SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११८ बृहत्कल्प-छेदसूत्रम् -२-१/३० नाम'प्रबलजराजर्जरितदेहतया यः खट्वाया उत्थातुं न शक्नोति, अत एवासौ 'अजङ्गमः' गमनक्रियासामर्थ्यविकलः,खट्वायाअपिचान्येन परिचारकादिनोत्थाप्यतेअन्येनचासौ भोज्यते' भोजनं कार्यते एष पूपलिकाखादकः ।। अस्यैव व्युत्पत्तिमाह[भा.२६२४] पूवलियं खायंतो, चब्बच्चबसद्द सो परं कुणइ । एरिसओवा सद्दो, जारिसओ पूवभक्खिस्स ।। वृ-पूपलिकां खादन्' भक्षयन्दन्तानामभावाद्यस्मादसौ परं केवलंचब्बच्चबाशब्दंकरोति तेन पूपलिकाखादकः । याशो वा पूपभक्षिणः शब्दो भवति ईशो यस्य भाषमाणस्य शब्दः स पूपलिकाखादकः॥ [भा.२६२५] सोविय कुटुंतरितो, खाहुत्थूभाउ कुणइ जत्तेणं । परिदेवइ किच्छाहि य, अवितकंतो विगंयभावो।। वृ- 'सोऽपि च' पूपलिकाखादकः स्थविरः संयतीप्रतिश्रयस्य कुड्यान्तरितो वर्तमानः "खाहुटूभाउ"त्ति काशित-निष्ठीवनेते द्वे अपि 'यलेन कष्टेन करोति, कृच्छ्राच्चासौ परिदेवते' करणतीति भावः, ‘अवितर्कमानः' वितर्कमकुर्वन् “विगतभावः' निरभिसन्धिह्रदयः सुप्त-मत्तमूर्छितादिरिवाव्यक्तचेतनाक इत्यर्थः, ईदशेन पूपलिकाखादकशब्देन प्रतिबद्धे निर्ग्रन्थीभिः प्रथमस्थातव्यम्।तदभावेतस्यैवस्थानप्रतिबद्धे, ततो रूपप्रतिबद्धे ततः प्रश्रवणप्रतिबद्धेऽपि।। आह किमत्र पूपलिकाखादकप्रतिबद्ध रागोद्भवो न भवति? उच्यते[भा.२६२६] अवि होज्ज विरागकरो, सद्दो रूवं च तस्स तदवत्थं । ठाणंचकुच्छमिजं, किंपुन रागोमवो तम्मि॥ वृ- 'अपि' इत्यभ्युच्चये, 'तस्य' पूपलिकाखादकस्य स्थविरस्य सम्बन्धी यः काशितपरिदेवनादिकःशब्दः, यच्च 'तदवस्थं तस्यामवस्थायां वर्तमानंवली-पलित-खलत्यादिकंरूपम्, यच्च तस्य विण्मूत्र-श्लेष्माघशुचिपङ्किलं 'कुत्सनीयं' जुगुप्सास्पदं स्थानं तानि प्रत्युत स्त्रीणां विरागकराण्येव, कुतःपुनस्तत्र रागोद्भवोभविष्यति? |अथ पूपलिकाखादकप्रतिबद्धंनावाप्यते ततोयथा निर्ग्रन्थानां कटकचिलिमिलिकादिका यतना भणिता तथा निर्ग्रन्थीनामपि द्रष्टव्या ॥ अत्र परः प्राहभ. (२६२७] एयारिसम्मिरूवे, सद्दे वा संजईणजइऽणुन्ना। समणाण किंनिमित्तं, पडिसेहो एरिसे भणिओ। वृ-यदि 'एताशे' पूपलिकाखादकसम्बन्धिनि रूपे शब्दे वा संयतीनामनुज्ञा क्रियते तर्हि श्रमणानां किंनिमित्तम् 'ईशे' स्थविरसत्रीसंश्रिते रूपादिप्रतिबद्धे प्रतिषेधो भणितः? तेषामपि तत्र वस्तुंयुक्तमिति भावः ।। सूरिराह[भा.२६२८] मोहोदएणइ ता, जीवविउत्तेवि इथिदेहम्मि । दिट्ठा दोसपवित्ती, किं पुन सजिए भवे देहे ।। वृ-यदि तावद्मोहोदयेनजीववियुक्तेऽपिस्त्रीदेहे पुरुषाणांप्रतिसेवनादोषप्रवृत्तिष्टा तर्हि किंपुनः सजीवे देहे स्थविरायाः सम्बन्धिनि? तत्र सुतरांभविष्यतीति भावः, अतस्तेषां तत्रापि प्रतिषेधः कृतः ।निर्ग्रन्थीनांतु पूपलिकाखादकप्रतिबद्धेस्वल्पएवदोषःअनिश्रितानांतुमहानिति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy