________________
उद्देशकः १, मूलं-३१, [भा. २६२८]
११९
तासांतत्र वस्तुमनुज्ञायते॥
मू. (३२) नो कप्पइ निग्गंथाणं गाहावइकुलस्स मझमझेणं गंतुं वत्थए। [मा.२६२९] जह चेव य पडिबंधो, निवारिओ सुविहियाण गिहिएसु।
तेसिं चिय मज्झेणं, गंतूणन कप्पए जोगो।। वृ-यथैव पूर्वसूत्रे 'गृहिषु' गृहस्थविषयो द्रव्यतो भावतश्च प्रतिबन्धः “सुविहितानां साधूनां निवारितस्तथैवात्रापि 'तेषामेव' गृहिणां मध्येन गत्वा यत्र निर्गम-प्रवेशौ क्रियेते तत्र वस्तुंन कल्पत इतिनिवार्यते। एषः 'योगः' सम्बन्धः॥अनेन सम्बन्धेनायातस्यास्यव्याख्या-नो कल्पते निर्ग्रन्थानां गृहपतिकुलस्य मध्यम्मध्येन गत्वा यत्र निर्गम-प्रवेशौ क्रियेते तत्रोपाश्रये वस्तुम् । उपलक्षणमिदम्तेन गृहस्थायत्रसंयतोपाश्रयस्य मध्यम्मध्येन निर्गच्छन्तिवाप्रविशन्तिवातत्रापि न कल्पते वस्तुमिति सूत्रार्थः ॥अथ विस्तरार्थ भाष्यकृत् प्रतिपादयति[भा.२६३०] मज्झेण तेसि गंतुं, गिही वगच्छंति तेसि मज्झेणं।
पविसंत नित दोसा, तहियं वसहीए भयणा उ॥ वृ-'तेषाम्' अगारिणांमध्येन गत्वा यत्रप्रविश्यते निर्गम्यते वा, गृहिणोवा 'तेषां संयतानां मध्येन यत्र गच्छन्ति तत्र न कल्पतेवस्तुम् । कुतः ? इत्याह-तत्र ताशे उपाश्रये संयतानां गृहिणांवा प्रविशतां निर्गच्छतांच दोषा भवन्ति,ते चोपरिष्टादभिधास्यन्ते।तथावसर्ति प्रविष्ानां संयतानां वसतिविषयाः पूर्वोक्ता दोषास्तत्र भवेयुर्वा न वेत्येवं भजना कार्या-यदि प्रतिबद्धा वसतिस्तदा प्रतिबद्धशय्यासूत्रोक्ता दोषा भवन्ति, अथ न प्रतिबद्धा ततस्तेन भवन्ति ।।
अथ मध्यपदं व्याख्याति[भा.२६३१] सब्मावमसमावं, मज्झमसब्भावतो उपासेणं।
निव्वाहिमनिव्वाहिं, ओकमइंतेसु सब्मावं। वृ-मध्यं द्विधा-सद्भावमध्यमसद्भावमध्यं च । तत्र सद्भावमध्यं नाम-यत्र गृहपतिगृहस्य पार्वेनगम्यतेआगम्यतेवा छिण्डिकयेत्यर्थः, “ओकमइंतेसु"तिगृहस्थानाम्ओकः-गृहं संयताः संयतानांचगृहस्थामध्येनयत्र 'अतियन्त प्रविशन्तिउपलक्षणत्वानिर्गच्छन्तिवातदेतदुभयमपि सद्भावतः-परमार्थतो मध्यं सद्भावमध्यम् । तच्च प्रत्येकं द्विधा-निर्वाहि । यत्र पुनस्तयोरेकमेव फलिहकं तदनिर्वाहि ।। अस्य चतुर्विधस्यापि त्रयःप्रकारा भवन्ति, तद्यथा[भा.२६३२] साला यमज्झ छिंडी, निग्गंथाणं न कप्पए वासो।
चउरोय अनुग्घाया, तत्थ विआणाइणो दोसा॥ वृ-शाला १ मध्यं २ छिण्डिका ३ चेति त्रयो भेदाः । एतेषु त्रिष्वपि निर्ग्रन्थानां न कल्पते वासः ।अथवसन्ति ततश्चत्वारोऽनुद्धातामासा भवन्ति।तत्राप्याज्ञादयोदोषाः। तत्रशालापदं व्याचिख्यासुः प्रथमतोद्वारगाथामाह[भा.२६३३] सालाए पच्चवाया, वेउब्वियऽवाउडे यअदाए।
कप्पट्ठ भत्त पुढवी, उदगऽगनी बीय अवहन्ने। कृ-शालायांतिष्ठतां प्रत्यपायाः' दोषावक्तव्याः।तथावैक्रियेऽपावृतेचाङ्गादाने उड्डञ्चकादयो दोषाः । “अदाए"ति साधुमपावृतं दृष्ट्वा गृहस्था आदर्शो दृष्ट इत्यमङ्गलं मन्यन्ते । कल्पस्थानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org