SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ४२४ षट्काया विराध्यन्ते ॥ अथाधिकद्वारमाह [भा. ४०७२] अहियस्स इमे दोसा, एगतरस्सोग्गहम्मि भरितम्मि । सहसा मत्तगभरणे, भारादि विगिंचणियमादी || बृहत्कल्प - छेदसूत्रम् - २-३/८८ वृ- प्रमाणाधिकस्य मात्रकस्येमे दोषाः - 'एकतरस्य' भक्तस्य वा पानकस्य वा प्रतिग्रहे भृते सति पश्चाद् मात्रके ग्रहणं कुर्यात् । सहसा वा तस्य मात्रकस्य भरणे कृते भारेण स्थाणु-कष्टकादीनि न प्रेक्षते तत्रात्मविराधना, ईर्याया अशोधने संयमविराधना । अन्यच्च द्वयोरपि प्रतिग्रहमात्रकयोर्भुतयोः 'विवेचनं' परिष्ठापनं भवेत् तत्र षट्कायविराधना । अथ ऩ परिष्ठापयति ततोऽतिप्रचुरेण भक्षितेन ग्लानत्वं भवेत् । यत एवमादयो दोषाः अतः प्रमाणयुक्तं ग्रहीतव्यम् ॥ अथ शोधिद्वारमाह [भा. ४०७३] जइ बोयणमावहती, दिवसेणं तत्तिया चउम्मासा । दिवसे दिवसे तस्स उ, बितिएणारोवणा भणिया । वृ- 'यति' यावतो वारान् एकदिवसेन मात्रके 'भोजनं' भक्त-पानम् आत्मनो योग्यम् 'आवहित' आनयतीत्यर्थः तावन्ति चतुर्लघूनि । अथ दिवसे मात्रकं परिभुङ्क्ते ततो द्वितीयप्रायश्चित्तेनारोपणा भणिता । किमुक्तं भवति ? - द्वितीयदिवसे मात्रकं यावतो वारान् परिभुङ्क्ते तावन्ति चतुर्गुरुकाणि, एवं तृतीये षड्लध्वु, चतुर्थे षड्गुरु, पञ्चमे छेदः षष्ठे मूलम्, सप्तमेऽनवस्थाप्यम्, अष्टमे पाराञ्चिकम् ।। गतं शोधिद्वारम् । अथापवादद्वारमाह[भा. ४०७४] अन्नाणे गारवे लुद्धे, असंपत्ती य जाणए । लहुगो लहुगा गुरुगा, चउत्थो सुद्धो उ जाणओ ॥ वृ- इयं यथा प्रतिग्रहे तथा मात्रकेऽपि वक्तव्या ॥ परिभोगद्वारमाह[भा. ४०७५ ] बाले वुट्टे सेहे, आयरिय गिलाण खमग पाहुणए । दुल्लभ संसत्त असंथरंत अद्धाणकप्पम्मि ॥ वृ- बालस्य वृद्धस्य शैक्षस्याचार्यस्य ग्लानस्य क्षपकस्य प्राघुणकस्य च प्रायोग्यं मात्रके गृह्यते । यद्वा बाल-वृद्धादयः प्रतिग्रहं हिण्डापयितुं न शक्नुवन्ति अतस्ते मात्रके भक्ते - पानमानयेयुः भुञ्जीरन् वा । गच्छसाधारणं वा दुर्लभद्रव्यं धृतादिकं मात्रके गृह्णीयात् । यत्र वा भक्त - पानं संसज्यते तत्र मात्र गृह्यते, तद्धि संसक्तं मात्रके शोधयित्वा पश्चात् प्रतिग्रहे प्रक्षिप्यते । अवमराजद्विष्टादिषु वा असंस्तरणे प्रतिग्रहे भृतेऽन्यस्मिन् लभ्यमाने मात्रके गृह्यते । अध्वनि कल्पोऽध्वकल्पः, कल्पग्रहणं कारणे विधिना अध्वा प्रतिपन्न इति ख्यापनार्थम्, तत्रासंस्तरणे प्रतिग्रहे भृते सति मात्रकेऽपि गृह्यते ॥ अथ ग्रहण-द्वितीयपदद्वारे व्याख्यायेते - ग्रहणं नाम को मात्रकं गृह्यति? तत्र निर्वचनं यथा प्रतिग्रहे । द्वितीयपदं पुनरशिवादिभि कारणैः यथाकृतमात्रकस्य यत्र सम्मवस्तत्र गन्तुमशक्तौ स्वस्थान एवाल्पपरिकर्म - बहुपरिकर्मणी ग्रहीतव्ये । लक्षणादीनि द्वाराणि प्रतिग्रह इव मन्तव्यानि ।। अल्पपरिकर्मणि सपरिकर्मणि च पात्रे लेपप्रदानं सम्भवति । अतस्तद्विषयं विधिमाह [भा. ४०७६ ] Jain Education International हरिए बीए चले जुत्ते, वच्छे साणे जलट्ठिए । पुढवी संपातिमा सामा, महावाए महियाऽमिते ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy