________________
उद्देशक ः १, मूलं-३२, [भा. २६३७]
१२१ वृ-कस्यापि साधोः स्वभावतो विक्रियातो वा सागारिकं त्वचाविरहितं भवेत्, ततस्तदपावृतं दृष्ट्वा कर्मकरादयः प्रपञ्चेन ब्रुवते-वन्देऽहममुमुत्पलार्यं साधुम्, अकाले-अनवसरे परिशटितः पेहुणं-पिच्छंतदेवकलापोयस्यसतथा तम्।यद्वा कस्यापि महाराष्ट्रादिविषयोत्पन्नस्य साधोरङ्गादानं वेण्टकविद्धम्, ततस्तद् दृष्ट्वा ब्रुवते-कथं नु नामासौ साधुर्धर्मं न करिष्यति यस्येयन्तः कर्णा विद्धाः ? ॥एवं चतैः प्रपञ्चेनोक्ते सति किं भवति?. [भा.२६३८] अहिगरणं तेहि समं, अज्झोवायो य होइ महिलाणं ।
तक्कम्मभाविताणं, कुतूहलं चेव इतरीणं ॥ वृ-यः कोपनः साधुः स तः सममधिकरणं करोति, ततश्चास्थिभङ्गादयो दोषाः । तथा या महेलास्ताशेन विकुर्विताङ्गादानेन यत्कर्म-प्रतिसेवनंतेन भावितास्तासांतस्मिन् साधावध्युपपातो भवति ।इतरासांकुतूहलमुपजायते॥अथादर्शद्वारंव्याख्यायते।तान्साधूनपावृतान्प्रतिमास्थितान् दृष्ट्वा कर्मकरादयः प्रपञ्चेन ब्रवीरन्[भा.२६३९] अद्दाइय ने वयणं, वच्चामो राउलं सभं वा वि।
गोसे चिय अदाए, पेच्छंताणं सुहं कत्तो॥ वृ-'आदर्शितम्' आदर्शदर्शनेन पवित्रीभूतं तावदस्माकं वदनम्, अतो व्रजामो राजकुलं वा सभांवा । यद्वा ते प्रभात एव साधूनां पुतावपावृतौ दृष्टवा प्रकुपिताः सन्तोब्रुवते-अहो ! “गोसे" प्रभात एवाद पश्यतामस्माकमद्य कुतः सुखं भविष्यति? । एवं तैरुक्तेत एवाधिकरणादयो दोषाः॥अथ कल्पस्थद्वारं व्याचष्टे[भा.२६४०] हत्थाईअक्कमणं, उप्फुसणादी व ओहुए कुज्जा।
गेलन्न मरण आसिय, विनास गरिहं दिय निसिं वा॥ वृ-तत्रागमन-निर्गमनपथेचेटरूपाणि भवेयुः तेषां साधुभिरागच्छद्भिर्निर्गच्छद्भिश्च हस्तपादाद्याक्रमणं भवेत्।अथासौ कल्पस्थः साधुना केनापि 'अवधुतः' उल्लवित इत्यर्थः, ततस्दीया माता तस्याप्कायेनोत्स्पर्शनम् आदिग्रहणाद् लवणोत्तारणं वा कुर्यात् । यदि वा स कल्पस्थो ग्लानीभवेद्वा म्रियेत वा तदा तदीया माता-पित्रादयः स्वजना ब्रवीरन् मन्येरन् वा-तेन श्रमणकेनास्मदीय एष दारकस्तदानीमल्लखितः तत इत्थं ग्लानत्वं पञ्चत्वं वा प्राप्तवान् । ततः प्रद्विष्टास्ते “आसिय" ति शालायाः साधूनां निर्घाटनं कुर्युः । “विनास"त्ति येन साधुना स कल्पस्थ उल्लङ्घितस्तस्य 'विनाशं' मारणं कुर्युः, यद्वा ते साधवस्तेन शय्यातरेण निष्काशिताः स्तेनश्वापदादिभिर्विनाशमाप्नुयुः । “गरिहं"ति लोकतो गर्हामासादयेयुः-किमेते(5)शोभनैः कर्मभिर्निष्काशिताः? इति । सर्वमप्येतद् निर्घाटनादिकं दिवा वा निशायां वा कुर्युः । यदि दिवा निष्काशयन्ति तदा चतुर्लघु, रात्रौ निष्काशयन्ति चतुर्गुरु ।। अथ भक्तद्वारमाह[भा.२६४१] भोत्तव्वदेसकाले, ओसक्कऽहिसक्कणं व ते कुज्जा।
दरभुत्ते वऽचियत्तं, आगय नितेय वाघाओ॥ वृ-भोक्तव्यं-भोजनम्, अविवक्षितकर्मकत्वेन भावेतव्यप्रत्यस्य समानीतत्वात्, तस्यदेशकाले 'ते' गृहस्था अवष्वष्कणमभिष्वष्कणंवा कुर्युः। तत्रावष्वष्कणंनाम-यावनिर्गच्छन्तिसाधवस्तावद् वयं भोजनं कुर्महे, अभिष्वष्कणं-निच्छिन्तु तावद् भिक्षार्थं साधवस्ततो भोक्ष्यामहे । अथ ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org