________________
३५६
बृहत्कल्प-छेदसूत्रम् -२-३/८१ वृ-आर्याणं स्वयं वसतेः संस्तारकाणां च ग्रहणं भगवता 'प्रतिक्रुष्टं' प्रतिषिद्धम्, अतो वसतिमवभाषितुंगणधरो गच्छति । संस्तारकांश्च तासांप्रायोग्यानुत्पाद्य तान् प्रदातुंगणधरस्तत्र व्रजेत् ।। अथोपधिद्वारमाह[भा.३७२५] पडियं पम्हुटुं वा, पलावियं अवहियं व उग्गमियं ।
उवहिं भाएतुंजे, दाएउं वा वि वोज्जा ॥ वृ-भिक्षादौ पर्यटन्तीनांतासामुपधिपतितः, स्वाध्यायभूमौ वागतानां “पम्हुटुं" ति विस्मृतः, उदकेन वा प्लावितः, स्तेनैर्वाऽपहृतः, स च भूयोऽपि साधुभिर्लब्धः; अपूर्वो वा उपधिस्तैः 'उद्गमितः' उत्पादितः, अतस्तमुपिधं भाजयितुं वा दातुं वा गणधरो व्रजेत् । तत्र पतितविस्मृतादेरुपकरणस्य यद् यस्याः सत्कं तस्य एव यद् विभज्य समर्पणं तद् भाजनमुच्यते, यत् पुनरपूर्व उपधिरुत्पाद्य तासां दीयते तद् दानम् । अथवा भाजनं प्रवर्त्तिन्या अभावे शेषसंयतीनां विभज्य समर्पणम्, यत्तु प्रवर्त्तिन्या हस्ते समर्प्यते तद् दानम् ॥ अथ सङ्घप्राधुणद्वारमाह[भा.३७२६] ओहाणाभिमुहीणं, थिरकरणं काउ अज्जियाणं तु।
गच्छेज्जा पाहुणओ, संघ-कुलथेर-गणथेरो॥ वृ-अवधावनाभिमुखीनां परीषहपराजितानामार्यिकाणां स्थिरीकरणं कर्तुप्राधुणको गच्छेत्। कः पुनः प्राधुणकः ? इत्याह-सङ्घस्थविरः कुलस्थविरो गणस्थविरो वा, उपलक्षणमिदम्, तेनान्योऽपि यः स्थिरीकरणलब्धिसम्पन्नः स गच्छति । अथ शैक्षद्वारमाह[भा.३७२७] अन्नत्य अप्पसत्था, होज्ज पसत्था य अज्जिगोवसए।
एएण कारणेणं, गच्छेज्ज उवट्ठवेउं जे॥ कृअन्यत्र विधीयमाना उपस्थापना क्षारा-ऽङ्गार-कचवराधप्रशस्तद्रव्ययुक्तत्वादप्रशस्ता भवेत्, आर्यिकोपाश्रयेतु प्रशस्ता, एतेन कारणेन शैक्षमुपस्थापयितुं “जे" इति पादपूरणे आर्यिकावसतिं गच्छेत् ॥ स्थापनाद्वारमाह[भा.३७२८] ठवणकुलाइ ठवेडं, तासिं ठवियाणिवा निवेएउं ।
परिहरिउं ठवियाणिं, ठवणाऽऽदियणं व वोत्तुं जे ॥ वृ-दानश्राद्धादीनि स्थापनाकुलानितासांसमक्ष स्थापयितुम्, यद्वा तानि स्ववसतौ स्थापितानि परं तासां 'निवेदयितुम्' 'अमुकममुकं च कुलं स्थापितम्' इत्येवं ज्ञापयितुम्, इदानी वा तानि कुलानि स्थापितानी ततः ‘परिहर्तु' 'न निर्वेष्टव्यानि' इत्येवं निवारायितुम्, येषु जन्मसूतकमृतसूतकादियुक्तेषु कुलेषु पूर्वमित्वरस्थापना कृता तेषु विवक्षितावधिपरिपूर्तयनन्तरं भूयोऽपि 'आदानं' ग्रहणं कुरुतेत्यनुज्ञावचनं वक्तुंगन्तव्यम् ।। अथोद्देशा-ऽनुज्ञाद्वारद्वयमाह[भा.३७२९] वसहीए असज्झाए, गोरव भय सद्ध मंगले चेव ।
उद्देसादी काउं, वादेउं वा वि गच्छेज्जा ॥ वृ-वसतावस्वाध्यायिके जाते संयतीवसतिमुद्देशमनुज्ञां वा कर्तुं गच्छेत् । अथवा यद्याचार्य स्वयं तासामुद्देशादिकं करोति ततस्ता आचार्यविषयं यद् गौरवं यच्च तदीयं भयं ताभ्यां शीधं तदङ्ग-श्रुतस्कन्धादिकमधीयते, आचार्येण वस्वयमुद्दिष्टे तासां महती श्रद्धोपजायते, प्रशस्तद्रव्यादिगुणक्तत्वाच्च तत्रोद्देशादौ विधीयमाने भङ्गलं भवेत् एतैः कारणैरुद्देशादिकं कर्तुं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org