________________
४२६
बृहत्कल्प-छेदसूत्रम् -२-३/८८ गाथायां पुंस्त्वंप्राकृतत्वात्, तच्च ‘नौनिभं' मध्यभागे विशालं पर्यन्तभागयोस्तुतनुकंगुह्यदेशरक्षार्थं क्रियते । तच्च गणनया एकम्, आर्तव-बीजपातसंरक्षणार्थं च धन-धनवस्त्रेण, पुरुषसमानककशस्पर्शपरिहरणार्थं च मसृणं-मसृणवस्त्रण क्रियते । प्रमाणेन च 'देहं' स्त्रशरीरमासाद्य तद् विधीयते, देहो हि कस्याश्चित्तनुः कस्याश्चित्तु स्थूलः ततस्तदनुसारेण विधेयमित्यर्थः ।। [भा.४०८५] पट्टो वि होइ एक्को, देहपमाणेण सो उ भइयव्वो।
छादतोग्गहणंतं, कडिबद्धो मल्लुकच्छा वा ॥ वृ-पट्टाऽपि गणनयको भवति।सच पर्यन्तभागवर्त्तिवीटकबन्धबद्धः, पृथुत्वेन चतुरङ्गुलप्रमाणः समतिरिक्तो वा, दैर्येण तु स्त्रकटीप्रमाणः । स च देहप्रमाणेन भक्तव्यः, पृथुलकटीभागाया दीर्ध सङ्कीर्णकटीभागायास्तुहस्व इत्यर्थः । स चावग्रहानन्तकमुभयान्तयोराच्छादयन् कटीबद्धः सन् मल्लकक्षावद् ज्ञायते॥ [भा.४०८६] अड्ढोरुगो वि ते दो, वि गिहिउंछादए कडीभागं ।
जानुप्पमाणा चलणी, असिव्विया लंखियाए व ।। वृ- अर्धारुकोऽपि 'तौ द्वावपि' अवग्रहानन्तक-पट्टावुपरिष्टाद् गृहीत्वा सर्वं कटीभागमाच्छादयति, सच मल्लचलनाकृति केवलमूर्वोरन्तरे ऊरुद्वयेच कसाबद्धः । चलनिकाऽप्येवमेव, नवरमधो जानुप्रमाणा अस्यता लडिकापरिधानवत्-वंशाग्रनर्तकीचलनकवदसौ मन्तव्या॥ [भा.४०८७] अंतोनियंसणी पुन, लीनतरा जाव अद्धजंघातो।
बाहिर खुलगपमाणा, कडीय दोरेण पडिबद्धा ॥ वृ-अन्तर्निवसनीपुनरुपरिकटीभागादारभ्याधोऽर्धजजायावद्भवति।साच परिधानकाले लीनतरा परिधीयते, मा भूदनावृता जनोपहास्येति। बहिर्निवसनी पुनरुपरि कटीभागादारभ्याधः 'खुलकप्रमाणा' चरणगुल्फ यावदित्यर्थ, कट्यां च दवरकेण प्रतिबद्धा ।। इदमधःशरीरस्य षड्विधमुपकरणमुक्तम् । अथोर्ध्वकायोपयोगि कञ्चुकादिकं व्याख्याति[भा.४०८८] छादेति अनुक्कुयिते, उरोरुहे कंचुओ असिव्वितओ।
एमेव य उक्कच्छी, सा नवरं दाहिणे पासे ।। वृ-दर्घामाश्रित्य स्वहस्तेनार्धतृतीयहस्तप्रमाणः पृथुत्वेन तु हस्तमानः 'अशीवितः' उभयतः कटीदेशे कसावबद्धः कञ्चुकः क्रियते। सच उरोरुहौ छादयति, किम्भूतौ ? 'अनुत्कुचितौ' (अ) श्लथौ; गाढपरिधाने हि विविक्तविभागौ भवेताम् । कक्षायाः समीपमुपकक्षम्, तत्र भवा औपकक्षिकी, अध्यात्मादित्वादिकणप्रत्ययः, “एवमेव च' कञ्चुकवत् तस्या अपि स्वरुपं वक्तव्यम् । सा नवरंदक्षिणेपाचँसमचतुरस्र स्वहस्तेन सार्धहस्तप्रमाणा उरोभागंपृष्ठंच प्रच्छादयन्तीवामस्कन्धे वामपार्थे च वीटकबद्धा परिधीयते॥ [भा.४०८९] वेगच्छिया उ पट्टो, कंचुकमुक्कच्छियं च छादेति ।
संधाडीओ चउरो, तत्थ दुहत्था उ वसधीए । वृ-औपकक्षिकीविपरीतो वैकक्षिकीनामकः पट्टः कञ्चकमौपकक्षिकी च छादयन् वामपार्थे परिधीयते । तथोपरि परिभाग्याः सङ्घाटिकाश्चतस्त्र भवन्ति-एका द्विहस्ता, द्वे त्रिहस्ते, एका च . चतुर्हस्ता; दैर्येण चतस्रोऽपि सार्धहस्तत्रयप्रमाणाश्चतुर्हस्ता वा मन्तव्याः । तत्र 'द्विहस्ता'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org