टम्, तदभावे मूलग्राम एव संज्ञिषु पूर्वमदृष्टं वस्त्रं मार्गयन्ति । केचिदाचार्या इत्थं ब्रुवते 'द्वयोरपि' बहिरन्तर्लक्षणयोः स्थानयोः प्रथमसंज्ञिषु गृहीते सि ततो बहिरन्तर्वर्त्तिष्वेव संज्ञिषु यथाक्रमं दृष्टम् इतरच्च - अध्ष्टं गृह्णन्तीति । किं पुनः कारणं पूर्वदृष्टं प्रथमं गृह्यते ? उच्यते-तत्र हि पूर्वप्रत्युपेक्षितत्वेनाधाकर्मादय उत्क्षेप-निक्षेपादयश्च दोषाः परिह्नता भवन्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org