________________
४७८
बृहत्कल्प-छेदसूत्रम् -२-३/९५
अथ यदुक्तम्-‘एकैकं पञ्चविधं ग्रहणं भवति' तत्र पुरुषविषयं तावदाह[भा.४३३६] आयरिए अभिसेगे, भिक्खू खुढे तहेव थेरे य।
गहणं तेसिं इणमो, संजोगगमंतु वोच्छामि ॥ वृ-'आचार्य' गच्छाधिपति अभिषेकः' सूत्रा-ऽर्थ-तदुभयोपेतआचार्यपदस्थापनाह 'भिक्षुः' प्रतीतः क्षुल्लकः' बालः 'स्थविरः' वृद्धः, एतेषांपञ्चानामपि ग्रहणम् इदम् अनन्तरमेव वक्ष्यमाणं 'संयोगगम' संयोगतो गमाः-प्रकारा यस्य तत् तथा वक्ष्यामि॥
प्रतिज्ञातमेव निर्वाहयति[भा.४३३७] सब्वे वितारणिज्जा, संदेहाओ परक्कमे संते।
- एकेकं अवणिज्जा, जाव गुरू तत्थिमो भेदो॥ वृ- 'पराक्रमे' शक्ती सत्यां 'सर्वेऽपि' आचार्यादयः ताशात् ‘सन्देहाद्' नध्याधुदकनिमज्जनलक्षणा तत् तारणीयाः। अथ नास्ति ताशः पराक्रमस्ततः स्थविरवर्जाश्चत्वारस्तारणीयाः, तत्राप्यशक्ती क्षुल्लक-स्थविरवर्जास्त्रयः, तत्राप्यसामर्थ्य आचार्या-अभिषेकौ द्वौ, तत्राप्यशक्ती एक एव आचार्यस्तारयितव्यः।
आह च-“एकेकं" इत्यादि, सर्वान् तारयितुमशक्तौ स्थविरादिक-मेकैकमपनयेद् यावद् 'गुरु' आचार्य । तत्र चायं वक्ष्यमाणो भेदो भवति॥ [भा.४३३८] तरुणे निष्पन्न परिवारे, सलद्धिए जे यहोति अब्मासे।
. अमिसेगम्मिय चउरो, सेसाणं पंचचेव गमा॥ वृ-इह द्वावाचार्यो-एकस्तरुणोऽपरः स्थविरः । यद्यस्तिशक्तिस्ततो द्वावपि तारणीयौ । अथ नास्तिततस्तरुणो निस्तारणीयः । अथ द्वावपितरुणौततोयस्तयोः निष्पन्नः सम्यक्सूत्रार्थकुशलः स तारयितव्यः । अथ द्वावपि निष्पन्नावनिष्पन्नौ वा ततो यः सपरिवारः स तारणीयः । अथ द्वावपिसपरिवारावपरिवारौवा ततोयातत्र 'सलब्धिकः' लब्धिसम्पन्नस्तंतारयेत्। अथ द्वावपि सलब्धिकावलब्धिको वा ततो यः 'अभ्यासे' आसन्ने स्थितः स निस्तारणीयः । अत्रायं विशेषसम्प्रदायः-द्वयोरभ्यासस्थितयोर्यस्तरीतुमशक्तः स तारणीयः । एवमेते आचार्यस्य पञ्च गमा अभिहिताः । अभिषेकस्तु नियमाद् निष्पन्नो भवति, अन्यथा तत्त्वत आचार्यपदस्थापनायोग्यत्वानुपपत्तेः । ततस्तस्मिन्नभिषेके निष्पन्ना-ऽनिष्पन्नगमाभावात् शेषाश्चत्वारोगमाएवमेव वक्तव्याः। शेषाणां भिक्षु-क्षलक-स्थविराणां पञ्चापिगमा भवन्ति, ते चाचार्यवद वक्तव्याः। नवरं बालस्य निष्पन्नता श्री वज्रस्वामिन इव भावनीया, तरुणता तु प्रथमकुमारत्वे वर्तमानस्यावसातव्या । एवं स्थविरस्यापिजघन्यवृद्धत्वे वर्तमानस्यतरुणता, शेषस्यतुवृद्धतामन्तव्या। त्रयाणामपिच भिक्षुप्रभृतीनांपरिवारोगुरुप्रदत्तोमाता-पितृ-भातृ-भगिनीप्रभृतिप्रव्रजितस्वजनवर्गो वा द्रष्टव्यः॥
अथ स्त्रीविषयं पञ्चविधं ग्रहणमुपदर्शयति[भा.४३३९] पवत्तिनि अभिसेगपत्ता, थेरी तह भिक्खुणी यखुड्डीय।
गहणंतासिं इणमो, संजोगक(क)मंतुवोच्छामि॥ वृ-'प्रवर्तिनी' सकलसाध्वीनां नायिका, ‘अभिषेकप्राप्ता' प्रवर्तिनीपदयोग्या, 'स्थविरा'
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org