________________
४६२
बृहत्कल्प - छेदसूत्रम् -२-३/९४
चेति द्विविधः, उभयोऽपि शयनार्थं जीवादिरक्षणार्थं च गृह्यते। पीठं छगणादिमयम्, उपवेशनार्थम् । फलकः-चम्पकपट्टादिमयः, शयनोपयोगी । पात्रसत्कश्च 'निर्योगः ' प्रत्यवतारो द्विगुणः । एतानि सर्वाण्यपि तदानीं गृह्यन्ते । अथ शिष्यः प्रश्रनयति
[भा. ४२६४ ] चत्तारि समोसरणे, मासा किं कप्पती न कप्पति वा । कारणिग पंच रत्ता, सव्वेसिं मल्लगादीणं ॥
वृ- आषाढपूर्णिमानन्तरं ये चत्वारः प्रथमसमवसरणे मासास्तेषु ग्रहीतुं कल्पते वा न वा ? । सूरिराह- उत्सर्गतो न कल्पते, द्वितीयपदे क्षेत्रस्याप्राप्तौ अध्वनिर्गता वा आषाढपूर्णिमायां प्राप्तास्ततः संस्ताराद्युपधिं डगलादीनी च पञ्च रात्रिन्दिवानि गृह्णन्ति, पर्युषणाकल्पं च रजन्यामाकर्षन्ति, ततः पञ्चम्यां पर्युषणं कुर्वन्ति । अथ पूर्वोक्तकारणात् पञ्चम्यामेव ते प्राप्ताः ततः पञ्चरात्रं तथैव संस्तारक- डगलादीनि गृह्णन्ति, दशम्यां पर्युषणयन्ति । विशेषचूर्णिकृत् पुनराह ते खेत्ताणं अलंभे आसाढपुन्निमाए चेव ठिया, तेहि य उवही न गहिओ संथारगाई ताहे जाव पंचरत्तं ताव गेण्हंति, पच्छा पंच दिवसे पज्जोसवणाकप्पं कहंति, दसमीए पज्जोसवेंति, एएण कारणेणं कप्पइ पंचरत्तं, अह पंचमीए पत्ता ताहे तहेव पंच रत्तगा वड्ढंति (जाव भद्दवयसुद्धपंचमी) त्ति ।
एवं सर्वेषां मल्लकादीनामुपकरणानामर्थाय कारणिकानि पञ्च रात्रिन्दिवानि प्रवर्धमानानि तावद् मन्तव्यानि यावद् भाद्रपद शुद्धपञ्चम्यां गृहीतेऽगृहीते वा डगल-मल्लकादौ नियमात् पर्युषणं विधेयम् ॥
[भा. ४२६५ ] तेसिं तत्थ ठिताणं, पडिलेहुच्छुद्ध चारणादिसु । वाईण अगहणो, लहुगा पुव्विं अमहिते वा ।।
वृ- 'तेषां' साधूनां 'तत्र' वर्षाक्षेत्रे स्थितानामियं सामाचारी- सभाप्रपा - SS राम देवकुल- शून्यगृहादिषु यद् वस्त्रम् 'उत्सुद्धं' पधिकादिभिः परित्यक्तं तत् प्रत्युपेक्षन्ते, यदा किल कार्यमुत्पत्स्यते तदा ग्रहीष्यते । तदभावे चारणादिषु प्रत्युपेक्षन्ते । वर्षासु यदि लेपम् आदिशब्दात् पात्रं वा वस्त्र वा गृह्णन्ति ततश्चतुर्लघुकाः । पूर्व वा लेपादीनि यदि न गृहीतानि तदाऽपि चतुर्लघु ॥ इदमेव व्याख्याति
[भा. ४२६६ ] वासाण एस कप्पो, ठायंता चेव जाव उ सकोसं । परिभुत्त विप्पन्नं, वाघातट्ठा निरिक्खति ॥
बृ- " वासाण'' त्तिविभक्तिव्यत्ययाद् वर्षासु तिष्ठतामेषः 'कल्पः' सामाचारी- सर्वतः सक्रोशं योजनं यावद् यत् कार्पटिकैः परिभुक्तं 'विप्रकीर्णं' पूर्वं परिभुज्य ततोऽ किञ्चित्करमिति मत्वा परिष्ठापितं तत् तिष्ठन्त एव व्याघातार्थं निरीक्षन्ते ॥ कः पुनर्व्याघाः ?
इति चेद् उच्यते[भा.४२६७]
अद्धाणनिग्गतादि, झामिय वूढे व सेह परिजुन्ने । आगंतु बाहि पुव्विं, दिट्ठ अस्सन्नि सन्नीसु
वृ- अध्वनिर्गतादयः साधव आगच्छेयुः, यो वा उपधि 'ध्यामितः' दग्धो भवेत्, उदकेन वा व्यूढः, “शैक्षो वा” अवश्यप्रव्राजनीयः पुराणादिरुपस्थितः, परिजीर्णो वा उपधि, एतैः कारणै
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org