________________
उद्देशकः३, मूलं-८८, [भा.४०७७]
४२५
[भा.४०७७] पुवण्हे लेवदानं, लेवग्गहणं सुसंवरं काउं।
लेवस्स आणणा लिंपणान्य जतणाय कायव्वा ॥ व-गाथाद्वयमपि पीठिकायां सप्रपञ्चं व्याख्यातमिति॥ -“कप्पइ निग्गंथाणं" सूत्रार्धम् उच्यते[भा.४०७८] अब्बोगडो उ भणितो, उवधिविभागो उ आदिसुत्तेसु ।
सोपुन विभज्जमाणो, उवरिसुए वोगडो होति ॥ वृ- 'अव्याकृतः' 'अयं जिनकल्पिकानाम्, अयं स्थविरकल्पिकानाम्, अयमार्यिकाणाम्' इत्येवमविशेषित एवोपधिविभागः ‘आदिसूत्रेषु अनन्तरोक्तेषुभणितः, सपुनः' उपधिविभागो जिनकल्पिकादिविभागैर्विभज्यमानोऽस्मिन् प्रस्तुते उपरिसूत्रे 'व्याकृतः स्फुटो भवति, अत इदं सूत्रमारभ्यते॥ तमेवोपधिविभागं प्रचिकटयिषुराह[भा.४०७९] चोद्दसग पन्नवीसो, ओहोवधुवग्गहो अनेगविधो।
संथारपट्टमादी, उभयोपक्खम्मि नेयव्वो॥ वृ-इह जिनकल्पिकानामौधिक एवोपधिर्भवति नौपग्रहिकः, स्थविरकल्पिकानांतुद्विविधोऽपि भवति । तत्रौघोपधिर्द्विधा-चतुर्दशविधः पञ्चविंशतिविधश्च । चतुर्दशविधः साधूनाम्, पञ्चविंशतिविधस्तु साध्वीनाम्। उपग्रहोपधिपुनरनेकविधः, सच संस्तारपट्टादिरुपः 'उभयपक्षे' साधु-साध्वीजनलक्षणे ज्ञातव्यः॥तत्र स्थविरकल्पिकानांचतुर्दशविध ओघोपधिः प्रागनन्तरसूत्र एवोक्तः, अथार्याणां पञ्चविंशतिविधं तमेवाह[भा.४०८०] पत्तं पत्ताबंधो, पायट्ठवणं च पायकेसरिया।
पडलाइं रयत्ताणं, च गोच्छओ पायनिज्जोगो । [भा.४०८१] तिन्नेव य पच्छाया, रयहरणं चेव होइ मुहपोत्ती।
तत्तोय मत्तए खलु, चोद्दसमे कमढए होति॥ [भा.४०८२] उग्गहनंतग पट्टो, अड्डोरुअचलणियाय बोधव्वा ।
अभितर-बाहिनियंसणी य तह कंचुए चेव ॥ [भा.४०८३] उक्कच्छिय वेकच्छिय, संघाडी चेव खंधकरणीय।
ओहोवहिम्मि एते, अज्जाणं पन्नवीसंतु॥ वृ- पात्रकादीनि त्रयोदशोपकरणानि साधूनामिव द्रष्टव्यानि । चतुर्दशं तु चोलपट्टकस्थाने तासां कमठकं भवति, तनाष्टकमयमेकैकं संयतीनां निजोदरप्रमाणेन विज्ञेयम् १४ । तथाऽवग्रहानन्तकं १५ पट्टः १६अझैरुकं १७ चलनिका च बोद्धव्या १८, अभ्यन्तरनिवसनी १९ बहिर्निवसनी २० तथा कञ्चुकश्चैव २१ औपकक्षिका २२ वैकक्षिकी २३ सङ्घाटी २४ स्कन्धकरणी २५ । एवमेतान्योघोपधौ आर्यिकाणां पञ्चविंशतिरुपकरणानि भवन्तीति॥
अथैतान्येव विवृणोति[भा.४०८४] नावनिभो उग्गहनंतओ उ सो गुज्झेदेसरक्खट्ठा।
सोय पमाणेणेको, घन-मसिणो देहमासज्ज ।। वृ. इह 'अवग्रहः' इति योनिद्वारस्य सामयिकी संज्ञा, तस्यानन्तकं-वस्त्रमवग्रहानन्तकम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org