________________
३५२
बृहत्कल्प-छेदसूत्रम् -२-३/८१
सप उच्यत
स पालिरित्युच्यते ॥ तस्य भेदः कथं भवति? इत्याह[भा.३७०५] संजमअभिमुहस्स वि, विसुद्धपरिणामभावजुत्तस्स ।
विकहादिसमुप्पन्नो, तस्स उ भेदो मुणेयव्वो॥ वृ-संयमाभिमुखस्यापि तस्य विशुद्धिपरिणामभावयुक्तस्य पालिस्थानीयस्यानतिक्रमस्य यः 'विकथादिसमुत्पन्नः' मिथःकथादिकरणसमद्भूतः ‘भेदः' विनाशः स इह पालीभेदो ज्ञातव्यः । स चाऽऽत्म-परोभयसमुस्थो भवेत् ॥ [भा.३७०६] अहवा पालयतीति, उवस्सयं तेन होति सा पाली।
तीसे जायति भेदो, अप्पाण-परोभयसमुत्थो॥ वृ-अथवा या तत्रोपाश्रयं पालयति सा “सत्यभामा भामा" इति न्यायत् पाली भण्यते । तस्या एकाकिन्यास्तं संयतं दृष्ट्वा आत्मसमुत्थः परसमुत्थ उभयसमुत्थो वा भेदो जायते॥
कथम् ? इति चेद् उच्यते[भा.३७०७] मोहतिगिच्छा खमणं, करेमि अहमवि य बोहि पुच्छा य ।
· मरणं वा अचियत्ता, अहमवि एमेव संबंधो॥ वृ-स संयतस्तं संयतीप्रतिश्रयं गतो यावदेका वसतिपालिका तिष्ठति, ततस्तेन सा पृष्टाआर्ये ! किमिति भवति भिक्षांनावतीर्णा ? । सा प्रतिब्रूते-मोहचिकित्सार्थम् । तयाऽपि स संयत एवमेव पृष्टो ब्रवीति- अहमपि मोहचिकित्सा) क्षपणं करोमि । ततस्तेन पृच्छा कृता-आर्ये ! भवत्या कथं बोधिरासादिता ? । सा प्राह-मरणं मदीयमतुरजनिष्ट, तस्य वा अहम् 'अप्रीतिका' द्वेष्या पूर्वमभुवं अतः प्रव्रजिता । ततस्तया सोऽप्येमेव पृष्टः प्राह-अहमपि ‘एवमेव' अभीष्टकलत्रवियोगादिना प्राव्राजियम् । एवं भिन्नकथासद्भावकथनैर्भावसम्बन्धो भवति ।
इदभेव स्फुटतरमाह[भा.३७०८] ओमानस्स व दोसा, तस्स व गमनेन सग्गलोगस्स।
महतरियपभावेण य, लद्धा मे संजमे बोही॥ वृ-अपमानं नाम-ससापल्यतायां यद्भर्तामाम् अवमतया पश्यति स्म तस्य दोषादहं प्रवव्राज। अथवा मदीयो भर्तामय्येकान्तानुरक्तआसीत्, अतस्तस्य खर्गलोकस्य गमनेन तथा महत्तरिकया यद् ममानवरतं धर्माख्यानकानि कथितानि तत्पभावेण च लब्धा मया संयमे बोधि, संयम प्रतिपन्नवतीत्यर्थः । यद्वा[भा.३७०९] पदूभिता मि घरासे, तेन हतासेन तो ठिता धम्भे ।
सिटुं दाइ रहस्सं, न कहिजइ जं अनत्तस्स ।। वृ-'प्रदुमिता' प्रकर्षेण क्लेशिताऽस्मि अहं “घरासे" गृहवासे, प्राकृतत्वाद् वाशब्दलोपः, तेन ‘हताशेन' कुपतिना, ततः स्थिताऽहमेवंविधे धर्मे । इदं च रहस्यमिदानीं मया भवतां 'शिष्टं' कथितम्, यद् ‘अनाप्तस्य' भवद्व्यतिरिक्तस्य कस्यापि पुरतो न कथ्यते॥ [भा.३७१०] रिक्खस्स वा वि दोसा, अलक्खणो सो अभागधिज्जो नु ।
नय निग्गुणा मि अजो ! तुमे वि य नाहिह विसेसं ॥ वृ-मम पाणिग्रहणदिवसे यद् ऋक्ष-नक्षत्रं तस्य वा कोऽपि दोष आसीत्, तेन स ताशो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org