SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ उद्देशकः १, मूलं-१२, [भा. २३०७] शिबिकया वा 'निर्वहणं' वध्वाः सर्वदया श्वशुरगृहे नयनं तद्दर्शने भुक्तभोगिनीनां स्मृतिकरणमभूक्तभोगिनीनांतुकौतुकमुपजायते, ततःप्रतिगमनादयोदोषाः।। अथ राजद्वारमाह. [भा.२३०८] बलसमुदयेण महया, छत्तसिया वियणि-मंगलपुरोगा। दीसंति रायमादी, तत्थ अतिता य निंता य॥ वृ- महता बलसमुदयेन ‘अतियन्तः प्रविशन्तः “निर्यन्तो वा' निर्गच्छन्तः ‘राजादयः' राजेश्वरतलवरप्रभृतयस्तत्र श्यन्ते । कथम्भूताः? "छत्तसिय"त्ति प्राकृते पूर्वापरनिपातस्यातन्त्रत्वात् सितं-श्वेतं छत्रं येषां ते सितच्छत्राः, तथा “वियणि" त्ति वालवीजनिका मङ्गलानिदर्पणपताकादीनि एतानिपुरोगाणि-पुरतोगामीनियेषां राजादीनांते तथा॥द्वारगाथायां "रायमादीसु" ति यद् आदिग्रहणं कृतं तल्लब्धमर्थमाह[भा.२३०९] ते नक्खि-वालि-मुहवासि-जंघिणो दिस्स अट्ठियाऽणट्ठी। होसुंने एरिसगा, न य पत्ता एरिसा इतरी ।। वृ- तान् पुरुषान् नखि-वालि-मुखवासि-जटिनो दृष्ट्वा भुक्तभोगिन्योऽभूवन् “ने" अस्माकमपीशाः पतय इति स्मृतिम् 'इतरास्तु' अभुक्तभोगिन्यो नास्माभिरीद्दशाः पूर्वं प्राप्ता इत्येवं कौतुकं कुर्युः । तत्र नखाः-करजाः स्निग्धा-ऽऽताम्रोत्तुङ्गतादिगुमोपेता येषां ते नखिनः, प्रशंसायामत्र मत्वर्थीयः, यथा रूपवती कन्येत्यादिषु । एवं वालाः-केशास्ते श्यामल-निचितकुञ्चितादिगुणोपेता येषां ते वालिनः । मुखवासः-कर्पूरादिभिर्मुखस्य सौरभ्यापादनं तदस्ति येषां ते मुखवासिनः । जविनः-वर्तुल-स्थूलजङ्घायुगलकलिताः । एते 'अर्थिनः' मैथुनाभिलाषिणः 'अनर्थिनो वा' यथाभावेन समागच्छेयुः, ताँश्च दृष्टवा भुक्ता-ऽभुक्तसमुत्था दोषा भवन्ति। तानेव दर्शयति[भा.२३१०] एयारिसए मोत्तुं, एरिसयविवाहिता य सइ भुत्ते । इयरीण कोउहल्लं, निदाण-गमणादयो सज्जं ॥ -एतादृशान्मुक्त्वाऽस्माभिर्दीक्षा गृहीताईशैर्वासह विवाहिता वयमपिपूर्वमितिस्मृतिकरणं भुक्तभोगिनीनाम्, 'इतरासाम्' अमुक्तभोगिनीनांपुनः ‘कौतूहलं कौतुकंभवेत्, ततश्चोभयीषामपि सद्यो निदान-गमनादयो दोषाः । निदानम्-'अस्य तपो-नियमादेः प्रभावाद् भवान्तरे ईशमेव पुरुषं लभेय' इति लक्षणम्, गमनं-स्वगृहं प्रति भूयः प्रत्यावर्त्तनम् ।।अपिच[भा.२३११] आयाणनिरुद्धाओ, अकम्मसुकुमालविग्गहधरीओ। तेसि पि होइ दटुं, वइणीओ समुब्भवो मोहे ॥ वृ-आदानानि-इन्द्रियाणि निरुद्धानि यासांता निरुद्धादानाः, गाथायांव्यत्यासेन पूर्वापरनिपातः प्राकृतत्वात्।अकर्मणा-कर्मकरणाभावेन सुकुमारं-कोमल विग्रह-शरीरंधारयन्तीत्यकर्मसुकुमारविग्रहधराः । एवम्भूता व्रतिनीदृष्टवा 'तेषामपि नखि-वालिप्रभृतीनां मोहस्य समुद्भवो भवति।। अथ "इच्छमनिच्छे तरुण" ति पदं विवृणोति[भा.२३१२] संजमविराधना खलु, इच्छाए अनिच्छयं व वहि गिण्हे । तेनोवहिनिप्फन्ना, सोही मूलाइ जा चरिमं । वृ-यदि तत्रापणगृहादौ तरुणान् अवभाषमाणान् इच्छति ततः संयमविराधना।अथ नेच्छति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy