________________
बृहत्कल्प-छेदसूत्रम् -२-३/८८
बहिर्निवसनी ६ सङ्घाटिका ७ स्कन्धकरणी ८ चेति । मध्यमस्त्रयोदशविधो भवति, तद्यथारजोहरणं १ पटलकानि २ पात्रकबन्धः ३ रजस्त्राणं ४ मात्रकं ४ कमठकम् ६ अवग्रहानन्तकं ७ पट्टः ८ अर्धोरुकः ९ कञ्चुकः १० चलनिका ११ औपकक्षिकी १२ वैकक्षिकी १३ चेति । जधन्यश्चतुर्विधः-मुखपोतिका पात्रकेसिरका गोच्छकः पात्रस्थापनं चेति । इत ऊर्ध्वमतिरिक्तो य उपधिः स उपग्रहोपधिरुच्यते, तमपि जघन्यादिविभागनिरुपणेनाहं वक्ष्ये ॥ तत्र जघन्यं तावदाह[भा. ४०९६] पीढग निसिज्ज दंडगपमजणी घट्टए डगलमादी । पिप्पलग सूयि नहरणि, सोहणगदुगं जहन्नो उ ॥
वृ- पीठकं काष्ठमयं छगणमयं वा । निषद्या रजोहरणस्य सौत्रिकी और्णिकी चेति द्विविधा । 'दण्डकप्रमार्जनी नाम' यया वसति प्रमार्ज्यते । 'घट्टकः' लिप्तपात्रमसृणताकारकः पाषाणः । डगलगाः-पुतप्रोञ्छनोपयोगिनो लेष्टवाः, आदिशब्दात् कुटमुख- क्षारादिपरिग्रहः । 'पिष्पलकः’ क्षुरप्रः । ‘सूची' यया वस्त्रं सीव्यते । 'नखहरणी' यया नखा उद्धियन्ते । 'शोधनकद्विकं तु' कर्णशोधनं दन्तशोधनं चेति । एष जघन्य औपग्रहिकोपधि ।। अथ मध्यममाह
४२८
[भा. ४०९७] वासत्ताणे पनगं, चिलिमिणिपनगं दुगं च संथारे । दंडादीपनगं पुन, मत्तगतिग पादलेणिया ।।
- वर्षात्राणानां पञ्चकम्-वालमयं सूत्रमयं सूचीमयं कुटशीर्षकं छत्रकं चेति । तत्र वालमयं सूत्रमयं च प्रतीतम्, सूची - ताडपत्रसूच्यादिखुम्पकः, कुटशीर्षकं पलाशपत्रमयम्, छत्रकं वंशमयम् । चिलमिलिपञ्चकम्-वालमयी सूत्रमयी वल्कमयी कटमयी दण्डमयी चेति, पञ्चापि प्रथमोद्देशके विख्याताः । संस्तारकद्विकं शुषिरा - ऽशुषिरभेदात् । शुषिरस्तुणादिमयः, अशुषिरः काष्ठमयः । दण्डादिपञ्चकम् दण्डको विदण्डको यष्टिर्वियष्टिर्नालिका चेति । मात्रकत्रिकं तु खेल- प्रश्रवणोच्चारमात्रकमेदात् । पादलेखनिका वटोदुम्बरप्लक्षा-ऽमलिकाकाष्ठमयी वर्षासु कर्दमापनयनी ॥ [भा. ४०९८] चम्मतिगं पट्टदुगं, नायवो मज्झिमोवही एसो ।
अजाण वारए पुन, मज्झिमए होति अतिरित्तो ।।
वृ- चर्मत्रिकं पुनरिदम्- आस्तरणं प्रावरणमुपवेशनं च । दवानलादिभये यद् भूमावास्तीर्यते प्रलम्बादिविकरणाय वा तदास्तरणम्, षट्पदिकाभये यत् पार्व्रयते तत् प्रावरणम्, यत्रार्शोरोगादिभि करणैरुपविश्यते तदुपवेशनम् । अथवा कृत्ति तलि वद्धश्चेति चर्मत्रिकम् । पट्टद्विकम्-संस्तारपट्ट उत्तरपट्टश्च, अथवा पर्यस्तिकापट्टः सन्नाहपट्टश्चेति । तत्र पर्यस्तिकापट्टी योगपट्ट उच्यते, सन्नाहपट्टस्तु विहारेउपधेः शरीरेण सह बन्धनार्थः । एष मध्यम उपग्रहोपधि साधूनां ज्ञातव्यः । आर्याणामप्येवमेव, नवरम्-तासां जनमध्य एवोपाश्रयस्यानुज्ञातत्वात् ससागारिके वसन्तीनां प्रश्रवणव्युत्सर्जनानन्तरमुदकस्पर्शनार्थं वारको मध्यमोपधावतिरिक्तो भवति ।। अथोत्कृष्टमाह
[भा. ४०९९]
संथारो या, दुविहो एगंगिएतरो चेव । पोत्थगपनगं फलगं, बितियपदे होति उक्कोसो।।
वृ- 'अत्राः' अनुयोगदाने गुरूणां भङ्गचारणिकार्थमुपकरणम् । संस्तारको द्विविधः एकाङ्गिक इतरश्च । तत्रैकाङ्गिकः- तिनिशादिकाष्ठपट्टरूपः, इतरः- दवरकावबद्धकम्बिकामयः । प्रथमपदमुत्सर्ग तदपेक्षया द्वितीयपदम् - अपवादस्तत्र प्रागुक्तस्वरूपं पुस्तकपञ्चकं गृह्यते, 'फलकं नाम' पट्टिका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org