________________
उद्देशक : ३, मूलं - ८८, [भा. ४०७९]
द्विहस्तविस्तृता सङ्घाटिका वसत्यां परिधीयते, न तां विहाय प्रकटदेहया कदाचिदासितव्यमिति
भावः ॥
[भा. ४०९० ]
दुनि तिहत्थायामा, भिक्खट्ठा एग एग उच्चारे । ओसरणे चउहत्थाऽनिसन्नपच्छाइणी मसिणा ।।
४२७
एका
वृ- ये च द्वे 'त्रिहस्तायामे' त्रिहस्तविस्तृते तयोर्मध्ये एका भिक्षार्थं गच्छन्त्या प्राव्रियते, उच्चारभूमिं व्रजन्त्या । तथा 'समवसरणे' व्याख्यान श्रवणादौ गच्छन्ती चतुर्हस्तां प्रावृणोत, साच प्राक्तनसङ्घाटभ्यो बृहत्तरप्रमाणा अनिषन्नप्रच्छादनार्थं क्रियते; यतो न तत्र संयतीभिरुपवेष्टव्यम्, किन्तुर्ध्वस्थिताभिरनुयोगश्रवणादि विधेयम्, ततस्तया स्कन्धादारभ्य पादौ यावद् वपुः प्रच्छाद्य तिष्ठन्ति । एताश्च पूर्वप्रावृतवेषप्रच्छादनार्थ प्रवचनवर्णप्रभावनार्थच मसृणाः क्रियन्ते । चतस्रोऽपि च गणनाप्रमाणेनैकमेय रुपं गण्यते, युगपत् परिभोगाभावात् ॥
[भा. ४०९१] खंधकरणी उ चउहत्थवित्थरा वायविहुतरक्खट्ठा । खुजकरणी उकीरति, रुववतीणं कुड्डुहहेउं ॥
वृ-स्कन्धकरणी चतुर्हस्तविस्तरा समचतुरस्रो प्रावरणस्य वातविधुतरक्षणार्थं चतुष्फला स्कन्धे कृत्वा प्राव्रियते । रुपवतीनां च संयतीनां कुटुभहेतोः कुब्जकरण्यपि क्रियते, पृष्ठदेशे संवर्त्तितया औपकक्षिकी-वैकक्षिकीनिबद्धया तया विरुपतापादनाय कुटुभं विधीयत इति भावः ।। उपसंहरन्नाह[ भा. ४०९२] संघातिमेतरो वा, सव्वोऽवेसो समासओ उवधी । पासगबद्धमसिरो, जं चाऽऽइन्नं तगं नेयं ॥
वृ- सर्वोऽपि 'एषः ' अनन्तरोक्त उपधि समासतो द्विधा-सङ्घातिम इतरश्च । द्वित्र्यादिखण्डानां मीलनेन निष्पन्नः सङ्घातिमः, 'इतरः' तद्विपरीतोऽसङ्घातिमः । अयं च 'पाशकबद्धः' कसाबद्धः तथा 'अशुषिरः' गृहिसीवनिकारहितः प्रतिथिग्गलवर्जितो वा । यच्चात्र द्रव्य क्षेत्रकाल- भावेषु संविग्नगीतार्थै पूर्वसूरिभिराचीर्णं तत् सर्वमपि 'ज्ञेयं' सम्यगुपादेयतया मन्तव्यम् ॥ जिनकल्पिकादीनामुपधेरुत्कृष्टादिविभागमाह
अथ
[भा. ४०९३] उक्कोसओ जिनाणं, चउव्विहो मज्झिमो वि य तहेव । जहन्नो चउव्विहो खलु, एत्तो थेराण वोच्छामि ।।
वृ- त्रयः कल्पाः प्रतिग्रहश्चेति जिनकल्पिकानामुत्कृष्ट उपधिश्चतुर्विधः । एवं मध्यमोऽपि रजोहरण-पटलक-पात्रबन्ध- रजस्त्राणभेदात् चतुर्विधः । जघन्योऽपि मुखपोतिका - पादकेसरिकागोच्छक पात्रस्थापनमेदात् चतुर्विधः । इत ऊर्ध्वं स्थविरकल्पिकानां वक्ष्यामि ॥
[ मा. ४०९४] उक्कोसो थेराणं, चउव्विहो छव्विहो य मज्झिमओ ।
जहन्नो चउव्विहो खलु, एत्तो अजाण वोच्छामि ॥
वृ-उत्कृष्टो जधन्यश्च जिनकल्पिकानामिव द्रष्टव्यः । नवरं मध्यमः षड्विध इत्थम्-रजोहरणं पटलकानि पात्रकबन्धो रजस्त्राणं मात्रकं चोलपट्टकश्चेति । (इत ऊर्ध्वमार्याणां वक्ष्यामि) ।। [भा. ४०९५] उक्कोसो अट्टविहो, मज्झिमओ होइ तेरसविहो उ ।
जहन्नो चउव्विहो खलु, एत्तो उ उवग्गहं वोच्छं ।
वृ- आर्याणामुत्कृष्ट उपधिरष्टविधः त्रयः कल्पाः ३ प्रतिग्रहः ४ अभ्यन्तरनिवसनी ४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org