________________
३५४
बृहत्कल्प-छेदसूत्रम् -२-३/८१ कुर्यात्-किं मन्ये एष श्रमणको रजन्यामत्रैवोषितः ?, ततो महानुड्डाहः प्रवचनस्य भवतीति । एषा पुरातना गाथा॥ अथास्सा एव व्याख्यानमाह[भा.३७१५] पयला निद्द तुअट्टे, अच्छीणं चमढणम्मि चउगुरुगा।
दिढे वि य संकाए, गुरुगा सेसेसु विपदेसु ॥ वृ-बचलां निद्रां त्वग्वर्तनमक्षिचमढनं च कुर्वाणं यदिपरो न पश्यति ततश्चतुर्गुरुकाः, दृष्टेऽपि प्रचलादौ शङ्कायांचतुर्गुरुकाः, निशङ्कितेमूलम्। शेषेष्वपि' अशनादिसमुद्देशन-स्वाध्यायकरणादिषु सूत्रोक्तपदेषु परेणाद्दष्टेषु चत्वारो गुरवः, दृष्टेष्वपि शङ्कयां चतुर्गुरु, निशङ्किते मूलम् ॥
का पुनः शङ्का भवेत् ? इति चेद् उच्यते[भा.३७१६] सज्झाएण नु खिन्नो, आउं अन्नेन जेन पयलाति।
संकाए हुंति गुरुगा, मूलं पुन होति निस्संके। वृ-'नुः' इति वितर्के, किमेष संयतः स्वाध्यायजागरेण खिन्नः? आहोश्चिदन्येन सागारिकप्रसङ्गेन रात्रौ खिन्नः ? येनैवं प्रचलायते, एवं शङ्कायां चतुर्गुरुकाः, निशक्तेि तु मूलं भवति ॥ [भा.३७१७] अन्नत्थ भोय गुरुओ, संजतिवोसिरणभूमिए गुरुगा।
जोणोगाहण बीए, केयी धाराए मूलं तु॥ वृ-संयतीकायितकाभूमिं विमुच्यान्यत्र मोकस्य व्युत्सर्जने मासगुरु । अथ संयतीव्युत्सर्जनभूमौ व्युत्सृजति ततश्चतुर्गुरु । तत्र च कदाचिद् ष्टिक्लीबस्यान्यस्य वा बीजनिसर्गो भवेत्, तच बीजं संयतीधाराहतं सद् ऊर्ध्वमुखमुद्धावितं योनाववगाहेत तत्र संयतस्य मूलम्, वाहाडितायां च तस्यामुड्डाहादयो दोषाः । केचिदाचार्या ब्रुवते-धारया स्पृष्टमात्र एव बीजे मूलं भवति । यत एते दोषा अतो निष्कारणे संयतीवसतिमविधिना न प्रविशेत् । गतः प्रथमो मङ्गः । द्वितीयभङ्गमाह[भा.३७१८] निक्कारणे विधीय वि, दोसा ते चेव जे भणिय पुट्विं ।
वीसत्थाई मुत्तुं, गेलनाई उवरिमा उ॥ वृ-निष्कारणे विधिनाऽपि' नैषेधिकीत्रयकरणरुपेण प्रवेशेत एव दोषाः ये 'पूर्व प्रथमभङ्गे सप्रपञ्चमुक्ताः । नवरं विश्वस्ताविषया ये दोषा उक्ताः, आदिशब्दस्तेषामेवानेकभेदसूचकः, तान् मुक्त्वा ये ग्लान्यादिविषया उपरितना दोषास्ते द्वितीयभङ्गे सम्भवन्ति, विश्वस्तादोषास्तु नैषेधिकीत्रयकरणेन न सम्भवन्तीति भावः ॥ [भा.३७१९] निक्कारणे विधीय वि, तिट्ठाणे गुरुगो जेन पडिकुटुं।
कारणगमने सुद्धो, नवरिं अविधीय मासतियं ॥ वृ-निष्कारणेविधिनाऽपि प्रविशन् यस्त्रिषु स्थानेषु नैषेधिकीं प्रयुङ्क्ते तस्यापि मासगुरुकम्। कुतः ? इत्याह-येन प्रतिक्रुष्टं भगवता निष्कारणमार्यिकावसतौ गमनम् । अथ तृतीयभङ्गमाह"कारण" इत्यादि । कारणे यःसंयतीवसतौ गच्छतिस शुद्धः । नवरम् 'अविधिना' असामाचार्या प्रवेशनिष्पन्नं त्रिषु स्थानेषु यदि नैषेधिकीत्रयं न करोति ततो मासलघुत्रयम्, द्वयोः स्थानयोर्न करोति मासलघुद्वयम्, एकस्मिन् स्थाने न करोति एकं मासलघुकम्॥ [भा.३७२०] कारणतो अविधीए, दोसा ते चेव जे भणिय पुदि ।
कारणे विधीय सुद्धो, इच्छं तं कारणं किन्नु ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org