________________
उद्देश : ३, मूलं- ९२, [भा. ४२२२]
४५३
देसि तो भूओ तुमं उच्छाएहिइ । 'एवं भवउ' त्ति भणित्ता गहिओ तेन भूओ भणइ-कम्मं मे देहि । दिनं तं खिप्पमेव कयं । पुनो मग्गइ, अन्नं दिनं । एवं सव्वम्मि कम्मे निट्ठि पुनो भणइ - देहि कम्मं । तेन भन्नइ - एत्थं खंभे चडुत्तरं करेहि जाव अन्नं किंचि कम्मं न देमि । भूओ भणइ अलाहि, पराजितो मि, चिंधं ते करेमि - जाव नावलोएसि तत्थ तलागं भविस्सइ । तेन अस्से विलग्गिऊण बारस जोयणाई गंतूण पलोइयं जाव तक्खणमेव कयं तेन भरुयच्छस्स उत्तरे पासे भूयतलागं नाम तलागं ।। अमुमेवार्थमभिधित्सुराह "भरुयच्छ" इत्यादि । भरुकच्छवणिजा अश्रद्दधता 'भूतः ' पिशाचिवशेषः कुत्रिकापणे मार्गितः । ततोऽष्टमं कृत्वा शतसहस्रेण भूतः प्रदत्तः, इदं च भणितम्कर्मण्यदीयमाने अयं ‘रुष्टः ' कुपितो मारयतीति । स च भूतं गृहीत्वा भरुकच्छे आगमनं कृत्वा व्यापारदानं तस्य कृतवान् । स भूतस्तं व्यापारं क्षिप्रमेव करोति । ततः सर्वकर्मपरिसमाप्तौ वणिजा भीतेन भूतस्य पार्थ्यात् स्तम्भ एकः कारयाञ्चक्रे । ततस्तं भूतमभिहितवान्- यावद परं व्यापारं न ददामि तावद् ‘अत्र' स्तम्भे ‘उत्सर' आरोहा ऽवरोहक्रियां कुरु इति भावः । ततः सभूत उक्तवान्निर्जितोऽहं भवता, अत आत्मनः पराजयचिह्नं करोमि । अश्वेन गच्छन् यावद् 'न प्रेक्षसे' न पश्चादवलोकसे तत्र प्रदेशे तडागं करिष्यामि इति भणित्वा तथैव कृते भूततडागं कृतवान् ॥ एमेव तोसलीए, इसिवालो वाणमंतरो तत्थ । निजित इसीतलागे, रायगिहे सालिभद्दस्स ।।
[भा. ४२२३]
बु- 'एवमेव ' तोसलिनगरवास्तव्येन वणिजा उज्जयिनीमागम्य कुत्रिकापणाद् ऋषिपालो नाम वानमन्तरः क्रीतः । तेनापि तथैव निर्जितेन ऋषितडागं नाम सरश्चक्रे । तथा राजगृहे शालिभद्रस्य रजोहरणं प्रतिग्रहश्च कुत्रिकापणात् प्रत्येकं शतसहस्रेण क्रीतः ॥ अथ सप्त निर्योगान् व्याचष्टे[भा. ४२२४] तिन्निय अत्तद्वैती, चत्तारि य पूयणारिहे देति । दिंतस्स य घित्तव्वो, सेहस्स विविंचणं वा वि ॥
वृ- सप्त निर्योगान् गृहीत्वा प्रव्रजतोऽयं गुणः- तेषां सप्तानां निर्योगाणां मध्यात् त्रीन् स शैक्षः 'आत्मार्थयति' आत्मनोऽर्थाय गृह्णातीत्यर्थः; चतुरश्च निर्योगान् 'पूजनार्हाणाम्' आचार्योपाध्यायप्रवर्ति-सङ्घाटकसाधूनां प्रयच्छति । तस्य चैवं प्रयच्छतो यद्यसौ निर्योगः शुद्धः ततो ग्रहीतव्यः । अथाशुद्धस्ततः शैक्षस्य दातव्यः । शैक्षस्याभावे 'विवेचनं' परिष्ठापनं तस्य क्रियते ॥
एवं तस्य त्रीन् निर्योगान् गृहीत्वा प्रव्रजितस्य यद् भवति तद् दर्शयति[भा. ४२२५ ] सज्झाए पलिमंथो, पडिलेहणियाए सो हवइ सिग्गो । एगं च देति तहितं; दोन्निय से अप्पणी हुंति ॥
वृ-तस्य त्रीन् निर्योगान् उभयकालं प्रत्युपेक्षमाणस्य महान् स्वाध्यायविषयः परिमन्थो भवति । तया च महत्या प्रत्युपेक्षणया सः 'सिग्गः' परिश्रान्तो भवति । तत एवं निर्विन्नः सन् स एकं निर्योगं सूरीणां ददाति । प्रदत्ते च तस्मिन् तस्य द्वौ निर्योगावात्मनः सत्तायां भवतः ॥ एवमप्यसौ द्वाभ्यां निर्योगाभ्यां शेषसाधुभ्यो अन्याद्दश इव दृश्यते ततः
[ भा. ४२२६ ] निग्गमने बहुभंडो, कत्तो कतरो व वाणिओ एइ ।
बितियं पि देति तहियं, मा भंते ! दुल्लहं होज्जा ॥
वृ- मासकल्पे पूर्णे ततः क्षेत्राद् निर्गच्छतां स एवैकः 'बहुभाण्डः' बहूपकरणो दृश्यते ततो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org