________________
४५२
बृहत्कल्प - छेदसूत्रम् - २-३/९२
कुत्रिकापणे भाण्डमूल्यस्य 'निष्कं' परिमाणं भवति, न प्रतिनियतं किमपीति भावः । इतिशब्दः स्वरूपोपदर्शने ॥
[भा. ४२१७] एवं ता तिविह जणे, मोल्लं इच्छाए दिज्ज बहुयं पि । सिद्धमिदं लोगम्मिवि, समणस्स वि पंचगं भंडं ॥
वृ- एवं तावत् 'त्रिविधे' प्राकृत-मध्यमोत्तमभेदभिन्ने जने 'मूल्यं' पञ्चकादिरूपकपरिमाणं जघन्यतो मन्तव्यम् । इच्छ्या तु 'बह्वपि' यथोक्तपरिमाणादधिकमपि प्राकृतादयो दद्युः, न कोऽप्यत्र प्रतिनियमः । न चैतदत्रैवोच्यते, किन्तु लोकेऽपि 'सिद्धं' प्रततमिदम्, यथा- श्रमणस्यापि 'पञ्चकं' पञ्चरूपकमूल्यं भाण्डं भवति । इह च रूपको यस्मिन् देशे यद् नाणकं व्यवह्रियते तेन प्रमाणेन प्रतिपत्तव्यः ॥ अथ कुत्रिकापणः कथमुत्पद्यते ? इत्याह
[ भा. ४२१८ ] पुव्वभविगा उ देवा, मनुयाण करिंति पाडिहेराई । लोगच्छेरयबूया, जह चक्कीणं महानिहयो ॥
वृ- 'पूर्वभविकाः ' भवान्तरसङ्गतिका देवाः पुण्यवतां मनुजानां 'प्रातिहार्याणि' यथाभिलषितार्थोपढौकनलक्षणानि कुर्वन्ति । यथा लोकाश्चर्यभूताः 'महानिधयः' नैसर्पप्रभृतयः 'चक्रिणां' भरतादीनां प्रातिहार्याणि कुर्वन्ति । वर्तमाननिर्देशस्तत्कालमङ्गीकृत्याविरुद्धः । एवं कुत्रिकापणा उत्पद्यन्ते । ते चैतेषु स्थानेषु पुरा बभूवुः इति दर्शयति
[भा. ४२१९] उज्जेनी रायगिहं, तोसलिनगरे इसी य इसिवालो । दिक्खा य सालिभद्दे, उवकरणं सयसहस्सेहिं ।
वृ- उज्जयिनी राजगृहं च नगरं कुत्रिकापणयुक्तमासीत् । तोसलिनगवास्तव्येन च वणिजा ऋषिपालो नाम वानमन्तर उज्जयिनीकुत्रिकापणात् क्रीत्वा स्वबुद्धिमाहात्म्येन सम्यगाराधितः, ततस्तेन ऋषितडागं नाम सरः कृतम् । तथा राजगृहे श्रेणिके राज्यमनुशासति शालिभद्रस्य सुप्रसिद्धचरितस्य दीक्षायां शतसहस्राभ्याम् 'उपकरणं' रजोहरण- प्रतिग्रहलक्षणमानीत्, अतो ज्ञायते यथा राजगृहे कुत्रिकापण आसीदिति पुरातनगाथासमासार्थः ॥
साम्प्रतमेनामेव विवृणोति - [भा. ४२२०]
[भा. ४२२१]
पज्जोए नरसीहे, नव उज्जेनीय कुत्तिया आसी । भरुयच्छवणियऽ सद्दह, भूयऽट्ठम सयसहस्सेणं ॥ कम्मम्मि अदिज्जंते, रुट्ठो मारेइ सो य तं घेत्तुं । 'भरुयच्छाऽऽगम, वावारदान खिप्पं च सो कुणति ॥ [ भा. ४२२२ ] भीएण खंभकरणं, एत्थुस्सर जा न देमि वावारं । निज्जित भूततलागं, आसेन न पेहसी जाव ॥
चू- चण्डप्रद्योतनाम्नि नरसिंहे अवन्तिजनपदाधिपत्यमनुभवति न कुत्रिकापणा उज्जयिन्या मासीरन् । तदा किल भरुयच्छाओ एगो वाणियओ असद्दहंतो उज्जेनीए आगंतून कुत्तियावणाओ भूयं मग्गइ । तेन कुत्तियावणवाणिएण चिंतियं - 'एस ताव मं पवंचेइ ता एयं मोल्लेण वारेमि' त्ति भणियं - जइ सयसहस्से देसि तो देमि भूयं । तेन तं पि पडिवन्नं ताहे तेन भन्नइ- पंचरत्तं उदिक्खाहि तओ दाहामि । तेन अट्ठमं काऊण देवो पुच्छिओ । सो भणइ देहि, इमं च भणिहिज्ज - जइ कम्मं न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org