________________
१२२
बृहत्कल्प-छेदसूत्रम् -२-१/३२ 'दरभुक्ताः ' अर्द्धसमुद्दिष्टास्ततः साधुषु गमनाऽऽगमनं कुर्वाणषु महदप्रीतिकं कुर्वन्ति । अथाप्रीतिकभयाद् भिक्षाया आगता भिक्षां निर्गच्छन्तो वा गृहस्थान् समुद्दिशतः प्रतीक्षन्ते ततः समुद्देश-स्वाध्यायादीनां भिक्षायाश्च व्याघातो भवति ।। अथ पृथिव्युदका-ऽग्नि-बीजाऽवहनद्वाराणि व्याख्याति[भा.२६४२] कुड्डाइलिंपणट्ठा, पुढवी दगवारगो य उद्दित्ता ।
कयविक्कयसंवहणे, धन्नं तह उक्खल तडे य ।। वृ-कुड्यस्य भूम्या वा लिम्पनार्थं तत्र 'पृथ्वी' मृत्तिका 'दकवारकश्च' पानीयघटः स्थापितो भवेत् तत्र गच्छतामागच्छतां वा पृथिव्यप्कायविराधना । “उद्दित्त"त्ति अग्निकायः शीतकाले उद्दीपितो भवेत् तत्रापरिणतादयः प्रतापयेयुः । “धन्नं"ति विभक्तिव्यत्ययाद् धान्यस्य वा क्रयविक्रयार्थं तत्र संवहनं भवेत् तस्य सङ्घट्टनादिनिष्पन्नं प्रायश्चित्तम् । तथा तत्रोदूखलं 'तटे' प्रत्यासन्नप्रदेशेस्थापितं भवेत्, तत्रचाविरतिका बीजकायंकण्डयन्त्यः शृङ्गारगीतानि गायन्ति, तेषुच श्रूयमाणेषु विश्रोतसिका समुपजायते ॥ [भा.२६४३] एवंता पमुहम्मी, जा साला कोट्ठतो अलिंदो वा।
भूमीइ वा मालम्मिव, ठियाण मालम्मि सविसेसा ।। वृ-एवं तावत् ‘प्रमुखे' गृहद्वारे याशालावाकोष्ठको वाअलिन्दको वातत्रदोषा उक्ताः। एते च शाला-कोष्ठका-ऽलिन्दका भूमौ वा मालेवा भवेयुः । तत्र भूमौ तिष्ठतां दोषा भणिताः । अथ मालोपरवर्त्तिषु शालादिषु तिष्ठन्ति तत एत एव दोषाः सविशेषा द्रष्टव्याः ।।
तथा च तमेव विशेषं दर्शयति[भा.२६४४] दुरुहंत ओरुभंते, हिट्ठठियाण अचियत्त रेनू य ।
संकाय संकुडंते, पडणा भत्ते य पाने य॥ वृ-तस्मिन्माले यदा साधुरारोहति वाअवरोहति वा तदा तस्य ये पादरेणवस्तैरधःस्थितानां गृहस्थानामुपरि प्रपतद्भिस्तेषांमहदप्रीतिकमुत्पद्यते।तथासासाधुरारोहन्नवरोहन्वाअधःस्थितानां गृहस्थानाम् 'अपावृतो दर्शनपथं मा गमम्' इति शझ्या द्वावप्यूरू सङ्कचयन् वस्त्रं च संयमयन् प्रपतेत् । पतितस्य च पादादिविराधना, भक्तस्य च पानस्य च भूमी परिगलना भवति॥
गतं शालाद्वारम् । अथ मध्यद्वारमाह[भा.२६४५] उव्वरए वलभीइ व, अंतो अन्नत्थ वा वसंताणं ।
तेचेव वत्थ दोसा, सविसेसतरा इमे अन्ने । कृचतुःशालादिगृहस्ययद् अन्तः' मध्यंतत्रापवरकेवावलभिकायांवा अन्यत्रवा' अविशेषिते गृहमध्ये वसतांये शालायांप्रत्यपायादयोदोषा उक्ताःतएवात्रापि द्रष्टव्याः, परंसविशेषतराः। तेच विशेषदोषाः ‘इमे' अनन्तरमेव वक्ष्यमाणाः ।। तानेवाह[भा.२६४६] अइगमनमनाभोगे, ओभासण मज्जणे हिरन्नेय।
तेचेवतत्थ दोसा, सालाए छिंडिमझे य॥ वृ-गुहमध्ये तिष्ठतामनाभोगेनान्यस्मिन्नपरवरके 'अतिगमन' प्रवेश भवेत् । तत्र प्रविष्टस्य चाविरतिका अवभाषणं कुर्यात् ।मजनंचशय्यातरादिना क्रियमाणं दृष्ट्वा स्मृति-कौतुकेजायेते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org