________________
४१६
[ भा. ४०२९] को गेहति गीयत्थो, असतीए पायकप्पिओ जो उ । उस्सग्ग- Saवाएहिं, कहिज्जती पायगहणं से |
बृहत्कल्प-छेदसूत्रम् -२-३/८८
वृ- कः संयतः पात्रं गृह्णाति ? सूरिराह - 'गीतार्थः ' परिज्ञातसकलच्छेदश्रुतार्थ पात्रकं गृह्णाति । अथ नास्ति गीतार्थस्ततो यः 'पात्रकल्पिकः' गृहीतपात्रैषणासूत्रार्थ स गृह्णाति । तस्याप्यभावे यो मेधावी तस्य पात्रग्रहणुत्सर्गतोऽपवादतश्च कथ्यते ततोऽसौ पात्रं गृह्णीयात् ॥
अथ पौरुषीद्वारमाह[भा. ४०३०]
हुंडादि एकबंधे, सुत्तत्थे करेंते मग्गणं कुज्जा । दुग-तिगबंधे सुत्तं, तिण्डुवरिं दो वि वज्रेज्जा ।।
वृ- यत् पात्रं हुण्डम्, आदिशब्दाद् दुष्पुतं कीलकसंस्थितं शबलं च यचैकबन्धम्, एतानि परिभुञ्जानः सूत्रा - ऽर्थपौरुष्यौ द्वे अपि कुर्वन् यथाकृतादेः पात्रस्य मार्गणां कुर्यात् । अथ द्विविधं त्रिविधं (द्विबन्धंत्रिबन्धं] वा पातरं परिभुज्यमानमस्ति ततः सूत्रपौरुषीं कृत्वाऽर्थपौरुषीं हापयित्वा मार्गयति । अथ त्रयाणां बन्धानामुपरि चतुःप्रभृतिस्थानेषु तत् पात्रं बद्धमस्ति ततः सूत्रार्थपौरुष्यौ द्वे अपि वर्जयेत्, सूर्योदयादारभ्यैवापरं पात्रकं मार्गयतीति ॥ अथ कालद्वारमाहचत्तारि अहाकडए, दो मासा होंति अप्पपरिम्मे ।
[ भा. ४०३१]
तेन पर मग्गियम्मि य, असति ग्गहणं सपरिकम्मे ॥
वृ-हुण्ड-शबलताद्यलक्षणयुक्तं पात्रं धारयता चतुरो मासान् यथाकृतं मार्गयितव्यम् । चतुर्षु मासेषु पूर्णेष्वपि यदा यथाकृतं न प्राप्यते तदा दौव मासावल्पपरिकर्मगवेषणे भवतः । ततः परं मार्गितेऽप्यत्पररिकर्मण्यप्राप्ते षण्मास्यां पूर्णायां सपरिकर्मणो ग्रहणं करोति ॥ तच कियन्तं कालं गवेषणीयम् ? इत्याह
[भा. ४०३२] पणयालीसं दिवसे, मग्गित्ता जा न लब्भए ततियं । तेन परेण न गिण्हइ, ना पक्खेणं न रज्जेज्जा ।।
वृ- पञ्चचत्वारिंशतं दिवसान् 'तृतीयं' बहुपरिकर्म मार्गयित्वा यदि न लभ्यते ततः किम् ? इत्याह- " तेन परेण "त्ति प्राकृतत्वात् पञ्चम्यर्थे तृतीया, ततः पञ्चचत्वारिंशतो दिवसेभ्यः परं बहुपरिकर्म न गृह्णाति । कुतः ? इति चेद् उच्यते यथाकृतगवेषणकालादारभ्य सार्थसप्तसु मासेषु गतेषु पञ्चदशभिर्दिवसैर्वर्षारात्रौ भवति, तेन च पक्षमात्रेण कालेन मा तत् पात्रकं 'न रज्येत' मा लिप्तं सत् प्रगुणीभवेत् । किंमुक्तं भवति ? - वर्षाकाले पात्रस्य परिकर्म कर्तुं न लभ्यते, बहुपरिकर्मणि च पात्रे छेदन-भेदनादि प्रभूतं परिकर्म विधेयम्, तच्च पक्षमात्रेण न कर्त्तुं पार्यते, अतः पञ्चचत्वारिंशद्दिवसेभ्यः परतो न ग्रहीतव्यमिति ।। गतं कालद्वारम्, अथाकरद्वारमाह[भा. ४०३३] कुत्तीय सिद्ध-निण्हग-पवंच-पडिमाउवासगाईस् ।
कुत्तियव बितियं, आगरमाईसु वा दो वि ॥
वृ-यथाकृतं पात्रकं कुत्रिकापणे मार्गयितव्यम् । सिद्धपुत्रकस्य वा निह्नवस्य वा प्रपञ्चश्रमणस्य वा एकादशी प्रतिमां पूरयित्वा वा श्रमणोपासको गृहं प्रत्यागतस्तदादेर्वा पार्श्वे यथाकृतं पात्रं प्राप्यते । 'कुत्रिकापणवर्जं' शेषेषु सिद्धपुत्रकादिषु 'द्वितीयम्' अल्पपरिकर्म प्राप्यते । अथवा आकरादिषु 'द्वे अपि' अल्पपरिकर्म-सपरिकर्मणी प्राप्येते ॥ तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org