________________
उद्देशकः ३, मूलं-९२, [भा. ४२३१]
४५५ स्तारेण बद्धमूलोऽपि चाल्यते, गृहवासं त्याजयित्वा संयमरूपे स्रोतसि प्रक्षिप्य गच्छरत्नाकर प्राप्यत इति भावः ॥ अथ जानाना-ऽजानानविषयं विधिविभागमाह[भा.४२३२] कप्पा-ऽकप्पविसेसे, अणधीए जो उ संजमा चलिओ।
पुव्वगमो तस्स भवे, जाणते जाइनं सुद्धाई। वृ- वस्त्र-पात्रादिविषये कल्पा-कल्पविशेषे अनधीते सति यः संयमात् चलितस्तस्य पूर्वप्राक्तनो गमः-प्रकारो भवति यथा शैक्षगृहस्थस्योक्तः । यस्तु कल्पा-ऽकल्पविधिं जानाति तस्य सर्वाणि शुद्धान्येव ग्रहीतुं कल्पन्ते, न क्रीतादिदोषदुष्टानि ॥
मू. (९३) निग्गंथीएणंतप्पढमयाए संपव्वयमाणीए कप्पइरयहरण-गोच्छ-पडिग्गहमायाए चउहिँ कसिणेहिं वत्थेहिं आयाए संपव्वइत्तए । सा य पुब्बोवट्ठिया सिया एवं से नो कप्पइ रयहरण-गोच्छ-पडिग्गहमायाए चउहिं कसिणेहिं वत्थेहिं आयाए संपव्वइत्तए । कप्पइ से अहापरिग्गहिएहिं वत्थेहिं आयाए संपव्वइत्तए।
वृ-अस्य व्याख्या प्राग्वत् । नवरं निर्ग्रन्थ्याश्चतुर्भि प्रत्यवतारैः सहितायाः प्रव्रजितुं कल्पते इति विशेषः ।। अथ भाष्यम्[भा.४२३३] एसेव गमो नियमा, निगंथीणं पि होइ नायव्यो ।
जाणंतीणं कप्पति, घेत्तुंजे अधापरिग्गहिते॥ वृ-एष एव गमो निर्ग्रन्थीनामपि भवति ज्ञातव्यः । सा च पूर्वोपस्थिता स्यादिति अत्र सूत्रे तासां कल्पा-ऽकल्पविभागंजानतीनां यानि ‘यथापरिगृहीतानि' शुद्धानि तानि कल्पन्ते ग्रहीतुम्। "जे" इति वाक्यालङ्कारे ॥ [भा.४२३४] समणीणं नाणत्तं, निजोगा तासि अप्पणो चउरो।
चउरो पंच व सेसा, आयरिगादीण अट्ठाए। वृ-निर्ग्रन्थेभ्यः सकाशात् श्रमणीनामिदं 'नानात्वं' विशेष उच्यते-'तासां प्रव्रजन्तीनामात्मनो योग्याश्चत्वारो निर्योगा भवन्ति, शेषास्तु आचार्यादीनामर्थाय चत्वारो वा पञ्च वा । तत्र यदा चत्वारस्तदा एकमाचार्यस्य द्वितीयं प्रवर्तिन्याः तृतीयं गणावच्छेदिन्याः चतुर्थं सङ्घाटकसाध्व्याः प्रयच्छति । यदा तु पञ्च तदा चत्वारस्तथैवाचार्यादीनां पञ्चमः पुनरुपाध्यायस्य योग्य इति चूर्ण्यभिप्रायः । बृहद्भाष्यकारः पुनराह
चत्तारि अप्पणो से, चउरो पंचऽहव सेसगा हुँति।
आयरिय उवज्झाए, पवत्तिनिऽभिसेय संघाडे ।।
पंचेए निजोगा, अभिसेगा वञ्ज हुंति चत्तारि । ति॥ मू. (९४) नोकप्पइ निग्गंथाण वा निग्गंथीण वा पढमसमोसरणुद्देसपत्ताईचेलाइंपडिग्गहित्तए। कप्पइ निग्गंथाण वा निग्गंथीण वा दोच्चसमोसरणुद्देसपत्ताई चेलाइं पडिग्गहित्तए।
वृ-अथास्य सूत्रस्य कः सम्बन्धः? इत्याह[भा.४२३५] दिळं वत्थग्गहणं, न पवुत्तो तस्स गहणकालो उ।
ओसरणम्मि अगेझं, तेन समोसरणसुत्तं तु ।। वृ-पर्वसूत्रे वस्त्रग्रहणं दृष्टम्, न च तस्य' वस्त्रस्य ग्रहणकाल उक्तः,कदा कल्पते कदाच न?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org