________________
५०
बृहत्कल्प-छेदसूत्रम् -२-१/१२
इच्छमणिछे तरुणा, तेना उवहिं व ताओ वा ।। वृ-आपणगृहादिषु स्थितानां साध्वीनां तरुणान् वेश्यास्त्रीः विवाहं च दृष्ट्वा राजादीनां च दर्शने भुक्तभोगानां स्मृतिकरणं भवति, इतरासां कौतुकम्।तरुणांश्चप्रार्थयमानान्यदीच्छन्ति ततः संयमविराधना, अथ नेच्छन्तितत उड्डाहदिकं कुर्युः ।स्तेनाश्च तत्रोपधिंवा 'ता वा' आर्यिका अपहरेयुरिति द्वारगाथासमासार्थः॥अथ विस्तरार्थं प्रतिपदमाह[भा.२३०५] चउहालंकारविउव्विए तहिं दिस्स सललिए तरुणे।
लडहपयंपिय-पहसिय-विलासगइ-णेगविहकिड्डे ॥ कृचतुर्द्धा-वस्त्र-पुष्प-गन्धा-ऽऽभरणभेदात्चतुर्विधोयोऽलङ्कारस्तेनविकुर्वितान्-अलङ्कृतान् तरुणान् ‘तत्र' आपणगृहादिषु दृष्ट्वा मोहोदयो भवतीतिवाक्यशेषः । कथम्भूतान्? “सललितान्' ललितं नाम-हस्त-पादाङ्गविन्यासविशेषः, उक्तञ्च
___ हस्त-पादाङ्गविन्यासो, भ्रू-नेत्रौष्ठप्रयोजितः।
सुकुमारो विधानेन, ललितं तत् प्रकीर्तितम् ॥ तेन सहितान् । तथा लडभं-मनोज्ञं प्रजल्पितं-प्रकृष्टवचनं प्रहसितं-हास्यं विलासश्च
स्थाना-ऽऽसन-गमनानां, हस्त-भ्रू-नेत्रकर्मणां चैव ।
उत्पद्यते विशेषो, यः श्लिष्टः स तु विलासः स्यात् ॥ इत्येवंलक्षणः गतिश्च-सुललितपदन्यासरूपा अनेकविधाश्च-द्यूता-ऽऽन्दोलनादिकाः क्रीडा येषां ते तथाविधास्तान् ।। अथ वेश्यास्त्रीद्वारमाह[भा.२३०६] दटुं विउब्वियाओ, कुलडा धुत्तेहि संपरिवुडाओ।
बिब्बोय-पहसियाओ, आलिंगणमाइया मोहो॥ कृविकुर्विताः' अलङ्कृताः ‘कुलटाः' स्वैरिण्यः वेश्यास्त्रियइत्यर्थः 'धूत्तैः' षिङ्गः सम्परिवृताः' समन्ततो वेष्टिताः 'बिब्बोक-प्रहसिताः' बिब्बोको नाम
इष्टानामर्थानां, प्राप्तावभिमानगर्वसम्भूतः।
स्त्रीणामनादरकृतो, बिब्बोको नाम विज्ञेयः॥ -- प्रहसितं नाम-हास्याभिधानो रसविशेषः, अस्य च लक्षणमिदम्
हास्यो हासप्रकृति, हासो विकृताङ्ग-वेष-चेष्टाभ्यः ।
भवति परस्थाभ्यः सच, भूम्ना स्त्री-नीच-बालगतः॥ एते बिब्बोक-प्रहसिते विद्येते यासां ता बिब्बोक-प्रहसितवत्यः । गाथायां प्राकृतत्वाद् मतुप्रत्ययलोपः । एवंविधाः पणाङ्गना दृष्टवा तासां चालिङ्गनादिकाश्चेष्टाः क्रियमाणा निरीक्ष्य मोहः समुद्दीप्यते॥अथ विवाहद्वारमाह[भा.२३०७] तत्थ चउरंतमादी, इब्भविवाहेसु वित्थरा रइया ।
भूसियसयणसमागम, रह-आसादीय निव्वहणा॥ वृ-'तत्र' आपणगृहादौ स्थितानां संयतीनामिभ्यविवाहेषु ये चतुरन्तादयो विस्तरा रचिताः, चतुरन्तं नाम चतुरिका, आदिशब्दाद् द्वन्दन-कलश-तोरणदिविवाहविस्तरपरिग्रहः, तथा यस्तत्र भूषितानां-वस्त्रादिभिरलङ्कृतानां स्वजनानां समागमः, यच्च रथेन वाऽश्वेन वा आदिशब्दात
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org