________________
४५१
उद्देशकः ३, मूलं-९२, [भा. ४२१२] [भा.४२१२]वत्था वा पत्ता व घरे वि हुजा, दटुंपि कुजा निउणो सयं पि ।
निजुत्तभंडं व रयोहरादी, कोईक किणे कुत्तियआवणातो॥ . वृ-वस्त्राणिवापात्राणि वा प्रायो गृहेऽपि भवेयुः । यत्तु निर्युक्तभाण्डं' पात्रनिर्योगोपकरणं वाशब्दस्य व्यवहितसम्बन्धतया रजोहरणादिकं वायदन्यत्र दुर्लभमुपकरणंतत् कश्चिद् 'निपुणः' बुद्धिमान् साधूनां समीपे दृष्ट्वा तदनुसारेण स्वयमपि कुर्यात्, कश्चित् तु तदेव कुत्रिकापणात् क्रीणीयात् ।। अनेन सम्बन्धेन कुत्रिकापणवक्तव्यतामभिधित्सुराह[भा.४२१३] कुत्तीयपरूवणया, उक्कोस-जहन्न-मज्झिमट्ठाणा।
कुत्तिय भंडक्किणणा, उक्कोसं हुंति सत्तेव ॥ वृ-प्रथमतः कुत्रिकापणस्य प्ररूपणा कर्तव्या । तत उत्कृष्ट-जघन्य-मध्यमानि मूल्यस्थानानि वक्तव्यानि । एतावता मूल्येन कुत्रिकापणे भाण्डस्य-उपकरणस्य क्रयणं भवतीति निरूपणीयम्। “उक्कोसं" ति उत्कर्षतः सकलस्यापि श्रमणसङ्घस्य योग्या वस्त्र-पात्रप्रत्यवतारा ग्रहीतव्याः । "होतिसत्तेव"त्तिसप्तनिर्योगास्तेन ग्रहीतव्या भवन्ति, जघन्यतइति वाक्यशेषः।एषचूण्यभिप्रायः। विशेषचूर्ण्यभिप्रायेण तु-जघन्यत एक आत्मनो योग्यो निर्योगो ग्रहीतव्यः । उत्कर्षतस्तु सप्त निर्योगाः, तेषां च त्रय आत्मनो योग्याः चत्वार आचार्यप्रभृतीनां पूजनीयानां पूजायोग्याः । एष द्वारगाथासमासार्थः ॥अथैनामेव विवृणोति[भा.४२१४] कुत्ति पुढवीय सन्ना, जं विज्ञति तत्थ चेदनमचेयं ।
गहणुवभोगे य खमं, न तं तहिं आवणे नत्थि ॥ वृ-'कुः' इति पृथिव्याः संज्ञा, तस्याः त्रिकं कुत्रिकं-स्वर्ग-मर्त्य-पाताललक्षणं तस्यापणः-हट्टः कुत्रिकापणः किमुक्तं भवति? इत्याह-'तत्र' पृथिवीत्रये यत् किमपि चेतनमचेतनं वा द्रव्यं सर्वस्यापि लोकस्य ग्रहणोपभोगक्षम विद्यते तत् 'तत्र' आपणे न नास्ति, "द्वौ नौ प्रकृत्यर्थं गमयतः" इति वचनाद् अस्त्येवेति भावः॥
अथोत्कृष्ट-मध्यम-जघन्यमूल्यस्थानानि प्रतिपादयति[भा.४२१५] पनतो पागतियाणं, साहस्सो होति इब्भमादीणं।
उक्कोस सतसहस्सं, उत्तमपुरिसाण उवधी उ॥ वृ-प्राकृतपुरुषाणां प्रव्रजतमुपधि कुत्रिकापणसत्कः ‘पञ्चकः' पञ्चरूपकमूल्यो भवति । 'इभ्यादीनां' इभ्य-श्रेष्ठि-सार्थवाहादीनां मध्यमपुरुषाणां 'साहनः' सहसःमूल्य उपधिः । 'उत्तमपुरुषाणां' चक्रवर्ति-माण्डलिकप्रभृतीनामुपधि शतसहस्रमूल्यो भवति। एतच्च मूल्यमानं जघन्यतो मन्तव्यम्, उत्कर्षतः पुनस्रयाणामप्यनियतम् । अत्र चपञ्चकंजघन्यम्, सहस्रमध्यमम्, शतसहस्रमुत्कृष्टम् ॥ कथापुनरेकस्यापि रजोहरणादिवस्तुन इत्थं विचित्रं मूल्यं भवति?
इत्युच्यते[भा.४२१६] विकिंतगंजघा पप्प होइ रयणस्स तविहं मुल्लं।
कायगमासज्ज तहा, कुत्तियमुल्लस्स निकं ति॥ वृ-यथा 'रत्नस्य' मरकत-पद्मरागादेर्विक्रेतारं 'प्राप्य' प्रतीत्य त्विधं मूल्यं भवति, याशो मुग्धःप्रबुद्धोवा विक्रेता ताशमेवस्वल्पंबहुवामूल्यं भवतीति भावः; एवं क्रायकं ग्राहकमासाद्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org