________________
उद्देशक : ३, मूलं - ८१, [भा. ३७२९]
३५७
तत्र गच्छेत् । प्रवर्त्तिन्यां वा कालगतायामन्या काचित् तासां वाचनादात्री न विद्यते ततो गणधरो वाचयितुं गच्छेत् । भण्डनद्वारमाह
[भा. ३७३०]
अप्पन्ने अहिगरणे, विओसवेउं तहिं पसत्थं तु । अच्छेति खउरियाओ, संजमसारं ठवेउं जे ॥
वृ- संयतीवसतौ गणधरस्यान्यस्य वा तथा विधोपशमनालब्धिसम्पन्नस्य गमनं प्रशस्तं भवति॥
गणधरद्वारमाह
[भा. ३७३१] जइ कालगया गणिणी, नत्थि उ अन्ना उ गणहरसमत्था । एतेन कारणेणं, गणचिंताए वि गच्छेज्जा ।।
वृ- यदि 'गणिनी' प्रवर्त्तिनी कालगता, नास्ति चान्या संयती गणभरोद्वहनसमर्था, अत एतेन कारणेन गणचिन्ताकरणार्थमपि गच्छेत् ॥ अथानात्मवशाद्वारमाह
[भा. ३७३२] अजं जक्खाइडं, (व) खित्तचित्तं व दित्तचित्तं वा । उम्मायं पत्तं वा, काउं गच्छेज अप्पज्झं ॥
-
वृ- यक्षेण आविष्टा - गृहीता यक्षाविष्टा । अपमाननया क्षिप्तं नष्टं चितं यस्याः सा क्षिप्तचिता । या तु हर्षातिरेकेणापहृतचित्ता सा दीप्तचिता भण्यते । या तु मोहनीयकर्मोदयेन चित्तशुन्यतामुपगता सा उन्मादप्राप्ता । ईद्दशामार्यां विज्ञायाचार्यो मन्त्रेण वा तन्त्रेण वा "अप्पज्झं" ति 'आत्मवशां' स्वस्थचित्तां कर्तुं संयतीवसतिं गच्छेत् ।। अग्निद्वारमाह
[भा. ३७३३] जइ अगनिना उ वसही, दड्ढा डज्झइ व डज्झिहिति व त्ति । नाऊण व सोऊण व, उवघेत्तुं जे व जाएजा ॥
वृ- यद्यग्निना संयतीवसतिर्दग्धा, दह्यते वा सम्प्रतिकाले, अथवा प्रत्यसन्नाग्निप्रदीपनदर्शनेन धक्ष्यते इति ज्ञात्वा वा स्वयं 'श्रुत्वा वा' परमुखेनाकर्ण्य तां वसतिम् 'उपग्रहीतुं' संस्थापयितुं निर्वापयितुं वा "जे" इति पादपूरणे संयतीवसतिं 'यायात्' गच्छेत् ।। अथाप्कायद्वारमाह[भा. ३७३४] नइपूरेण व वसही, वुज्झइ वूढा व वुज्झिहिति व त्ति । उदगभरियं व सोच्चा, उवधेत्तुं तं तुवच्चेज्जा
वृ- नदीपूरेण प्रसरता वसति साम्प्रतम् 'उह्यते' नीयते, 'व्यूढा वा' नीता, 'वक्ष्यते वा' नेष्यते, उदकेन वा वसतिर्धृता, एवं श्रुत्वा 'तां' वसतिम् 'उपग्रहीतुम्' उल्लिञ्चनादिकं कर्तुं व्रजेत् ॥
विचारद्वारमाह
[मा. ३७३५] घोडेहि व धुत्तेहि व, अहवा वि जतीवियारभूमीए । जयणाए व करेडं, संठवणाए व वच्चेज्जा ।।
वृ- घोडा :- चट्टाः धूर्ता द्यूतकारादयः, तैर्वसत्याः पुरोहडे गच्छन्त्यस्ता उपसर्ग्यन्ते ततस्तेषां सानुनयनिवारणार्थं गच्छेत् । अथवा यतीनां विचारभूमौ ताः समागच्छन्ति तन्निवारणार्थं गच्छति । अथवा यतनया तासां कायिकाभूमिं विचारभूमिं वा कर्त्तुं पूर्वकृताया वा संस्थापनानिमित्तं व्रजेत् ।।
पुत्रद्वारमाह
[भा. ३७३६ ] पुत्तो वा भाया वा, भगिनी वा होज्ज तान कालगया । अज्जाए दुक्खियाए, अनुसठ्ठीए वि गच्छेज्जा ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org