________________
४५०
बृहत्कल्प-छेदसूत्रम् -२-३/९२
- यथा गृहस्थेनात्मनोऽर्थाय आधाकर्म कृतं तद् 'इतरेषां' सयंतानां परिभोक्तुं कल्पते, 'इति' अमुनैव ज्ञापकेन अस्माकमपि स शैक्षो गृहस्थ एवेति कृत्वा 'तेन परिगृहीतं' ममेदमिति बुद्धया स्वीकृतम् 'इतरदपि संयतनिर्दिष्टमपि कल्पते 'इतरेषां' साधूनाम् । ये पुनराचार्या अविशोधिकोटिनिर्दिष्टं संछोभेऽपि कृते नेच्छन्ति ते इदं कारणमुपवर्णयन्ति
[भा. ४२०८]
सहसानुवादिनातेन केइ निदिट्ठके न इच्छंति । अनिदिट्ठे पुन छोभं, वदंति परिफग्गुमेतं पि ॥
वृ- यथा सहस्रानुपाति विषं भक्ष्यमाणं सहस्रान्तरितमपि पुरुषं मारयति, एवमाधाकर्माSप्युपभुज्यमानं सहस्रन्तरितमपि साधुं संयमजीविताद् व्यपरोपयतीति सहस्रानुपातिविपज्ञातेन केचिदाचार्या साधुनिमित्तं निर्दिष्टे संछोमेऽपि कृते नेच्छन्ति, अनिर्दिष्टे पुनः छोभं कृत्वा ददानस्य कल्पनीयं वदन्ति एतदपि 'परिफल्गु' निस्सारं मन्तव्यम् ॥ कथम् ? इत्याहएवं पि सघरमीसेण सरिसगं तेन फग्गुमिच्छामो । दुविधं पिततो गहियं, कप्पति रतणुच्चओ नातं ।।
[भा. ४२०९]
वृ-यत् ते आचार्यदेशीया अनिर्दिष्टं संछोभे कृते कल्पनीयं ब्रुवते एतदपि स्वगृहयतिमिश्रेण सध्शम्, तेन कारणेन परिफल्गु वयमिच्छामः । त्वदीयाभिप्रायेण ह्येतदपि स्वगृहयतिमिश्रमिति कृत्वा अकल्पनीयं प्राप्नोति, तच्चनिष्टम्; ततः 'द्विविधमपि' निर्दिष्टा ऽनिर्दिष्टभेदाद् द्विप्रकारमपि तेन शैक्षेण संछोभकरणेन 'अवगृहीतम्' आत्मीकृतं सत् कल्पते । तथा चात्र 'रलोच्चयः' मेरुमहीधरः 'ज्ञातं' दृष्टान्तः । यथा हि तत्र प्रक्षिप्तं तृणादिकमपि सुवर्णीभवति, एवं शैक्षगृहस्थेन परिगृहीतं सर्वमपि कल्पनीयं भवति । अपि च
[भा. ४२१०] जह उ कडं चरिमाणं, पडिसिद्धं तं हि मज्झिमोग्गहिपं । पडिवन्नपंचजामे, कप्पति तेसिं तहऽन्नेसिं ॥
वृ-यथा 'चरमाणां' वरमतीर्थकृर्तीर्थवर्तिनां पञ्चयामिकानां साधूनामर्घाय किमपि वस्त्रं वा पात्र वा कृतं तच्च तैः 'प्रतिषिद्धं न गृहीतम्, 'मध्यमैश्च' श्री पार्श्वनाथतीर्थवर्तिसाधुभिश्चतुर्यामिकैस्तत् प्रतिगृहीतम् । ते च चतुर्यामिकाः पञ्चयामधर्मं प्रतिपन्नाः ततस्तद्वस्त्रादिकं तेषामन्येषामपि पश्यामिकानां परिभोक्तुं यथा कल्पते, एवमत्रापि साधूनामर्थाय कृतं तैः प्रतिषिद्धं शैक्षगृहस्थेनात्मार्थीकृतं सद् दीयमानं कल्पते । अथ संयोगद्वारं व्याख्याति
[भा. ४२११] उग्गम-विसोधिकोडी, दुगादिसंजोगओ बहू एत्थं । पत्तेग-मीसिगासु य, निद्दिष्ट्ठ तधा अनिद्दिट्ठा ।।
वृ- इह उद्रमकोटिभेदाः- आधाकर्म- मिश्रजातादयस्तेषां 'द्विकादिसंयोगतः' द्विकत्रिकचतुष्कादिसंयोगनिष्पन्ना बहवोऽत्र भङ्गका भवन्ति, ते च सुगमतया स्वयमभ्युह्य मन्तव्याः; एवं विशोधिकोटिभेदानामपि क्रीतकृतादीनां द्विकादिसंयोगनिष्पन्नास्तथैव बहवो भङ्गकाः; एते च प्रत्येकभङ्गका उच्यन्ते । एतेषामेवोद्रमकोटिभेदानां विशोधिकोटिभेदानां च परस्परं द्विकादिसंयोगनिष्पन्ना एवमेव बहवो भङ्गका भवन्ति, तेच मिश्रभङ्गका भण्यन्ते । सर्वेऽप्येते द्विधा - निर्दिष्टा अनिर्दिष्टाश्च । एतासु प्रत्येक-मिश्रासु भङ्गपङिषु कल्प्या-ऽकल्प्यविभागः प्रागुक्तप्रकारेणावसातव्यः ॥ अथ वक्ष्यमाणार्थसम्बन्धनाय प्रस्तावनां करोति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org