________________
उद्देशक :
: ३, मूलं - ८१, [भा. ३७१०]
३५३
निस्नेहोऽलक्षणोऽभागधेयश्च मम भर्त्ता अभवत्, न चाहं 'निर्गुणा' गुणविकला, यद्वा आर्य ! यूयमपि ज्ञास्यथ मदीयं 'विशेष' सगुण-निर्गुणताविभागम् ॥ एवमुक्ते संयतो ब्रूयात्[भा. ३७११] इट्ठकलत्तविओगे, अन्नम्मि य तारिसे अविजंते । महतरयपभावेण य, अहमवि एमेव संबंधो ॥
वृ- इष्टकलत्रस्य वियोगे सञ्जतेऽन्यस्मिश्च ताद्दशे कलत्रेऽविद्यमाने महत्तरः- आचार्यो मम धर्ममाख्याति स्म, ततस्तत्प्रभावेणाहमपि प्रव्रजितः । “एमेव" त्ति यथा तया सविकारमात्मीयं चरितामाख्यातं तथा संयतोऽप्येवमेव कथयति । एवं तयोः परस्परं भावसम्बन्धों भवति ॥
किञ्चान्यत्
[भा. ३७१२] किं पिच्छह सारिक्खं, मोह में नेति मज्झ वि तहेव । उच्छंगगता मिमता, इहरा न वि पत्तियंतो मि ॥
वृ- संयतस्तां संयतीं निश्चलया दृष्ट्या निरीक्षते, ततः सा ब्रवीति - किभेवं पश्यथ ? । स प्राह-मदीयभोगिन्या सह यद् भवत्याः सर्वथैव साध्श्यं तद् मां मोहं नयति, किमेषा सैव ? इत विभ्रमं जनयतीत्यर्थः । सा ब्रवीति ममापि त्वं तथैव मोहं जनयसि । स प्राह-किं करोमि ? ममोत्स गता-स्थिता सती सा मृता, 'इतरथा' यदि परोक्षं सा मृताऽभविष्यत् ततो देवानामि वचनेन प्रत्ययं नागमिष्यम्, यथा-त्वं सा मम पत्नी न भवसीति ॥
[भा. ३७१३] इय संदंसन-संभासणेहिं भिन्नकध-विरहजोएहिं । सेज्जातरादिपासण, वोच्छेद दुदिट्ठधम्म त्ति ॥
वृ- "इय" एवं यत् परस्परं सन्दर्शनं यञ्च सम्भाषणं- 'किमिति त्वमद्य भिक्षां न गृता ?" इत्यादिपृच्छारूपं ताभ्याम्, तथा यास्तया सह भिन्नकथाः, यश्च विरहे- एकान्ते योगः, एतैश्चारित्रस्य भेद उपजायते । तथा शय्यातर आदिशब्दादन्यो वा यः तत्परिजनादिस्तयोस्तथाविधं चेष्टितं पश्यति स तद्रव्याऽन्यद्रव्योव्रयवच्छेदं कुर्यात् । 'दुर्द्दष्टधर्माण एते' इत्येवं विपरिणाममुपगच्छेत्। अथासौ तया सह सम्पत्तिं गच्छति ततो नरकायुर्बन्धाति, तीर्थंकृतां सङ्घस्य च महतीमाशातनां विधाय बोधिलाभप्रतिबन्धकं कर्मजालमुपचिनोति । उक्तं च
लिंगेन लिंगिनीए, संपत्तिं जइ निगच्छई मूढो । निरयाउयं निबंध, आसायणया अबोही य ॥
एतत् सर्वं स्थानं निषदनं चाश्चित्योक्तम् । अथ त्वग्वर्त्तनादीनि पदान्यङ्गीकृत्याह[भा. ३७१४] पयला निद्द तुअट्टे, अच्छि दिट्ठम्मि चमढणे मूलं । पासवणे सच्चित्ते, संका वच्छामि उड्डाहो ||
वृ- प्रचलायनं नाम- निषन्नस्य सुप्तजागरावस्था, निद्रायणं तु-निषन्नस्यैव स्वपनम् त्वग्वर्त्तनंसंस्तारकं प्रस्तीर्य शयनम्, अक्षिचमढनं चक्षुषोर्मलिनम् । एतानि कुर्वाणो यद्यपि सागारिकादिना न दृष्टस्तथापि चतुर्गरु, दृष्टे तु शुङ्कायां चतुर्गुरु, निशङ्किते मूलम्, प्रश्रवणं संयतीनां कायिकाभूमौ करोति चतुर्लघु । “सच्चित्ते" त्ति संयत्वाः कायिका व्युत्सृजत्या योनौ संयतनिसृष्टं शुक्रबीजमवगाहेत ततो मूलम् । “संका वुच्छम्मि" त्ति तं संयतं तत्र कायिकां व्युत्सृजन्तं दृष्ट्वा सागारिकादि शङ्कां
19 23
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org