________________
३५५
उद्देशक ः ३, मूलं-८१, [भा. ३७२०]
वृ-कारणतोऽविधिना प्रविशतो दोषास्त एव भवन्ति ये विश्वस्तादिविषयाः पूर्वं भणिता इति । कारणे तु 'विधिना' त्रिषु स्थानेषु नैषेधिकीत्रयं कृत्वा प्रविशन् शुद्धः । शिष्यः पृच्छतिइच्छाम्यहं ज्ञातुम् किं तत् कारणम् ? येन तत्र गम्यते ॥ सूरिराह[भा.३७२१] गम्मइ कारणजाए, पाहुणए गणहरे महिड्डीए।
पच्छादणा य सेहे, असहुस्स चउक्कभयणा उ॥ वृ-गम्यते संयतीनां प्रतिश्रये 'कारणजाते' उपाश्रय-संस्तारकप्रदानादिके ।। प्राघुणको वा साधुः संयतीनामनाबाधपृच्छानिमित्तं गच्छेत् । गणधरोवा मूर्छा-विसूचिकादौ संयतीनामागाढे कारणे समुत्पन्ने दिवा रात्रौ वा गच्छेत् । 'महर्द्धिको वा राजा-ऽमात्यादिप्रव्रजितः संयतीनां तेजोगौरवादिजननार्थं यायात् । “सेहि" त्ति शैक्षस्य राजपुत्रप्रव्रजितादेरमात्यादिभिरुन्निष्क्रामयितुमारब्धस्य प्रच्छादना संयतीप्रतिश्रये नीत्वा कर्तव्या । काचिद्वा संयती ग्लाना तस्याश्चिकित्सा कर्तव्या, तत्रासहिष्णोः साधोः साध्व्या (च] श्चतुष्कभजना भवति, चतुर्मङ्गीत्यर्थः । साचेयम्साध्वी सहिष्णः साधुरपि सहिष्णुः १ साध्वी सहिष्णुः साधुरसहिष्णुः २ साध्वी असहिष्णुः साधुः सहिष्णुः ३ साध्वी असहिष्णुः साधुः सहिष्णुः ३ साध्वी साधुश्च द्वावप्यसहिष्णू ४ । एष द्वारगाथासङ्केपार्थः ॥ अथ विस्तरार्थमभिधित्सुः प्रथमद्वारमङ्गीकत्याह[भा.३७२२] उदस्सए य संथारे, उवही संघपाहुणे।
सेहट्ठवणुद्देसे, अनुन्ना भंडणे गणे॥ [भा.३७२३] अणप्पज्झ अगणि आऊ, वीआर पुत्त संगमे।
संलेहण वोसिरणे, वोसट्टे निट्टिए तिहं॥ वृ-उपाश्रयस्य संस्तारकस्योपधेर्वा प्रदानार्थं संयतीप्रतिश्रयं गच्छेत् । काश्चिद्वा संयत्यः परीषहपराजिता अवधावनाभिमुख्यो वर्तन्ते तासांस्थिरीकरणार्थं सङ्घप्राघुणो गच्छेत् । इह कुलस्थविरो गणस्थविरः सङ्घस्थविरो वा स्थापनां कुर्तुं तत्र व्रजेत् । वसतावस्वाध्यायिके श्रुतस्योद्देशमनुज्ञां वा कर्तुतत्र गच्छेत् । भण्डनं कलहः तद्द्वा तासां परस्परमुत्पन्नं तदुपशमनार्थं गन्तव्यम् । “गणे" त्ति प्रवर्त्तिन्यां कालगतायां गणचिन्तार्थं गच्छेत् ॥
"अणप्पज्झ" ति देशीपदमनात्मवशवाचकम्, ततश्चानात्मवशायाः- यक्षाविष्टादिरुपाया आर्यिकाया मन्त्र-तन्त्रदिप्रयोगेणात्मवशतां कुर्तुं गच्छेत् । अग्निना वा संयतीवसतिर्दग्धा, अष्कायपूरेण वा प्लाविता, विचारभूमौ वा गच्छन्तीनां तासां सोपसर्गम्, “पूत्ते" त्ति पुत्रः उपलक्षणत्वात् पिता भ्राता वा तासां कालगतो भवेत्, “संगमे" त्ति पुत्र-भ्रात्रादिरेव तासां सज्ञातकश्चिरादागतो भवेत् तस्य यः सङ्गमः-मीलकस्तदर्थम्, तथा 'संलेखन' भक्तप्रत्याख्यानाय परिकर्मणां काचिदार्यिका करोति, 'व्युत्सर्जनं वा' भक्तप्रत्यारुयानं कर्तुकामा काचिद् विद्यते, 'व्युत्सृष्टं वा' कयाचिद् भक्तं प्रत्याख्यातम् अनशनं प्रतिपन्नमित्यर्थः, एतेषु कारणेषु गच्छेत् । अथ काचिद् ‘निष्ठिता' कालगता ततः शेषसंयतीनां शोकापदनयनार्थं 'व्यहं' त्रीन् दिवसान् यावदुपर्युपरि सूरिणा गन्तव्यमिति श्रलोकद्वयस पार्थः ।। अथैतदेव प्रतिपदं बिभावयिषुराह• [भा.३७२४] अजाणं पडिकुटुं, वसही-संथारगाण गहणं तु ।
__ ओभासिउ दाउं वा, वच्चेज्जा गणहरो तेनं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org