________________
उद्देशकः३, मूलं-८७, [भा. ३९०४]
३८९ अतिनिबंधेणंएगंगहियं । राया भणइ-पाउया हट्टमग्गेणं गच्छह ।तहा कयं । तेनगेन दिट्ठा । तेहिं वसहिं आगंतुं निसिज्जाओ कयाओ। सो तेनओ रत्तिं आगंतुंआयरियाणं उवरिं छुरियं कड्डिऊण भणइ-देहि मे तं वत्थं, अन्नहा मारिस्सामि । ते भणंति-इमाणि खंडाणि अस्थि । सो भणाइसिव्वित्ता मे देह, अन्नहा ते उद्दविस्सामि । तेहिं सिव्वित्ता दिन्नं ॥ ___ अथ गाथाद्वयस्याक्षरार्थः-केनचिदाचार्येणोपशामितो नरेन्द्रः कम्बलरत्नैर्गच्छं 'छन्दयति' निमन्त्रयते । तत आचार्यो महति निर्बन्धे एकस्य कम्बलरलस्य ग्रहणं कृत्वा नृपवचनात् तेन प्रावृतोनिर्गच्छति।ततःस्तेनेन 'आलोकः' अवलोकनं कृतम्।आचार्यश्च वसतिमागम्यकम्बलरलेन निषद्याः कृताः । रात्रौ स्तेनस्यागमः । गुरोश्च तेन छुरिकामाकृष्य ग्रहणं कृत्वा भणितम्-प्रयच्छत ममतत् कम्बलरत्नम्।सूरिभिरुक्तम्-खण्डितंतदस्माभि ।सपाह-दर्शयत । ततस्तत्र 'अप्रत्ययति' प्रत्ययमकुर्वाणे खण्डानां दर्शनम् । रोषाच्च तेन भूयः सीवनं कारयित्वा कम्बलरलं गृहीतम् । यथ एवमादयः कृत्स्ने दोषाः अतोद्रव्यतः स्थूरमदशाकंयथोक्तप्रमाणोपेतं क्षेत्रतःकालतश्चसर्वजनभोग्यं भावतो वर्णहीनमल्पमूल्यं च वस्त्र ग्रहीतव्यम् ।। अथ द्वितीयपदं बिभावयिषुः सङ्ग्रहगाथोक्तं देशीपदं व्याख्यानयति[भा.३९०५] न पारदोच्चा गरिहा व लोए, थूणाइएसुं विहरिज एवं ।
भोगाऽइरित्ताऽऽरभडा विभूसा, कप्पेज्जमिन्नेव दसाउ तत्थ ।। वृ-“पारदोच्च" त्ति चौरभयं तद् यत्र नास्ति, यत्र च तथाविधे वस्त्र प्राव्रियमाणे लोके गर्दा नोपजायते तत्र स्थूणादिविषयेषु एवं सकलकृत्स्नमपि वस्त्र प्रावृत्य विहरेत्, परंतस्य दशाश्छेत्तव्याः । कुतः ? इत्याह-“भोग"त्ति तासां दशानां शुषिरतया परिभोगः कर्तुंन कल्पते, अतिरिक्तश्चोपधिर्भवति, प्रत्युपेक्ष्यमाणे च दशिकाभिरारभडादोषाः, विभूषा च सदशाके वस्त्र प्राब्रियमाणे भवति । 'इत्येवम्' एभि कारणैस्तत्र दशाः 'कल्पयेत्' छिन्द्यात् ॥
कारणतो न छिन्द्यादपीति दर्शयति[भा.३९०६] पासगंतेसुबद्धेसु, दढं होहिति तेन तु ।
नातिदिग्घदसंवा वि, नतं छिंदिज देसिओ॥ वृ- किश्चिद् वस्त्र प्रथमत एव दुर्बलम् ततः पावा-ऽन्तेषु दशिकाभिर्बद्धेषु दृढं' चिरकालवहनक्षम भविष्यतीति कृत्वा तेन कारणेन दशिकास्तस्य न कल्पयेत् । यद्वा ‘देशीतः' सिन्ध्वादिदेशमाश्रित्य यन्नातिदीर्घदशाकं वस्त्र तन्न छिन्द्यात्, तस्य दशिका न कल्पयितव्या इति भावः ।। अथ ग्लानद्वारं व्याचष्टे[भा.३९०७] असंफुरगिलाणट्ठा, तेन मानाधियं सिया।
सदसं वेज्जकज्जे वा, विसकुंभट्ठयाति वा ॥ वृ-असंस्फरोनाम-ग्लानो यः क्षीणबलतया सङ्कुचितपादः स्वप्तुंन शक्नोति, तस्य प्रमाणयुक्तं वस्त्र प्राव्रियमाणं ह्रसति, तेन तदर्थं 'मानाधिकमपि' प्रमाणातिरिक्तमपि वस्त्र स्यात् । यद्वा ग्लानचिकित्सको यो वैद्यः 'तत्कार्ये' तस्य दानार्थम्,अथवा दीर्धजातीयेन कश्चिद् दष्टो भयेत् ततस्तस्य विद्याकार्ये' विद्यायांप्रयुज्यमानायामपमार्जनाय सदशं वस्त्रमुपयुज्यते । विषकुम्भःस्फोटिकाविशेषस्तस्यापमार्जनाय वा सदशं वस्त्र ग्रहीतव्यम् ॥अथ यावदवग्रहद्वारमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org