________________
उद्देश : ३, मूलं - ८१, [भा. ३७७३ ]
३६५
वृ- शय्यातरीभिः 'प्रतिहारिते' आर्याया ज्ञापिते सति प्रवेशः कर्त्तव्यः । प्रविष्टेन च तस्यविवक्षितस्य ग्लानकार्यस्य पूर्वोक्तया वक्ष्यमाणया च यतनया समापना कर्त्तव्या । एवं ग्लानत्वे तत्र स्थानादीनि पदानि कुर्यात् । तथा ग्लानकृत्यान्युत्सर्गतोऽशुद्धं परिहरन् करोति । अथ शुद्धं न प्राप्यते ततः "उ"त्ति अनागाढे पञ्चकहान्या 'यतः ' यतमानः करोति, “खिष्पं "ति आगाढे क्षिप्रमेव करोति । अथवाऽऽत्म-परोभयसमुत्थदोषान् परिहरमाणो ग्लानकृत्यं करोति, कुतः ? इत्याह-‘“जतो खिप्पं’ति यत आत्मसमुत्थादिदोषान् अपरिहरतः क्षिप्रमेव संयमविराधना भवति ।। कीदृशः पुनस्तां प्रतिजागर्ति ? इत्युच्यते
[ भा. ३७७४] पियधम्मो दढधम्मो, मियवादी अप्पकोतुहल्लो य । अजं गिलाणियं खलु, पडिजग्गति एरिसो साहू |
वृ- प्रियः- इष्ट धर्मो यस्य स प्रियधर्मा । धर्मे यः दृढः - निश्चलो दृढधर्मा, राजदन्तादित्वाद् ढशब्दस्य पूर्वनिपातः । मितं परिमिताक्षरं वदितुं शीलमस्येति मितवादी । अल्पशब्दस्य इह अभाववचनत्वाद् अल्पम्-अविद्यमानं कौतूहलं स्त्रीरूपदर्शनादिषु यस्य सोऽल्पकौतूहलः । ईशः साधुरायां ग्लानां प्रतिजागर्त्तिः ॥
[भा. ३७७५ ] सो परिणामविहिन्नू, इंदियदारेहि संवरियदारो । जं किंचि दुब्भिगंधं, सयमेव विगिंचणं कुणति ॥
वृ- 'सः' वैयावृत्तयकरः 'वर्ण- गन्धादिभिः शुभा अपि भावा भूयोऽप्यशुभा भवन्ति, अशुभा अपि च संस्कारविशेषतो विश्वसया वा शुभा जायन्ते' इत्येवं पुद्गलानां परिणामविधिं जानातीति परिणामविधिज्ञः । तथा इन्द्रियद्वारेभ्यः संवृतद्वारः, इह "गम्य्यपः कर्माधारे" इत्यनेन पञ्चमी, ततोऽयमर्थ-इन्द्रियरूपाणि द्वाराण्यधिकृत्य संवृतद्वारः, न पुनर्बाह्यद्वाराणि । ईशः साधुर्यत् किञ्चिदायिकायाः संज्ञादिकं दुरभिगन्धं तस्य स्वयमेव 'विवेचनं' स्फेटनं परिष्ठापनं वा करोति ।।
संवृतद्वारपदस्य सफलीकरणार्थमाह
[भा. ३७७६ ] गुज्झंग- वदन- कक्खोरुअंतरे तह थणंतरे दङ्कं । साहरति ततो दिट्ठि, न य बंधति दिट्ठिए दिट्ठि ॥
वृ- गुह्याङ्गस्य वदनस्य कक्षाया ऊर्वोश्च यान्यन्तराणि - अवकाशास्तानि तथा स्तनान्तराणि च दृष्ट्वा 'संहरति' भास्करादिव ततो दृष्टिं निवर्त्तयति, 'न च' नैव आर्यिकाया दृष्टौ दृष्टिं 'बध्नाति ' मीलयतीत्यर्थः ॥ अथ 'यत् किञ्चिद् दुरभिगन्धम्' इत्यादि व्याचष्टे -
[भा. ३७७७]
उच्चारे पासवणे, खेले सिंघाणए विगिंचणया ।
उव्वत्तण परियत्तण, नंतग निल्लेवण सरीरे ॥
वृ- उच्चारस्य प्रश्रवणस्य खेलस्य सिङ्घानस्य च विवेचनं करोति । उद्वर्त्तनं नाम-तस्या उत्तानायाः पार्श्वतः करणम्, तत इतरस्यां दिशि स्थापनं परिवर्त्तनम्, ते अपि करोति । 'नन्तकं' वस्त्रं तथा शरीरं च यदि संज्ञया मूत्रेण वा लिप्तं ततस्तदपि निर्लेपयितव्यम् ॥ किरियातीतं नाउं, जं इच्छति एसणाए जं तत्थ ।
[भा. ३७७८]
सद्धावणा परिन्ना, पडियरण कहा नमोक्कारो ||
वृ- क्रियायां क्रियमाणायामपि या न प्रगुणीभवति सा क्रियातीता, तां ज्ञात्वा सा प्रष्टव्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org