________________
४८१
-
उद्देशक : ३, मूलं-९५, [भा. ४३५०]
अबलाओ पगइभयालुगाउ रक्खा अतो इत्थी। -'अन्यस्यापि' पुरुषादेः 'सन्देहम्' आपदं दृष्ट्वायाः स्त्रयः पवनसम्पर्कतोलताइव कम्पन्ते, याश्चाबलाः प्रकृत्या-स्वभावेनैवच "भयालुयाउ"त्तिभयबहुलाः,अतस्ताः स्त्रयः प्रथमंरक्षणीयाः॥
आह-साधु-साध्वीनां निस्तारणे किमेष एवाचार्य-प्रवर्त्तिन्यादिकःक्रमः? उतान्यथाऽप्यस्ति? उच्यते-अस्तीति ब्रूमः। तथा चाह[भा.४३५१] जं पुन संभावेमो, भाविणमहियममुकातो वत्यूओ।
तत्थुक्कम पि कुणिमो, छेओदइए वणियभूया ॥ - 'यं पुनः' क्षुल्लकादिकमपि 'अमुकाद्' आचायदिर्वस्तुनः सकाशात् प्रवचनप्रभावनादिभिर्गुणैः ‘अधिकं' सातिशयं 'भाविनं' भविष्यन्तं सम्भावयामः तत्र वयम् ‘उक्रममपि' यथोक्तक्रमोल्लकनमपि कुर्मह, क्षुल्लकादिकमपि प्रथमं तारयाम इत्यर्थः । कथम्भूताः ? इत्याहछेदश्च-व्यय औदयिकश्च-लाभःछेदौदयिकंतत्र वणिग्भूताः सन्तः । किमुक्तंभवति?-यथावणिग् यदेव प्रभूतलाभमल्पव्ययं वस्तु तस्य ग्रहणं करोति, एवं वयमपि यत्र विशिष्टपात्रभूते वस्तुनि गृहीतेप्रवचनप्रभावना-तीर्थाव्यवच्छेदादिको भूयान्लाभः समुज्जम्भते स्वल्पश्चेतरपरित्यागलक्षणो व्ययः तं क्षुल्लकादिकमपि गृह्णीम इति ॥
एवं तातदुदकविषयं ग्रहणमभिहितम्, अथाग्नि-स्तेनादिविषयं तदेवातिदिशन्नाह- . [भा.४३५२] अगनी सरीरतेने, ओमऽद्धाणे गिलाणमसिवे य ।
.. सावयभय राभए, जहेव आउम्मि गहणं तु॥ वृ-अग्निसम्भ्रमे शरीरस्तेनभये अवमे अध्वनि ग्लानत्वे अशिवे श्वापदभये राजभये च यथैवाप्काये ग्रहणमभिहितं तथैवैतेष्वपि सचित्त-मिश्रभेदाद् द्विविधमपि वक्तव्यम् ।।
अथाचित्तग्रहणमभिधित्सुराह[भा.४३५३] अचित्तस्स उ गहणं, अभिनवगहणंपुराणमहणंच।
उवठावणाए गहणं, तह य उवठ्ठाविए गहणं ।। वृ-अचित्त-वस्त्र-पात्रादिकमुपकरणं तस्य ग्रहणं द्विधा-अभिनवग्रहणं पुराणग्रहणं च । तत्राभिनवं-प्रथममेव यद् वस्त्रादेग्रहणंतदभिनवग्रहणम्, पुराणस्य-प्राग्गृहीतस्य चोलपट्टकादेः कूपरादिना ग्रहणं पुराणग्रहणम् । तच्च द्विधा-उपस्थापनायां ग्रहणम् उपस्थापिते ग्रहणं च । तत्रोपस्थापनायां विधीयमानायां हस्तिदन्तोन्नवकारहस्तादिभिर्यद् रजोहरणादि गृह्यते तद् उपस्थापनाग्रहणम् । उपस्थापितस्य-छेदपस्थापनीयचारित्रं प्रापितस्य यद् उपधेर्धारणं परिभोगो वा तद् उफस्थापितग्रहणम्॥
एनामेव गाथां व्याख्यानयति[भा.४३५४] ओहे उवग्गहम्मिय, अभिनवगहणंतु होइ अच्चित्ते।
_ इयरस्स वि होइ दुहा, गहणंतुपुराणउवहिस्स ।। दृ-अचित्तस्य वस्त्र-पात्रादेरभिनवग्रहणं द्विधा-ओघोपधिविषयम् औपग्रहिकोपधिविषयं च । 'इतरस्यापि' पुराणोपधेर्ग्रहणं द्विधा, उपस्थापनाग्रहणमुपस्थापितग्रहणं चेत्यर्थः ।। 1931
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org