________________
४५४
बृहत्कल्प-छेदसूत्रम् -२-३/९: लोकस्तमुद्दिश्य ब्रवीति-अहो! कुतःकतरोवाअयंवाणिजएवमुपस्करसम्भारभारितः समुपैति? एवमुपहासमाकर्ण्य सद्वितीयमपि निर्योगं गुरूणां ददाति।तत्र च गुरुभिर्वक्तव्यम्-'हे भदन्त!' आर्य ! मा 'ते' तव भूयो दुर्लभमुपकरणं भवेद् अत आत्मपार्वे एव तावद्धारय ।। स प्राह[भा.४२२७] भारेण खंधं च कडी य बाहा, पीलिज्जए निस्ससए य उच्चं ।
तेना य उवधीणमभिद्दवेजा, न इत्तिया इंति ममोवभोगं॥ दृ-मम मार्गं गच्छतो द्वयोः प्रत्यवतारयोर्महान्भारोभवति, तेन स्कन्धःकटीबाहा च गाढतरं पीड्यते, ततश्च 'उच्चम्' ऊर्ध्वं निश्वसीम्यहम्, निश्वासेनाकुलो भवामीत्यर्थः । स्तेनाश्च मामुपकरणमालितं दृष्ट्वा उपिधकारणादभिद्रवेयुः । एतावन्ति च वस्त्र-पात्राणि ममोपभोगं नायान्ति॥यच्च भगवद्भिरुक्तम्-‘मा भूयो दुर्लभं भवेत् तत्रोच्यते[भा.४२२८] जंहोहिति बहुगाणं, इमम्मि धम्मचरणं पवन्नाणं ।
तं होहिति अम्हं पी, तुम्हेहि समं पवन्नाणं॥ वृ-यद् युष्माकं बहूनाम् ‘अस्मिन्' भागवते शासने धर्मचरणं प्रपन्नानामुपकरणं भविष्यति तदस्माकमपि युष्माभि समं हिण्डमानानां चारित्रं प्रपन्नानां भविष्यति ॥
एष तप्रथमतया प्रव्रजतो विधिरुक्तः । अथ पूर्वोपस्थितविषयं तमेवाह[भा.४२२९] सिद्धी वीरणसढए, अब्भुट्ठाणं पुनो अजाणते।
कत कारितं च कीतं, जाणते अधापरिग्गहिते॥ वृ-यश्चारित्रं परित्यज्य गृहवासमुपगतस्तस्य कथं पुनरपिप्रव्रज्यायामभ्युत्थानसिद्धि साता? अत्र वीरणसढ़कष्टान्तो वक्तव्यः, एवंतस्यपुनरभ्युत्थानं भवति।सचद्विधा-जानानोअजानानश्च। यः कल्पा-ऽकल्पिवभागं जानाति स जानानः, तद्विपरीतो अजानानः, अगीतार्थः इत्यर्थः । अजानति भूयः प्रव्रज्यायामभ्युत्तिष्ठमाने कृतं वा कारितं वा क्रीतं वा दीयमानं पूर्वोक्तविधिना कल्पते। यस्तुजानानस्तस्य ‘यथापरिगृहीतानि' शुद्धान्येव ग्रहीतुंकल्पन्ते, न कृत-कारितादीनि।। अथ वीरणसढकष्टान्तमाह[भा.४२३०] जह सो वीरणसढओ, नइतीररुहो जलस्स वेगेणं ।
थोवं थोवं खणता, छूढो सोयं ततो बूढो॥ वृ-यथा 'सः' कश्चिद् विवक्षितः 'वीरणसढकः' वीरणानां-तृणविशेषाणां स्तम्बो नद्यास्तीरे रोहति स्म-जायते स्मेति नदीतीररुहः, नद्याः प्रत्यासन्नतया जलस्य वेगेन स्तोकस्तोकेन खनता भूमिकानिहितमूलजालोऽप्यचिरादेवस्रोतसि प्रक्षिप्तः । ततश्च स्रोतसा 'व्यूढः' वाहयित्वा समुद्रं प्रापित इति भावः । एष दृष्टान्तः । अयमर्थोपनयः[भा.४२३१] ठिय-गमिय-दिठ्ठ-ऽदिटेहि साधुहिं अहरिहं समणुसह्रो ।
उण्हेहुण्हतरेहि य, चालिज्जति बद्धमूलो वि॥ वृ- कश्चित् पश्चात्कृतः सिद्धपुत्रकादिविशेषेण, साधूनामागमनमार्गभूते क्वचिद् ग्रामे गृहवासमध्यास्य तिष्ठन् ये तत्र मासकल्पं वर्षाकल्पं वा स्थिताः साधवः, ये च “गमि"त्ति तत्र गच्छन्त आगच्छन्तो वा द्वित्राणि दिनानि तिष्ठन्ति, तैष्टैरष्टैश्च साधुभिः 'यथार्ह' यथायोग्यं 'समनुशिष्टः सन्' उष्णैरुष्णतरैश्चवचनैरुदकवेगस्थानीयैरनेकशःप्रेर्यमाणः कलत्रादिपरिग्रहप्रवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org