________________
२८२
बृहत्कल्प-छेदसूत्रम् -२-२/५२ [भा.३३६२] निकारणम्मि दोसा, पडिबद्धे कारणम्मि निद्दोसा ।
ते चेव अजतणाए, पुनो वि सो लग्गती दोसे ॥ वृ-धान्यप्रतिबद्धे गृहे निष्कारणे तिष्ठतामेते दोषा मन्तव्याः । कारणे तु यतनया तिष्ठन्तो निर्दोषाः । अथ कारणे स्थितो यतनां न करोति तदा 'तानेव' पूर्वोक्तान् दोषान् ‘लगति' प्राप्नोति। किं पुनस्तत् कारणम् ? इत्याह[भा.३३६३] अद्धाणनिग्गतादी, तिक्खुत्तो मग्गिऊण असतीए ।
गीतत्था जतणाए, वसंति तो धन्नसालाए॥ अध्वनिर्गतादयः 'त्रिकृत्वः' त्रीन् वारान् विशुद्धां वसतिं मार्गयित्वा यदि न प्राप्नुवन्ति तदा गीतार्था यतनया धान्यशालायां वसन्ति ।। तामेव यतनामाह[भा.३३६४] तुस-धन्नाई जहियं, निप्परिसाड-परिसाडगाइं वा।
तेसु पढमं तु ठायति, तेसऽसती दंतखज्जेसु ॥ वृ-येषूपाश्रयेषु 'तुषधान्यानि' व्रीहि-यवादीनि निष्परिशाटीनि परिशाटीनि वा भवन्ति तेषु प्रथमतस्तिष्ठन्ति । तषामभावे यत्र ‘दन्तखाद्यानि' तिलादीनि धान्यानि तत्र तिष्ठन्ति ॥ तिष्ठतां च यदि वसतिस्वामी ब्रूयात्-यद्यस्माकम् अस्मद्वालकानां वा ज्योतिषादिकमक्षरादिविज्ञानं वा कथयिष्यथ गृहादिकं वा रक्षिष्यथ ततो वसतिं प्रयच्छाम इति । तत्र साधुभिर्वक्तव्यम्[भा.३३६५]न वि जोइसं न गणियं, न अक्खरे न वि य किंचि रक्खामो ।
___अप्पस्सगा असुणगा, भातणखंभोवमा वसिमो॥ वृ-वयं नापि ज्योतिषं न गणितं नाक्षराणि वा शिक्षयामो न वा जानीमः, नापि च किञ्चिद् गृहादिकं रक्षामः, किन्तु भाजनस्तम्भोपमा वसामः । यथा भवतांभाजन-स्तम्भ-कुड्यादीनि सौस्थ्यदौःस्थ्यव्यापारं न वहन्ति, एवं वयमपि भवद्भिर्मन्तव्याः । अत एव भवद्हे कस्यापि कार्यस्य विपत्तिं पश्यन्तोऽप्यपश्यकाः । यदा च कोऽपि ब्रूयात्-इदं शय्यातरस्य कथयत तदा वयं शृण्वन्तोऽप्यश्रोतारो मन्तव्याः । यदेयवमभ्युपगच्छति तदा स्थातव्यम् ।। अत एवाह[भा.३३६६] निकारणम्मि एवं, कारणे दुलभे भणंतिमं वसभा।
अम्हे ठितेल्लग च्चिय, अधापवत्तं वहह तुब्भे ॥ वृ-'निष्कारणे' कारणाभावे एवं तिष्ठन्ति । अथाशिवादौ कारणे शुद्धा वसतिर्दुर्लभा ततो धान्यशालायां तिष्ठन्त इत्थं साधारणवचनं वृषभा भणन्ति-वयं तावदत्र स्थिता एव, यूयमपि यथाप्रवृत्तं दिवसदैवसिकं व्यापार वहथैव ।। गता अनुज्ञापनायतना । अथ स्वपक्षयतनामाह[भा.३२६७] आमंति अब्भुवगते, भिक्ख-वियारादि निग्गत मिएसु ।
भणति गुरू सागारिय, नाउं जे कत्थ किं धन्नं ।। वृ-'आमम्' इत्यनुमतार्थद्योतकमव्ययम् । यदि सागारिकेणानुमतम्-मम निष्प्रत्युपकारिणो भूत्वा यूयं तिष्ठत; ततस्तत्र स्थातव्यम् । स्थितानांच तत्रायं विधि-यदा सर्वेऽपि मृगाः-अगीतार्था भिक्षायां विचारभूम्यादौ वा निर्गता भवन्ति तदा 'गुरु' आचार्य सागारिकमन्यव्यपदेशेन भणति। किमर्थम् ? इत्याह-कुत्र किं धान्यं वर्तते ? इति ज्ञातुम् । “जे'' इति पादपूरणे ।।
[भा.३३६८] सालीणं वीहीणं, तिल-कुलत्थाण मुग्ग-मासाणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org