________________
उद्देशकः २, मूलं-५२, [भा.३३१७]
२७३ । कानिचित्तु सूत्राणि साधूनां साध्वीनां च प्रत्येकविषयाणि । यथेहैव कल्पाध्ययने सलोमसूत्रं निर्लोमसूत्रं वा । तद्यथा-"नो कप्पइ निग्गंथाणं अलोमाइं चम्माइंधारित्तए । कप्पइ निग्गंथाणं सलोमाइंचम्माइंधारित्तए । नो कप्पइ निग्गंथीणं सलोमाइंचम्माइंधारित्तए । कप्पइ निग्गंथीणं अलोमाइंचम्माइंधारित्तए।कानिचित्तु सामान्यसूत्राणि भवन्ति, यथा अकृत्स्नाजिनविषयं सूत्रम्। तच्चेदम्-“कप्पइनिग्गंथाण वा निग्गंथीणवाअकसिणाइंचम्माइंधारित्तए"।अथ "अनानुपूर्व्यपि व्याख्याङ्गम्" इति न्यायोपदर्शनार्थं प्रागुक्तसूत्रषट्कमध्यात् चतुर्थभेदमुदाहरति-"विहिभिन्नस्स य" इत्यादि । इहैव ग्रन्थे यद् विधिभिन्नस्य ग्रहणमुक्तं तदपवादौत्सर्गिकं सूत्रम् । तच्चैदम्-“कप्पइ निग्गंथीणं पक्वे तालपलंबे भिन्ने पडिगाहित्तए, से विय विहिभिन्ने नो चेव नं अविहिभिन्ने"। आह यद्यपवादेनानुज्ञातं तर्हि भूयः कथं प्रतिषिध्यते ? इत्याह[भा.३३१८] उस्सग्गठिई सुद्धं, जम्हा दव्वं विवज्जयं लभति ।
नयतं होइ विरुद्धं, एमेव इमं पि पासामो । वृ-'उत्सर्गस्थितौ' उत्सर्गपदे 'शुद्धम्'उद्गमादिदोषरहितं यत् भक्त-पानादिद्रव्यं ग्रहीतुंकल्पते तदेवापवादपदे यस्माद् ‘विपर्ययं' वैपरीत्यं लभते, अशुद्धमप्युपादातुं कल्पते इत्यर्थः । 'न च' नैव तत् तथा गृह्यमाणं विरुद्धं भवति, ज्ञानादिगुणोपकारकत्वादविरुद्धमेवेति भावः । एवमेव 'अमुमपि प्रकृतमर्थं "कल्पते निर्ग्रन्थीनां पक्वं तालप्रलम्बं भिन्न प्रतिग्रहीतुम्" इत्यपवादेनानुज्ञातस्याप्यविधिभिन्नप्रतिषेधरूपमविरुद्धमेव पश्यामः ।। अथोत्सर्गसूत्रादीनामुदाहरणान्याह[भा.३३१९] उस्सग्ग गोयरम्मी, निसेज्ज कप्पाऽववादतो तिण्हं।
मंसं दल मा अट्ठी, अववादुस्सग्गियं सुत्तं ॥ वृ-उत्सर्गसूत्रं गोचरंपर्यटतः साधोर्गृहद्वयापान्तराले या 'निषद्या' निषदनं तद्विषयम् । तच्चेदम्"नो कप्पइ निग्गंधाण वा निग्गंथीण वा अंतरगिहंसि आसइत्तए वा जाव काउस्सग्गंवा ठाणं वाठाइत्तएत्ति।" यत्तु 'त्रयाणां जराभिभूतादीनां निषद्या कल्पते इत्येवंलक्षणं सूत्रंतदापवादिकम्। तन्त्रेदम्- “अह पुन एवं जाणिज्जा जराजुने १ वाहिए २ तवस्सी ३ मुच्छिन्न वा पवडिज्ज वा एवण्ठं कप्पइअंतरगिहंसि आसइत्तए।" इदं पुनरपवादौत्सर्गिकम्-“मंसंदलमा अहि"त्ति पुद्गलं प्रयच्छ मा अस्थीनीति॥ [भा.३३२०] नो कप्पति व अभिन्नं, अववातेनं तु कप्पती भिन्नं ।
कप्पति पक्कं भिन्नं, विधीय अववायउस्सग्गं । “नो कल्पतेऽभिन्नमामप्रलम्बप्रतिग्रहीतुम्" एतद्वा उत्सर्गसूत्रम्।यत्पुनः 'अपवादपदेन' अध्वा-ऽवमौदर्यादिषु भिन्नं प्रतिग्रहीतुंकल्पते इत्येवंरूपं तदापवादिकम् । यत् पुनः “निर्ग्रन्थीनां कल्पते पक्वंप्रलम्बं विधिभिन्नं नाविधिभिन्नम्" इति सूत्रंतदपवादौत्सर्गिकम् । एतत्प्रागुक्तमपि स्पष्टीकरणार्थमिहाभिहितम् । इदं त्वौत्सर्गापवादिकम्-“नो कप्पइ० राओवा वियाले वा सेजासंथारयंपडिगाहित्तए । नऽन्नत्थ एगेणंपुव्वपडिलेहिएणंसिज्जा-संथारएणं । इदंपुनरुत्सर्गौत्सर्गिकम्"नो कप्पइ० असणं वा एक पढमाए पोरिसीए पडिगाहित्ता पच्छिमं पोरिसिं उवाइणावेत्तए । से यआहच्च उवाइणाविएसिया, जोतंभुंजइ जंतंवा साइजइसे आवजइचाउम्मासियंपरिहारट्ठाणं [19/181
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org