________________
४५६
बृहत्कल्प-छेदसूत्रम् - २-३/९४
इति । अतो वर्षाकालाख्ये प्रथमे 'ओसरणे' समवसरणे अग्राह्यं तद् वस्त्रम्, द्वितीये तु ऋतबद्धाख्ये ग्राह्यमिति निरूपणाय इदं समवसरणसूत्रमारभ्यते ॥
[भा.४२३६ ] अहवा वि सउवधीओ, सेहो दव्वं तु एयमक्खायं । तं काले खित्तम्मिय, गज्झं कहियं अगज्झं वा ॥
वृ- अथवा पूर्वसूत्रे सोपधिकशैक्षलक्षणं द्रव्यमेतदाख्यातम् । 'तद्' द्रव्यं कुत्र काले क्षेत्रे वा ग्राह्यम् ? कुत्र वा अग्राह्यम ? इत्यधुना प्रतिपाद्यते ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या- "नो कप्पइ "त्ति आर्षत्वादेकवचनम् । नो कल्पन्ते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा प्रथमसमवसरणेवर्षाकाले उद्देश : - क्षेत्र - कालविभागस्तं प्राप्तानि प्रथमसमवसरणोद्देशप्राप्तानि 'चेलानि' वस्त्राणि प्रतिग्रहीतुम् । किमुक्तं भवति ? - इह साधवो यत्र वर्षावासं चिकीर्षवस्तत् क्षेत्रं यावद् नाद्यापि प्राप्नुवन्ति प्राप्ता वा परं नाद्याप्याषाढपूर्णिमा लगति तावत् कल्पन्ते वस्त्राणि प्रतिग्रहीतुम् । अथ वर्षावासप्रायोग्यं क्षेत्रं प्राप्ताः आषाढपूर्णिमा च सञ्जाता तत इयन्तं क्षेत्र- कालिवभागं प्राप्तानि वस्त्राणि न कल्पन्ते । द्वितीयसमोसरणोद्देशप्राप्तानि तु कल्पन्ते । इति सूत्रसङ्क्षेपार्थः ॥ साम्प्रतं विस्तरार्थमभिधित्सुः प्रेर्यमुत्थापयन्नाह
[भा. ४२३७]
पढमम्मि समोसरणे, उद्देसकडं न कप्पती जस्स । तस्स उ किं कप्पंती, उग्गमदोसा उ अवसेसा ।। सूरिपरम्परायातमनन्तरोक्तमर्थमनवबुध्यमानः
प्रेरयति-ननु च
वृ- इह परः प्रस्तुतसूत्रस्य सूत्रे "उद्देसपत्ताइं" ति यत् पदं तस्यायमर्थ उद्देशनमुद्देशः - औद्देशिकाख्यो द्वितीय उद्गमदोषस्तं प्राप्तानि वस्त्राणि न कल्पन्ते, एतच्च न युज्यते, यतो यस्य साधोः प्रथमसमवसरणे उद्देशकृतं वस्त्रादि न कल्पते तस्य अवशेषाः आधाकर्मादयः पञ्चदशोद्गमदोषाः किं कल्पन्ते ? यदेवमुद्देशकृतमेव प्रतिषिध्यते ।। पर एव सूरीणामभिप्रायमाशङ्कय परिहरति
[भा. ४२३८] उद्देसग्गहणेण व, उग्गमदोसा उ सव्वे जति गहिता । उप्पादनादि सेसा, तम्हा कप्पंति किं दोसा ।।
वृ- अथ 'एकग्रहणे तज्जातीयग्रहणम्" इति न्यायाद् उद्देशग्रहणेन सर्वेऽप्युद्गमदोषा गृहीताः; एव तर्हि उत्पादनादयः शेषा दोषाः किं कल्पन्ते ? येनोद्गमदोषा एव गृह्यन्ते ॥
पर एवाचार्यस्याशयमाशङ्कमान इदमाह
[भा. ४२३९] अहवा उद्दिस्स कता, एसणदोसा वि होंति गहिता तु । आदी अंतरगहणे, गहिया उप्पादना वि तहिं ॥
वृ- अथवा यस्मादेषणादोषा अपि साधून् 'उद्दिश्य' प्रणिधाय कृताः अत उद्देशग्रहणेन तेऽपि गृहीताः । एवं च आद्यस्य - उद्गमदोषकलापस्य अन्त्यस्य च एषणादोषजालस्य ग्रहणे उत्पादनादोषा अपि गृहीता अत्र मन्तव्याः, “आद्यन्तग्रहणे मध्यस्यपि ग्रहणम्" इति न्यायात् । अतो द्वाचत्वारिंशदपि दोषा न कल्पन्ते इति सिद्धम् । एवमाचार्यस्याकूतमाशङ्कय दूषणान्तरमाह[भा. ४२४० ] एए अ तस्स दोसा, उडुबद्धे जं च कप्पते घित्तुं ।
कोई भणिज दो वि, न कप्पति सुतं तु सूएति ।।
वृ-यद्येवं सामथ्यार्कषप्ता द्वाचत्वारिंशदपि दोषाः प्रथमसमवसरणे प्रतिषिद्धास्तर्हि ऋतुबद्धाख्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org