________________
उद्देश : १, मूलं - १०, [भा. २१६१ ]
निर्वापयितुं शक्यते, एवं यद्यपि ज्ञानव्यापारादिकं जलघटकल्पं स्वाधीनं तथापि मोहोदयाग्निना प्रज्वलितं चारित्रगृहं किं न प्दीप्यते ?, अतिप्रबलो वा मोहो यद्युदीयेत ततो घटजलकल्पेन बहुनाऽपि ज्ञानव्यापारादिना नाऽसौ विध्यापयितुं शक्य इति ॥ किञ्च
[भा. २१६२]
रीढासंपत्ती वि हु, न खमा संदेहियम्मि अत्थम्मि । नायक पुन अत्थे, जा वि विवत्ती स निद्दोसा ।।
वृ-संयतीक्षेत्रे गतानां मोहोदयनिरोधादिको यः सन्देहितः संशयासपदीभूतोऽर्थस्तस्मिन् रीढयायदृच्छया घुणाक्षरन्यायेन सम्पत्तिरपि 'न क्षमा' न श्रेयसी । यः पुनः साध्वीरहितक्षेत्रगमनादिकोऽर्थः पूर्वं ज्ञातः-निर्दोषत्वेन निर्णीतस्ततः कृतः कर्त्तुमारब्धः ज्ञातकृतस्तस्मिन् याऽपि कुतोऽपि वैगुण्यतो विपत्तिर्भवति सा अपि निर्दोषा मन्तव्या ॥ अथ परः प्राह
[भा. २१६३]
दूरेण संजईओ, अस्संजइआहि उवहिमाहारो । इ मेलणाए दोसो, तम्हा रन्नम्मि वसियव्वं ॥
२५
वृ- संयत्यः 'दूरेण' पृथग्वसत्यादौ वसन्त्यः परिहर्तुं शक्यन्ते, यास्तु 'असंयत्यः' इविरतिकास्ताः परिहरतुमशक्याः, यतस्ताभ्य उपधिराहारश्च लभ्यते, अतो यदि 'मीलनायाः' संसर्गस्य दोषः संयतीक्षेत्रि तिष्ठतां भवति ततः साधुभिररण्ये गत्वा वस्तव्यम् ॥ सूरिराह
[भा. २१६४ ] रन्ने वि तिरिक्खीतो, परिन्न दोसा असंतती यावि । लब्भीय कूलवालो, गुणमगुणं किं व सगडाली ।।
वृ- अरण्येऽपि वसतां तैरश्चस्त्रियो हरिणीप्रभृतयो दोषानुपजनयन्ति । तथा 'परिज्ञा' भक्तप्रत्याख्यानं तद्दोषाश्च भवन्ति । तथाहि तत्राहाराद्यभावाद् भक्तप्रत्याख्यानं कर्त्तव्यम्, तच्च प्रथमत एव कर्तुं न युज्यते, विरतिसहितस्य जीवितस्य दुष्प्रापत्वात् न च तदानीं तत् कर्तुं शक्यते, कुर्वतामप्यार्त्तध्यानसम्भवात् कुदेवत्वगमन-प्रेत्यबोधिदुर्लभत्वादयो दोषाः । 'असन्ततिश्च' प्रव्राजनाद्यभावान्न शिष्य - प्रशिष्यादिसन्तान उपजायते, यद्वा- “ असंतईए "त्ति सर्वथैव स्त्रीणामसत्तायां वनवासमङ्गीकृत्य यत् किल ब्रह्मचर्यं धार्यते तन्न बहुफलं भवति, “थंभा कोहा अनाभोगा, अनापुच्छा असंतई ।" इतिवचनात् । न चात्रारण्यं जनाकुलं वा प्रमाणम्, यतः कूलवालकोsटव्यामपि वसन्ं कं गुणं लब्धवान् ? 'शाकटालि' स्थूलभद्रस्वामी स जनमध्ये गणिकाया गृहेऽपि तिष्ठन् कमगुणं लब्धवान् ? न कमपीति भावः । किञ्च -
[भा. २१६५ ] कस्सइ विवित्तवासे, विराधना दुन्नए अभेदो वा । हसगडालि मणो वा, तह बिइओ किं न रुंभिसु ॥
वृ- कस्यचिद् 'विविक्ते' स्त्री पशु पण्डकविरहितेऽपि वासे वसतः प्रबलवेदोदयाद् विराधना ब्रह्मचर्यस्य वति, कस्यापि पुनः 'दुर्नये' स्त्र्यादिसंसक्तप्रतिश्रयवासेऽपि वेदमोहनीयक्षयोपशमप्रबलत्वेन 'अभेदः' न ब्रह्मचर्यविलोपो भवति । वाशब्दः प्रकारान्तरद्योतनार्थः । आह यद्येवं तर्हि कर्मोदय-क्षय-क्षयोपशमादिरेव प्रमाणं न स्त्रीसंसर्गादि, नैवम्, कर्मणामुदय-क्षयक्षयोपशमादयोऽपि प्रायस्तथाविधद्रव्य-क्षेत्रादिसहकारिकारणसाचिव्यादेव तथा तथा समुपजायन्ते नान्यथा । यथा वा 'शाकटालि' स्थूलभद्रस्वानी खकीयं मनः एतसंसर्गेऽपि निरुद्धवान् तथा 'द्वितीयः' सिंहगुहावासी किं न निरुद्धधानयेन स्त्रीसंसर्गादिकमप्रमाणं गीयते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org