________________
उद्देशक : १, मूलं-३२, [भा. २६४६]
१२३ हिरण्यं-रुप्यंचशब्दाभोजनादिच तत्रमन्दधर्मणः कस्याप्याकाङ्क्ष भवति । एते विशेषदोषाः । शेषास्तु प्रस्तुते मध्यद्वारे वक्ष्यमाणेच छिण्डिकाद्वारे तएव मन्तव्या ये शालाद्वारे पूर्वमुक्ताः ।।
अथातिगमनमनाभोगे इति द्वारं व्याचष्टे[भा.२६४७] उभयट्ठाय विनिग्गए, अइंति संपइंति मन्नएऽगारी।
अनुचियघरप्पवेसे, पडणा-ऽऽवडणे य कुइयादी ।। वृ-कोऽपि संयत उभयं-कायिका-संज्ञे तद्युत्सर्जनार्थं रात्रौ निर्गतः, स च प्रत्यागच्छन् 'आत्मीयोऽयमपवरकः' इति मन्यमानोऽपरमपवरकम् ‘अतियात्' प्रविशेत्, तत्र चागारी कायिकाद्यर्थनिर्गतभर्तृकातंसंयतमन्धकारनिकरनिरुद्धलोचना स्वंपतिमन्येत,ततश्चपरिष्वजेत, सचभर्ताप्रविष्टस्तंसंयतंतत्र स्थितं मत्वा ग्रहणा-ऽऽकर्षणादीनि कारयेत्, यद्वा तत्स्श्रणादेवतं तत्रैवापद्रावयेत्, सर्वेषां वासाधूनां निष्काशनं कुर्यात् । 'अनुचिते वा' अज्ञाते गृहे प्रवेशं कुर्वतो रात्रौ स्तम्भादिष्वापतन-प्रपतनादयोदोषाः । यद्वा तस्या अगार्या पतिस्तत्र न स्वाधीनः, सच संयतःप्रविष्टस्तस्याः शयनीयंस्पृष्टवान्, तयाच कूजितं महताशब्देन पूत्कृतमित्यर्थः, ततस्तत्र भूयान् लोको मिलितः, तया च वृत्तान्ते निवेदिते भवति महानुड्डाहः प्रवचनस्य, आदिशब्दाद् ग्रहणा-ऽऽकर्षणादयो दोषाः ।।अथावभाषणद्वारमाह[भा.२६४८] अट्ठिीगमनहिगी वा, उड्डाहं कुणइ सव्वनिच्छुमणं।
तेनुब्भामे मन्नइ, गिहिआवडिओ व छिक्कोवा।। वृ-यस्या अविरतिकायाः पतिर्न स्वाधीनः सा यदि स्वयम् 'अर्थिका' मैथुनार्थिनी ततस्तं साधुमवभोषेत-मया सममुपभुङ्क्षवभोगानिति । यदीच्छति ततः संयमविराधना, अथ नेच्छति ततःसा उड्डाहं कुर्यात् । अथासौ स्वयं नार्थिका परंसंयतः क्षुभितचित्तस्तामवभाषतेततोऽप्यषा प्रवचनोड्डोहं करोति, सर्वेषावासाधूनांनिष्काशनं कुर्यात् । यद्वा अविरतिकस्तदानीभविरतिकया सह तिष्ठति, संयतश्च प्रविश्य तस्य गृहिण उपरिष्टादापतितो वा हस्तादिना वा तं “छिक्को" ति स्पृष्टवान्ततोऽसौ 'स्तेनोऽयम्, उम्दामको वाऽयम्' इति मन्यते, ततश्च तं साधुंपरितापयेद्वा विनाशयेद्वा।अथासौज्ञातोयथा संयतोऽयम् ततः शङ्कांकुर्यात्-किंमन्येप्रतिसेवनार्थमायातः? उत स्वोपाश्रयद्वारमजानानाः?' इत्येवं शङ्कायांचतुर्गुरु, प्रतिसेवनार्थभेवेति निशङ्कित मूलम्।।
अथ मज्जनद्वारमाह[भा.२६४९] मज्जनविहिमजंतं, दटु सगारंसईकरणमादी।
सिज्जायरीउ अम्ह वि, एरिसया आसि गेहेसु॥ [भा.२६५०] तासिं कुचोरु-जधनाइदंसणे खिप्पऽइक्कमो कीवे।
इत्थीनाइ-सुहीण य, अचियत्तं छेदमाईया॥ वृ-मजनविधिर्नम-स्नानयोग्यामहतीप्रक्रियातयामजन्तंसागारिकंतत्रचतुःशालादिगृहमध्ये दृष्ट्वा भुक्तभोगिनां स्मृतिकरणमभुक्तभोगिनां तु कौतुकमुपजायते । शय्यातरीरपि तथैव मज्जन्तीदृष्ट्वा भुक्तभोगिनामीश्योऽपि गेहेषु गृहवासे वसतामासन्नति स्मृतिरुत्पद्यते ।। तथा 'तसां' शय्यातरस्त्रीणां मजन्तीनां कुचोरुजधनादिदर्शने 'क्लीबस्य' दृष्टिक्लीबाख्यस्य 'क्षिप्रं' शीध्रम् अतिक्रमः' ब्रह्मव्रतविराधना भवति।ततश्चयेस्त्रीणांज्ञातस्यः-मातापितृप्रभृतयः स्वजना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org