________________
उद्देशक : ३, मूलं-९५, [भा. ४३३९]
४७९
वृद्धा, "भिक्षुणी' प्रतीता, 'क्षुल्लीका' बाला । एतासां पञ्चानामपि ग्रहणम् इदम्' अनन्तरमेव 'संयोगगमं' संयोगतोऽनेकप्रकारं वक्ष्यामि।
यथाप्रतिज्ञातमेवाह[भा.४३४०] सव्वा वि तारणिज्जा, संदेहाओ परक्कमे संते।
एक्केवं अवणिज्जा, जा गणिणी तत्थिमो भेदो। [भा.४३४१] तरु निष्फन परिवारा, सलद्धिया जा यहोइ अब्मासे ।
अभिसेगाए चउरो, सेसाणं पंच चेव गमा।। वृ-इदंगाथाद्वयं साधुगतगाथाद्वयमिव व्याख्येयम् ।। परःप्रेरयन्नाह[भा.४३४२] बाला य वुड्डा य अजंगमा य, लोगे वि एते अनुकंपणिज्जा ।
सव्वानुकंपाए समुज्जएहिं, विवजओऽयं कहमीहितो मे। कृ-बालाश्च वृद्धाश्चाजङ्गमाश्चेति लोकेऽपि तावदेतेऽनुकम्पनीया इष्यन्ते, अतः सर्वेषामपि निर्विशेषमनुकम्पायांसमुद्यतैः कथमयं “भे" भवद्भिः विपर्ययः' वैपरीत्यम् ईहितम्' अङ्गकृतम्? यदेवंबाल-स्थविरीपरित्यज्य आचार्यादयो निस्तार्यन्ते, वृद्धवाऽजकममाचार्यविमुच्य तरुणस्तायते ।। पर एव प्रत्युत्तरमाशय परिहरनाह[भा.४३४४] जइ बुद्धी चिरजीवी, तरुणो थेरो य अप्पसेसाऊ ।
सोवक्कमम्मि देहे, एवं पिन जुज्जए वोत्तं ॥ वृ-'यदि' इतिअथशब्दार्थे, अथैव भवतांबुद्धि स्यात्-'चिरजीवी' प्रभूतवर्षजीवितस्तरुणः, स्थविरः पुनः 'अल्पशेषायुः' स्तोकावशेषायुष्कः, अतः स्थविरं विमुच्य तरुणं तारयामः, एतदप्यसमीचीनम् । कुतः? इत्याह-'सोपक्रमे अध्यवसान-निमित्तादिभिरायुष्कोपक्रमकारणैः सप्रत्यपाये देहे सति “एतदपि' चिरजीवितादिकं वक्तुं न युज्यते॥ [भा.४३४] अवि यहुअसहू थेरो, पयरेजियरो कदाइ संदेहं ।
ओरालमिदं बलवं, जंघेपइ मुच्चई अबलो। वृ-'अपिच' इत्यभ्युच्चये, 'हुः' निश्चये।स्थविरोवृद्धत्वादेव 'असहिष्णुः' नतरीतुंशक्नोति, 'इतरस्तु' तरुणः समर्थतया कदाचित्स्यमेव 'सन्देहम्' उदकवाहकहरणरूपंप्राणसन्देहकारणं प्रतरेत्, अतः ‘उदारं परिस्थूरम् इदं' भवदीयंवचनम्-यद् बलवान्' तरुणो गृह्यते 'अबलस्तु' स्थविरो मुच्यते॥
इत्थं परेणोक्ते सूरिराह[भा.४३४५] आय-परे उवगिण्हइइ, तरुणो थेरो उ तत्थ भयणिजो।
अनुवक्कमे वि थेवो, चिट्ठइ कालो उथेरस्स॥ - तरुण आचार्यादरपूर्वसूत्रा-ऽर्थग्रहण-तपःकर्मकरणादिना वस्त्र-पात्रादिसम्पादनसूत्रार्थप्रदानादिना वाऽऽत्मानं परांश्चोपगृह्णाति।स्थविरस्तुतत्राऽऽत्म-परोपग्रहकरणेभजनीयः, कदाचित्तंकर्तुसमर्थकदाचिच नेति भावः । तथा 'अनुपक्रमेऽपि' आयुष उपक्रममन्तरेणापि स्थविरस्य स्तोक एव कालोऽवशेषस्तिष्ठति, तरुणस्य तु सोपक्रमायुषोऽपि स्तोको वा भवेद् द्राधीयान् वा, ततः “सोवक्कमम्मि देहे" इत्यादि त्वदुक्तं यत्किञ्चि देतत्॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org